संस्कृत सूची|संस्कृत साहित्य|पुराण|मल्लपुराणम् ।|नीलमतपुराणम् ।|
मन्वन्तरपर्यायवर्णनम्‍

मन्वन्तरपर्यायवर्णनम्‍

नीलमत पुराण अंदाजे सहाव्या ते आठव्या शतकातील ग्रंथ आहे, यात कश्मीरमधील इतिहास, भूगोल, धर्म आणि लोकगाथांबद्दल विपुल माहीती आहे.


बृहदश्व उवाच ।
राशिभोगो रवर्मास: सौर इत्यभिधीयते ।
ऋतुस्तु मासौ व्दौ शेयावयनं तदृतुत्रयम्‍ ॥५१॥
अयने व्दे तथैवाब्दं नृपैवं वर्षसंख्यया ।
व्दात्रिंशच सहस्राणि तथा लत्तचतुष्टयम्‍ ॥५२॥
प्रोक्तं कलियुगं राजन्ध्दापुरं व्दिगुणं स्मृतम्‍ ।
त्रिगुणं तु तथा त्रेता कृतं क्षेयं चतुर्गुणम्‍ ॥५३॥
(कलिमानं ४३२००० । व्दापुरमानं८६४००० ।
त्रेतामानं १२९६००० । कृतमानं १७२८००० । )
चत्तर्युगैकसप्तत्या मन्वन्तरमिहोच्यते ।
(युगप्रमाणं ४३२०००० । मन्वन्तरप्रमाणं ३०६७२००००)
तस्मिन्मन्वन्तरेऽतीते प्रजा: सस्थास्नुजगमा: ॥५४॥
भूर्लोकमाश्रिता: सर्वा नाशमायान्ति सर्वथा ।
एकार्णवं जगत्सर्व तदा भवति भूपते ॥५५॥
हिमवान्हेमकूटश्च निषधो नीलपर्वत ।
श्वेतश्च श्रृंगवान्मेरुर्माल्यवाल्गंधमादन: ॥५६॥
महेन्द्रो मलय: सह्य: शक्तिमान्‍ ऋतवानपि ।
विन्ध्यश्च पारियात्रश्च न विनश्यन्ति पर्वता: ॥५७॥
शेषं विनश्यते सर्व जम्बुव्दिपं विशेषत: ।
तदा विनष्टे लोकेऽस्मिन्महादेव: स्वयं प्रभु: ॥५८॥
आपो भूत्वेच्छया लोके तिष्ठत्यस्मिन्समन्तत: ।
सती देवी च तत्कालं तस्मिन्नौत्वं करोति हि ॥५९॥
मनुर्भविष्यंस्तस्मिंस्तु सर्वबीजानि मायया ।
तदा स्थापयते राजंस्तां च नावं जगद्‍गुरु : ॥६०॥
मत्स्यरुपधरो विष्णु: श्रृगे कृत्वापर्कषति ।
आकृष्य नावं तां देवस्तस्मिन्पर्वतमस्तके ॥६१॥
बद्‍ध्वा व्रजति भूपल ह्यभिशातां तदा गतिम्‍ ।
इति नीलमते मन्वन्तरपर्यायवर्णनम्‍ ॥

N/A

References : N/A
Last Updated : January 08, 2018

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP