संस्कृत सूची|संस्कृत साहित्य|पुराण|मल्लपुराणम् ।|नीलमतपुराणम् ।|
सत्यावितस्तारुपाविर्भाववर्णनम्

सत्यावितस्तारुपाविर्भाववर्णनम्

नीलमत पुराण अंदाजे सहाव्या ते आठव्या शतकातील ग्रंथ आहे, यात कश्मीरमधील इतिहास, भूगोल, धर्म आणि लोकगाथांबद्दल विपुल माहीती आहे.


बृहदश्व उवाच ।
इति तथ्यं विदित्वा सा क्षमया परया युता ॥३३५॥
उवाच देवी भर्तारं चारुचन्द्रानिभानना ।
रसातले नदीरुपं करिष्यामि जगद्‍गुरो ॥३३६॥
कुरु शूलप्रहारं त्वं नीलवेश्य समीपत: ।
यत्रासीलाडलमुखं प्राग्प्रभो शैलदारणे ॥३३७॥
तेन शूलप्रहारेण निष्क्रम्याहं रसातलात्‍ ।
हलमार्गेण यास्यामि यावत्सिन्धुं महानदम्‍ ॥३३८॥
तथा कृते च शर्वेण तथा चक्रे सती शुभा ।
तस्या नाम वितस्तेति कृतवान्‍ शंकर स्वयम्‍ ॥३३९॥
वितस्तिमात्रं गर्त तु शूलन कृतवान्‍ हर: ।
रसातलगता येन निष्क्रान्ता सा सरिध्दरा ॥३४०॥
तस्माविद्तस्तेति कृतं नाम तस्या: स्वयम्भुव ।
ततोऽपि सर्वदेशेषु वार्ताऽभूदियमुत्यिता ॥२४१॥
महेश्वर्दी मुनिप्रीत्या पुनार्देशं व्यपीपिवत्‍ ।
तषु तेषु च दंशेषु लोका: शुश्चुवुरुत्कया ॥३४२॥
सती देवी नदी भृत्वा कश्मीरेभ्यो विनिर्गता ।
इति नीलमते सत्यावितस्तारुपाविर्भाववर्णनम्‍ ॥

N/A

References : N/A
Last Updated : January 08, 2018

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP