संस्कृत सूची|संस्कृत साहित्य|पुराण|मल्लपुराणम् ।|नीलमतपुराणम् ।|
कश्मीरप्राप्तिवर्णनम्

कश्मीरप्राप्तिवर्णनम्

नीलमत पुराण अंदाजे सहाव्या ते आठव्या शतकातील ग्रंथ आहे, यात कश्मीरमधील इतिहास, भूगोल, धर्म आणि लोकगाथांबद्दल विपुल माहीती आहे.


एवं निविष्टान्‍ कश्मीरान्दृष्टा दृष्टस्तु कश्यप: ।
आराध्य शंकरं देवमुमां देवीमचोदयत्‍ ॥३०५॥
देवस्य पावनायाऽस्य तोयदानेन पार्थिव ।
सा वितस्तेति विख्याता नदी पापप्रणशिनी ॥३०६॥
आराध्य केशवं चापि तथा लक्ष्मीमचोदयत्‍ ।
देशस्य पावनायास्य सा विशोकेति कीर्तिता ॥३०७॥
अदितिर्देवमाता च कश्यपेन प्रचोदिता ।
त्रिकोटिर्नामतो भूत्वा नदीदेशे प्रसर्पति ॥३०८॥
शक्रपत्नी शची याच सा च कश्यपचोदिता ।
नाम्रा हर्षपथा याता देशेऽस्मिन्‍ पापसूदनी ॥३०९॥
दितेश्चन्द्रवती जाता देशेऽस्मिन्‍ पापनाशिनी ।
स्वमंशं यमुनादेवी वितस्तायै समर्पयत्‍ ॥३१०॥
एवं कश्यपवाक्येन देवदानवमातर: ।
देवपत्न्यस्तथा पुणया: सरिद्रूपत्वमागता: ॥३११॥
तदा कश्यपवाक्येन तीर्थसागरनिम्रगा ।
कश्मीरेषु तदा जग्मु: सान्निध्यं पुण्यवृध्देय ॥३१२॥
एवं नरेन्द्र कश्मीर प्राप्ते वैवस्वतेन्तरे ।
समुत्पन्ना महापुणयाअ हरभार्या सती शुभा ॥३१३॥
कश्मीरायां तथा राजा त्वया ज्ञेयो हरांशज: ।
तस्यावज्ञा न कर्तव्या सततं भूतिमिच्छता ॥३१४॥
इति नीलमते देशनिवामोमालक्ष्म्यदितिशचीदितीनां वितरताविशोकागंगाहर्ष पश्चायमुनावर्णनपूर्वं कश्मीरप्राप्तिवर्णनम्‍ ॥

N/A

References : N/A
Last Updated : January 08, 2018

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP