संस्कृत सूची|संस्कृत साहित्य|पुराण|मल्लपुराणम् ।|नीलमतपुराणम् ।|
भद्रकालीपूजावणनम्

भद्रकालीपूजावणनम्

नीलमत पुराण अंदाजे सहाव्या ते आठव्या शतकातील ग्रंथ आहे, यात कश्मीरमधील इतिहास, भूगोल, धर्म आणि लोकगाथांबद्दल विपुल माहीती आहे.


नील उवाच ।
ततोऽष्टम्यां पूजनीया भद्रकाले यथाविधि ।
आमिषैर्विविधै: शाकैर्वह्रिब्राह्मणतर्पणै: ॥९५०॥
बिल्वपत्रैस्तथा सम्यक्‍ चन्दने न घृतेन च ।
पानकैर्विविधाकारै: सम्यक्‍ चापि पृथक् विधै: ॥९५१॥
भूशोभाभिश्च रम्याभिर्निर्मिताभिश्च शिल्पत: ।
नृत्तगीतैश्च वादित्रै: रात्रिजागरणेन च ॥९५२॥
दुर्गागृहे पुस्तकानां पूजा कार्या तथा व्दिज ।
स्वकानां शिल्पभाणडानां कार्या शिल्पजेनन च ॥९५३॥
वाद्यभाणडानि धान्यानि कवचास्त्राणि चैव हि ।
आयुधानि च संहृष्टो मडलालम्बपूर्वकम ॥९५४॥
पूजयित्वा ययाचारं भाणडजातं विचक्षण: ।
प्राश्नीयाद्दधिसंयुक्तं ब्राह्मननापि मांत्नतम्‍ ॥९५५॥
आश्रितोपाश्रितान्मित्रँ फलवदविदस्तथा ।
पूजनीयाश्च कर्तव्या त्रिभिर्गत्वा फलद्रुमा: ॥९५६॥
अभ्यर्च्य विधिना तं च प्रार्थायेयुर्मनीषितम्‍ ।
देवीं संपूज्य पुष्पादिधूपदीपानुसंपदा ॥९५७॥
दत्त्वान्नपिंड श्येनस्य तेन पिणडोऽभिनन्दित: ।
शुभाय गदितो नित्यं फलशास्त्रविचक्षणै: ॥९५८॥
सृहृत्संबन्धिविप्राणां तथाऽश्रितजनस्य च ।
दातव्यं भोजनं विप्र वसन्तेऽय शरद्यपि ॥९५९॥
अष्टम्यां वा चतुर्थ्था वा चतुर्दश्यां तथैवच ।
नवम्यामध दातव्यं शुक्लपक्षेऽयवोत्तरे ॥९६०॥
यस्या: पूजा कृता देव्या: तस्या भोक्रव्यमप्रत: ।
इति श्री नीलमते भद्रकालीपूजावणनम्‍ ।

N/A

References : N/A
Last Updated : January 09, 2018

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP