संस्कृत सूची|संस्कृत साहित्य|पुराण|मल्लपुराणम् ।|नीलमतपुराणम् ।|
चैत्र पिशाचप्रयाणवर्णनम्

चैत्र पिशाचप्रयाणवर्णनम्

नीलमत पुराण अंदाजे सहाव्या ते आठव्या शतकातील ग्रंथ आहे, यात कश्मीरमधील इतिहास, भूगोल, धर्म आणि लोकगाथांबद्दल विपुल माहीती आहे.


नील उवाच ।
चैत्रे मासे सिते पक्षे पश्चदश्यां व्दिजोत्तम ।
योध्दुं याति निकुम्बस्तु पिशाचान्वालुकार्णवे ॥७८१॥
तस्मात्तेषां तु मध्याहे प्रत्येकं तु गृहे गृहे ।
पूजा कार्या विधानेन यथावार्ता निबोध मे ॥७८२॥
पिशाचं मृणमयं कृत्वा काक्षं  च व्दिजसत्तम ।
गन्धमाल्यैस्तथा वस्त्रैरलंकारैश्च पूजयेत्‍ ॥७८३॥
भक्ष्यैश्च ले पकापूपैर्मासै: पानैस्तथाविधै: ।
आयुधैर्विविधाकारै: छत्रोपानहयष्टिभि: ॥७८४॥
नृभ: शुक्लान्नसंपूर्ण संस्थाप्यनेकभक्षकम्‍ ।
कुद्दालपिटके चोभे तथा तस्य निवेदयेत्‍ ॥७८५॥
ज्ञेयमानकवाद्यं च तन्त्रीवाद्यं च वादयेत्‍ ।
मध्याह्रे तत्त संपूज्य प्राप्ते चन्द्रोदये पुन: ॥७८६॥
पूर्ववत्पूजयेव्दिव्दान्‍ स्ववित्तस्यानुरुपत: ।
तथा कृतस्वस्त्ययनो ब्राह्मणैस्तु विसर्जयेत्‍ ॥७८७॥
विसृज्यमाने तस्मिस्तु तंत्रीवाद्यं च वादयेत्‍ ।
तस्यानुब्रजनं कार्य व्दितीयेऽहनि काश्यप ॥७८८॥
आरोढव्यो भवेच्छैल: समीपस्थ इति स्थिति: ।
गृहमागत्य कर्तव्य उत्सवो गीतवादन: ॥७८९॥
सहृद्भि : सह भोक्रव्यं भोजनं तु विशेषत: ।
इति श्री नीलमते चैत्र पिशाचप्रयाणवर्णनम्‍ ॥

N/A

References : N/A
Last Updated : January 09, 2018

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP