संस्कृत सूची|संस्कृत साहित्य|पुराण|मल्लपुराणम् ।|नीलमतपुराणम् ।|
राजधर्मवर्णनम्

राजधर्मवर्णनम्

नीलमत पुराण अंदाजे सहाव्या ते आठव्या शतकातील ग्रंथ आहे, यात कश्मीरमधील इतिहास, भूगोल, धर्म आणि लोकगाथांबद्दल विपुल माहीती आहे.


नील उवाच ।
नित्यं राज्ञा समुत्थाय पूजनीया: सुरा व्दिजा: ।
वह्रिसंपूजनं कार्य द्रष्टव्यं वदनं घृते ॥१००२॥
श्रोतव्यं तिथिपत्रं च कर्तव्यं वैद्यभाषितम्‍ ।
समागतेन द्रष्टव्यो व्यवहारस्तथा सम: ॥१००३॥
विमानना न कर्तव्या कस्यचिच कदाचन ।
स्ववेदो रक्षितव्यश्च नित्यं ब्राह्मणपुंगव ॥१००४॥
दुर्गत्वादस्य देशस्य परचक्रभयं विना ।
स्वभेदेनेह नश्यन्ति बध्दमूला नराधिपा: ॥१००५॥
अतीव च्छलिनो मर्त्या वसन्त्यत्र व्दिजोत्तम ।
परलोकाद्भयं येषां नास्ति किंचन हृद्रतम्‍ ॥१००६॥
अतीव निरतस्तस्मात्परस्परविभेदने ।
समाधेयं ततो राज्ञा किं नु कुर्युरिमे जना: ॥१००७॥
नित्यं सन्निहिता देवा अस्मिन्‍ कश्मीरमणडले ।
तेषां भक्ति: सदा कार्या नागानां च तथा व्दिज ॥१००८॥
ब्राह्मणानां च सर्वेषां  स्रलशयताजुषाम्‍ ।
पूज्या: पिशाचाश्च तथा बलिपूर्वेण कर्मणा ॥१००९॥
देशानुसार: कर्तव्यो जन: कार्य: स्वधिष्ठित: ।
आगतश्च जन: सर्व: पूजनीयो दिगन्तरात्‍ ॥१०१०॥
दणडापराधप्रतिम: कार्य: सर्वस्य काश्यप ।
नोग्रदणडो भवेद्राजा क्षमेत च न कस्यचित्‍ ॥१०११॥
कारयेत तथा राज्यं राजशास्त्रोपदेशत: ।
इति श्री नीलमते राजधर्मवर्णनम्‍ ॥

N/A

References : N/A
Last Updated : January 09, 2018

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP