संस्कृत सूची|संस्कृत साहित्य|पुराण|मल्लपुराणम् ।|नीलमतपुराणम् ।|
कश्यपनीलसमागमवर्णनम्

कश्यपनीलसमागमवर्णनम्

नीलमत पुराण अंदाजे सहाव्या ते आठव्या शतकातील ग्रंथ आहे, यात कश्मीरमधील इतिहास, भूगोल, धर्म आणि लोकगाथांबद्दल विपुल माहीती आहे.


गतागतप्रसंगेन पितरं मानभाजिनम्‍ ॥१३८॥
तीर्थयात्रागतं श्रुत्वा कश्यपं पन्नगाधिप: ।
नीलो जगाम तं द्रष्टुं तीर्थे कनखले तथा ॥१३९॥
स गत्वा पितरं दृष्टां पितु: पादौ निपीडय च ।
निवेद्य नामधेयं स्वं ववन्दे भुजगाधिप: ॥१४०॥
पित्रा मूर्धन्युपाघ्राय पूजित: स यथाविधि ।
न्यसीदत तदा वृष्यां कौश्यां स तदनुक्षया ॥१४१॥
उपविष्टस्तदा नागो व्यज्ञापयत कश्यपम्‍ ।
पितरं तपसां स्थानं यत्तच्छृणु नराधिप ॥१४२॥
तीर्थान्युपचरन्‍ तं हि श्रुत्वाहं धर्मवत्सलम्‍ ।
भवन्तं सहसा प्राप्त: शुश्रूषार्थे व्दिजोत्तम ॥१४३॥
पूर्वदेशे त्वया ब्रह्मन्‍ दक्षिणे पश्चिमे तथा ।
दृष्टानि सर्वतीर्थानि यास्यामोऽद्योत्तरां दिशम्‍ ॥१४४॥
तत्र मद्रेषु तीर्थानि सन्ति पुण्यानि मानद ।
तथा च पर्वतश्रेष्ठे हिमवदचलोत्तमे ॥१४५॥
विपाशा पापशमनी श्वश्वच्छ्रेय:प्रदा शिवा ।
देवलोकप्रदा स्रानान्नदी देवह्रदा तथा ॥१४६॥
तथा पापहरो देवो हरश्च हरिदीश्वर: ।
तथा च संगम: पुण्य: करवीरपुरं प्रति ॥१४७॥
तत्र देव ह्रदा यान्ति विपाशां निस्रगोत्तमाम्‍ ।
विपाशायां तथा पुण्यं संगतं कालिकाश्रमम्‍ ॥१४८॥
इरावती तथा पुण्या सर्वकल्मषनाशिनी ।
रेवत्यां च विशेषेण तथाष्टम्यां विशेषत: ॥१४९॥
षष्टिस्तीर्थसहस्राणि विशन्त्येकामिरावतीम्‍ ।
कुम्भार्धस्यान्द: पुण्योद्रं पुण्योदा देविका नदी ॥१५०॥
नित्यमेव तथा पुण्यो विश्वामित्रो महानद: ।
उदाख्यस्तु महापुण्य: संगमाश्च पृथक्‍ पृथक्‍ ॥१५१॥
इरावत्यां यथा पुण्यं देविकायां तथैव च ।
यैव देवी उमा सैव देविका प्रथिता भुवि ॥१५२॥
मद्राणामनुकम्पार्थ भवद्भिरवतारिता ।
यां दृष्टा मानव; पूतो भवतीह न संशय: ॥१५३॥
इन्द्रमार्ग: सोमतीर्थ पुण्यमम्बुजनस्तथा ।
सुवर्णबिन्दुस्तत्रैव हरस्यायतनं शुभम्‍ ॥१५४॥
स्कन्दस्यायतनं तत्र सर्वपापनिषूदनम्‍ ।
उमापतिर्महापुण्यो रुद्रतीर्थ तथैव च ॥१५५॥
दुर्गाव्दारं तु पुण्योदं कोटितीर्थ तथैव च ।
रुद्रस्य तीर्थ कामाख्यं पुष्पन्यासं तथैव च ॥१५६॥
पुण्यं हंसपदं प्रोक्तं ऋषिरुपं च मानदन ।
सर्वतो देविकातीर्थ क्षेत्रं क्रोशचतुष्टयम्‍ ॥१५७॥
यत्र कूपतडागाख्यं पुण्यं तीर्थमशेषत: ।
आपगा च नदी पुण्या तौषी तोषितभास्करा ॥१५८॥
चन्द्राशुशीतलजला चन्द्रभागा सरिद्वरा ।
पुण्यं च चन्द्रभागायास्तीर्थ वै वट्टिलामुखम्‍ ॥१५९॥
शंखमर्दलनामा च तथा पापनिषूदन ।
गृह्येश्वर: शतमुखा यष्टिकापथ एव च ॥१६०॥
कदम्बेशस्तथा पुण्य: क्षेत्र चैव समन्तत:  ।
यावच्छतमुखं तीर्थ यावत्तीर्थ महेश्वरम६ ॥१६१॥
तावत्‍ क्षेत्रमिदं पुण्यं वाराणस्या यवाधिकम्‍ ।
सर्वत्रैव सदा पुण्या चन्द्रभागा महानदी ॥१६२॥
माघशुक्रत्रयोदश्यां पुष्ययोगे विशेषत: ।
पृथिव्यां यानि तीर्थानि ह्यांसमुद्रं सरासि च ॥१६३॥
चन्द्रभागां समायान्ति माघाशुक्लत्रयोदशीम्‍ ।
पुण्यं वस्त्रापथं प्रोक्तं देवश्च छगलेश्वर: ॥१६४॥
व्दितीयायां तथा भौमे तस्योत्पत्ति : समीरिता ।
सतीदेहस्य सरसस्तीर्थ विष्णुपदं  सर: ॥१६५॥
क्रमसारति विख्यातं सर्वकल्मषनाशनम्‍ ।
एतान्यन्यानि च मुने तीर्थान्यनसाराशु वा ॥१६६॥
येषां स्रानेन मुच्यन्ते पापात्मानापि मानवा : ।
इति नीलमते कश्यपनीलसमागमवर्णनम्‍ ॥११॥

N/A

References : N/A
Last Updated : January 08, 2018

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP