संस्कृत सूची|संस्कृत साहित्य|पुराण|मल्लपुराणम् ।|नीलमतपुराणम् ।|
गंगायमुनयोरन्योन्योपालम्भवर्णनम्

गंगायमुनयोरन्योन्योपालम्भवर्णनम्

नीलमत पुराण अंदाजे सहाव्या ते आठव्या शतकातील ग्रंथ आहे, यात कश्मीरमधील इतिहास, भूगोल, धर्म आणि लोकगाथांबद्दल विपुल माहीती आहे.


सती लक्ष्मीसमेता तु पावयन्ती ततो जनम्‍ ॥३८५॥
जगाम हलमार्गेण मन्दं मन्दं सरिव्दरा ।
अदितिर्देवमाता च त्रिकोटिह्यभिविश्रुता ॥३८६॥
संयोगं सा गता देव्या तया प्राप्ता वितस्तया ।
तत: शची शक्रपत्नी नाम्रा शक्रपथा नदी ॥३८७॥
ततश्चन्द्रवती नाम दितिर्दैत्यारणिर्नृप ।
एवं क्रमेण सा देवी गृह्णात्यथ सरिव्दरा ॥३८८॥
जगाम गंगया सार्ध संगमं सिन्धुना सह ।
प्रयागभूमावक्षययच्छायावृक्षसमीपत: ॥३८९॥
वैतस्तमम्भ: सह सैन्धवेन युक्तं यथा क्षीरमिवामृतेन ।
लावणययुक्तं च यथैव रुपं शीलेन युक्तं च यथा श्रुतं स्यात्‍ ॥३९०॥
शौर्य यथा स्याव्दिनयेन युक्तं धर्म यथा स्याद्‍दविणेन युक्तम्‍ ।
मूर्तिर्युता वा सजयैव राजन्‍ कामो यथा स्यान्मनसोपपन्न: ॥३९१॥
रत्न यथा स्यात्कनकेन युक्तमायुर्यथा स्वस्तियुतं नृवीर ।
सम्मानयुक्तश्च यथैव लाभस्तथैव सा तत्र तदा बभूव ॥३९२॥
तपनस्य सुता देवी गंगा स्नेहेन यन्त्रिता ।
बहुमानान्मुनेर्भक्त्या स्वेनंशिन विवर्धयत्‍ ॥३९३॥
वितस्तां तु सरिच्छेष्ठा सर्वकल्मपनशिनीम्‍ ।
गंगा सिन्धुस्तु विज्ञेया वितस्ता यमुना तथा ॥३९४॥
तयोर्घ.............. वितस्ता यमुना मता ।
असौ प्रयागो विज्ञेयस्तथोर्यत्र तु संगम:  ॥३९५॥
गंगातोयमथादाय गंगां तु यमुनाऽब्रवीत्‍ ।
प्रयागेऽपहृतं नाम त्वया मे वरवर्णिनि ॥३९६॥
कश्मीरेषु तथा नाम मया चापदृतं तव ।
तामव्रवीत्ततो गंगा भूय एव मया तव ॥३९७॥
हर्तव्यं नाम सुभगे यदाऽहं सिन्धुसंज्ञिता ।
इति नीलमते गंगायमुनयोरन्योन्योपालम्भवर्णनम्‍ ॥

N/A

References : N/A
Last Updated : January 08, 2018

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP