संस्कृत सूची|संस्कृत साहित्य|पुराण|मल्लपुराणम् ।|नीलमतपुराणम् ।|
नवान्नविधान वर्णनम्

नवान्नविधान वर्णनम्

नीलमत पुराण अंदाजे सहाव्या ते आठव्या शतकातील ग्रंथ आहे, यात कश्मीरमधील इतिहास, भूगोल, धर्म आणि लोकगाथांबद्दल विपुल माहीती आहे.


नील उवाच ।
धान्ये पके सिते पक्षे दिने दैवज्ञचोदिते ॥८८०॥
देवान्पितृन्‍ समभ्यर्च्य जलमग्रिं व्दिजान्‍ तथा ।
व्दिजातिपूजनं कृत्वा दैवज्ञस्य च पूजनम्‍ ॥८८१॥
नववस्त्रपरिधान: स्वनुलिप्त: स्वलंकृत: ।
स्रग्वी पूर्वमूख: शुक्लो ब्रह्मघोष पुरस्सर: ॥८८२॥
श्रृणवन्‍ वादित्रघोषं च गीतशब्दं तथैवच ।
मणडलं रुचिरं क्रुत्वा भूमौ पट्टे पुटेपिवा ॥८८३॥
मध्ये ब्रह्माणमालिख्य तथानन्तं च भोगिनम्‍ ।
ततो लिखेच दिकपालान्‍ स्वां स्वां दिशमवस्थितान्‍ ॥८८४॥
तेषां तु पूजनं कार्य धूपमाल्यानुलेपनै: ।
वस्त्रै: रत्नै: फलैर्भक्ष्यैर्वह्रिब्राह्मणतर्पणै: ॥८८५॥
गुडोपेतास्तथा धाना: सर्वसस्यसमुद्भवा : ।
ब्राह्मणानां प्रदातव्या भृत्यबन्धुजनस्य च ॥८८६॥
स्वयं च धाना भोक्रव्या: रात्रौ न तु दिवा बुधै: ।
दिवा धानासु वसति: रात्रौ च दधिसक्तुषु ॥८८७॥
अलक्ष्मी: कोविदारेषु कपित्थेषु च सर्वदा ।
इति श्री नीलमते नवान्नविधान वर्णनम्‍ ॥

N/A

References : N/A
Last Updated : January 09, 2018

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP