संस्कृत सूची|संस्कृत साहित्य|पुराण|मल्लपुराणम् ।|नीलमतपुराणम् ।|
राज्ञ: संवत्सराभिषेकवर्णनम्

राज्ञ: संवत्सराभिषेकवर्णनम्

नीलमत पुराण अंदाजे सहाव्या ते आठव्या शतकातील ग्रंथ आहे, यात कश्मीरमधील इतिहास, भूगोल, धर्म आणि लोकगाथांबद्दल विपुल माहीती आहे.


नील उवाच ।
अभिषेकान्हि कर्तव्य: प्रतिसंवत्सरं नृपै: ।
अभिषेको व्दिजश्रेष्ठ यथापूर्व तथा सदा ॥९७५॥
पुरोधा: सोपवासस्तु जुहुयाज्जातवेदसी ।
गणं चैव प्रतिरथं शब्दवर्षगणावुभौ ॥९७६॥
आयुषमभयं  चैव तथा स्वस्त्ययनं परम्‍ ।
वैष्णवानि च मन्त्राणि सूक्रानि च यथाविधि ॥९७७॥
सावित्रब्रह्मरौद्राणि वारुणानि तथैवच ।
नगरं च तथाकार्य पताकाध्वजसंकुलम्‍ ॥९७८॥
नीरजस्कास्तथा कार्या राजमार्गा: शुभैर्जलै: ।
पौरै: स्रातै: सुवस्त्रैश्च भाव्यं मडंलमालिभि: ॥९७९॥
गन्तव्यं वारमुख्याभिस्तथा राजनिवेशनम्‍ ।
पौरमुख्यैस्तथा बाह्यैर्गणमुख्यैस्तथैव च ॥९८०॥
शोभनीयं च नगरं मार्गाश्च नटनर्तकै: ।
राजा स्रात्वा पुन: स्राप्य पंचगव्येन धार्मिक: ॥९८१॥
मृत्ताम्ररौप्यसौवर्णै: स्रापनीयास्तथा घटै: ।
तोयस्य पयसो दध्रा सर्पिषश्च तथा घटै: ॥९८२॥
शुद्रविट्‍क्षत्रविप्राणां गणमुख्यैर्यथादिशम्‍ ।
पश्चाद्‍दक्षिणत: प्राकच सौम्येन च यथाक्रमम्‍ ॥९८३॥
स्रानकाल च कर्तव्यो महान्‍ कालाहल: शुश: ।
वादित्रशंखपुणयाह सूतवन्दिजनै: सह ॥९८४॥
सामन्तैस्तु तथा भाव्यं छत्रचामरपाणिभि: ।
राजा स्राप्यो मृत्तिकाभिर्यथाक्रमम्‍ ॥९८५॥
पर्वतोर्धमृदा राज्ञ: शिर: संशोधयेत्‍ बुध: ॥
शोध्यौ कर्णौ च वल्मईकमृदा मन्त्रविदा विदा ॥९८६॥
शत्रो: स्थानं (श्रोत्रस्थानं) मृदा चैव शोधनीया च कन्धरा ।
राजवेश्मगृहव्दारात्‍ हृदयं तस्य शोधयेत्‍ ॥९८७॥
देवालयमृदा पृष्ठं दक्षिणं तु तथा भुजम्‍ ।
गजदन्तोध्दतमृदा वृषश्रृंगमृदा पर: ॥९८८॥
अश्वव्दारात्‍ कुटीं चास्य ऊरुकमलिनीमृदा ।
पौरै: स्रातै: सुवस्त्रैश्च भाव्यं मडलपाणिभि: ॥९८९॥
मृद्भिस्रातश्च संस्थाप्य राजा सर्वौषाधीगणै: ।
सर्वगन्धै: सर्वरत्नै: सर्वबीजैस्तत: परम्‍ ॥९९०॥
सर्वपुष्पै: सर्वफलै: दूर्वागोरचनाड‍कुरै: ।
ततो भद्रासनगतं तीर्थतोयै: शुभाम्बरै: ॥९९१॥
यथाशक्तिसमानीतै: पुरस्कृत्य पुरोहितम्‍ ।
नृपति: स्वाभिषेक्रव्यो दैवज्ञवचनान्नरै: ॥९९२॥
ब्राह्मणै: क्षत्रियै र्वैश्यै: शूद्रमुख्यैस्तथैवच ।
मुख्याभिर्वारमुख्यभि: वाणिग्भिश्च यथोचितम्‍ ॥९९३॥
तत: स्रातानुलिप्ताग: कृतदैवतपूजन: ।
आबध्दमुकटा: स्रग्भिर्बध्दपटटविभूषणै: ॥९९४॥
मडलालम्बनं कृत्वा दत्वा पूर्णाहुति तत: ।
पूजयेत धनौधेन दैवज्ञं सपुरोधसम्‍ ॥९९५॥
यथाशक्ति व्दिजान्‍ चान्यानभयं चैव घोषयेत्‍ ।
आगतान्‍ स्थानगान्‍ सर्वान्‍  विसृज्येत तथा पशन्‍ ॥९९६॥
मोक्षयेव्दन्धनात्‍ सर्वान्‍ ऋते लोकस्य कणटकान्‍ ।
व्याघ्रचर्मोत्तरे रम्ये तथा सिंहासने शुभे ॥९९७॥
उपविश्य भवेद्राजा स्वयं गृहपुरोधसा ।
उपविष्टममुं सम्यक्‍ मडंलश्रुतिभिस्तदा ॥९९८॥
सर्वा: प्रकृतयश्चैनं पश्येयु: पुर्णपाणय: ।
रत्नद्रव्यैर्यथोचित्यं तथा मडंलवस्तुभि: ॥९९९॥
छत्रायुधाद्यं संपूज्य गजसंघान्‍ तुरडंमान ।
आरुह्यालंकृतं नागं विसृजेत्‍ धनसंचयान्‍ ॥१०००॥
प्रकम्य नगरं सर्व प्रविश्य च तथा गृहम्‍ ।
सामन्तान्‍ पौरमुख्यान्‍ चाभ्यर्च्य हर्षाव्दिसर्जयेत्‍ ॥१००१॥
इति श्री नीलमते राज्ञ: संवत्सराभिषेकवर्णनम्‍ ।

N/A

References : N/A
Last Updated : January 09, 2018

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP