TransLiteral Foundation
Don't follow traditions blindly or don't assume a superstition either.
Don't be intentionally ignorant. Ask us!! Make Informed Religious Decisions!!
संस्कृत सूची|संस्कृत साहित्य|पुराण|मल्लपुराणम् ।|नीलमतपुराणम् ।|
नववत्सरप्रथमं दिने सर्वापच्छान्तिकरमहशान्तिवर्णनम्‍

नववत्सरप्रथमं दिने सर्वापच्छान्तिकरमहशान्तिवर्णनम्‍

नीलमत पुराण अंदाजे सहाव्या ते आठव्या शतकातील ग्रंथ आहे, यात कश्मीरमधील इतिहास, भूगोल, धर्म आणि लोकगाथांबद्दल विपुल माहीती आहे.


नववत्सरप्रथमं दिने सर्वापच्छान्तिकरमहशान्तिवर्णनम्
नील उवाच ।
तस्मिन्नेवाऽह्रि कर्तव्या महाशान्तिर्व्दिजोत्तम ।
आढयैर्हि रक्षणार्थाय श्रियस्तत्प्रापणाय च ॥६८५॥
तस्मिन्नेवाहि कर्तव्या पूजाकालस्य काश्यप ।
तस्मिन्कालस्य गणना प्रवृत्ता पूर्वमेव तु ॥६८६॥
तस्मिन्नहानि वै सृष्टं ब्रह्मणेदं जगत्पुरा ।
सूर्योदये व्दिजश्रेष्ठ इत्येवमनुशुश्रुम ॥६८७॥
पूजनीयास्तु ये देघा ब्रह्मविष्णुमहेश्वर: ।
प्रहक्षशान्ति: कर्तव्या दैवज्ञविधिचोदिता ॥६८८॥
पूजनीया: ग्रहा: सर्वे नक्षत्राणि च मानद ।
कालस्यावय वा: सर्वे ये च संवत्सरादय: ॥६८९॥
कालकल्पावुभौ पूज्यौ मनवश्च चतुर्दश ।
अतिताश्च भविष्यन्तस्तेषां नामानि मे शृणु ॥६९०॥
स्वायंभुवो मनु: पूर्व मनु: स्वारोचिषस्तथा ।
औत्तमस्तामसश्चैव रैवतश्चक्षुषस्तथा ॥६९१॥
वैवस्वतोऽर्कसावर्णिर्ब्रह्मसावर्ण्य एवच ।
रुद्रेशो दक्षसावर्णि: सप्यो भैत्यस्तथैव च ॥६९२॥
संपूजनीया देवेन्द्रास्तथा ब्रह्मन्‍ चतुर्दश ।
विश्वभुक्‍ च विपश्चिच सुचित्तिश्च निधिस्तथा ।
विभुर्मनोजवश्चैव तेजस्वी च तथा बडि: ॥६९३॥
अद्भुतश्च तथा शान्तो वृषो देववरस्तथा ।
ऋतधामा च देवेन्द्र: शुचि: शुक्लश्चतुदर्श ॥६९४॥
युगाना  च तथा पूजा कर्तव्या व्दिजसत्तम ।
पश्च संवत्सरा: पूज्या: पूज्यं चैवायनव्दयम्‍ ॥६९५॥
ऋतुषट्‍कं तथा पूज्यं मासा व्दादश चाप्यथ ।
व्दौ पक्षौ तिथयश्चैव पूज्या पश्चदशैव तु ॥६९६॥
करणानि मुहूर्ताश्च राशयश्च पृथक्‍ पृथक् ।
धर्म वरिष्ठं सत्यं च कामार्थौ च हुताशनम्‍ ॥६९७॥
वसून्‍ रुद्रान्‍ लोकपालान्‍ लोकालोकनिवासिन: ।
सुदामानं शंखपादं केतुमन्तं तथैव च ॥६९८॥
तथा हिरणयरोमानं दिकपालान्‍ चैव पूजयेत्‍ ।
शक्राद्यान्‍ ब्राह्मणश्रेष्ठ दक्षपुत्रीस्तथैव च ॥६९९॥
सती ख्याति: स्मृति : स्वाहाप्यनुसूया तथा सुधा ।
प्रीति: क्षमा च संभूति: सन्नतिश्चाप्यरुन्धती ॥७००॥
लक्ष्मी: कीर्तिर्धृतिर्मेधा तुष्टि: श्रध्दा क्रिया मति : ।
बुध्दिर्लज्जा वसु: शान्ति: पुष्टि: सिध्दिस्तथा रति : ॥७०१॥
सुरमा च वसुर्दाशी लम्बा भानुमरुध्दती ।
संकल्पाश्च मुहूर्ताश्च साध्या विश्वे च काश्यप ॥७०२॥
(?) अदितिर्दितिर्दनु: काला दनायु: सिंहिका मुनि: ।
कद्रू: क्रूरा इरा स्रावा विनता सुरभि: खशा ॥७०३॥
वृषाश्वाश्च तथा पूज्या: सुप्रभा च तथा जरा ।
बहुपुत्रश्च संपूज्यस्तस्य पक्षीव्दयं तथा ॥७०४॥
पक्षीचतुष्कसंयुक्तोऽ रिष्टनेमिस्तथैव च ॥७०५॥
ऋध्दिर्वृध्दिस्तथा निद्रा धनेशो नलकूवर: ।
शंखपद्मानिधी पूज्यौ भद्रकाली सरस्वती ॥७०६॥
वेदोपवेदवेदाडविद्यास्थानानि कृत्खश: ।
नागा यज्ञा: सुपर्णाश्च तथैव गरुडारुणौ ॥७०७॥
जम्बु:शाक: कुश: कौश्च: शाल्मलिव्दीप एव च ।
गोमेध पुष्करश्चैव व्दीपा: पूज्या:  पृथक्‍ पृथक्‍ ॥७०८॥
लवण: क्षीरमाज्यं च दधिमण्डसुरोदका: ।
तथैवेक्षुरसोदश्च पुणया: स्वादूदकस्तथा ॥७०९॥
उत्तरा: कुरव: पुणया: गम्यो हैरण्वतस्तथा ।
भद्राश्व: केतुमालश्च वर्षश्चव इलाभृत: ॥७१०॥
हरिवर्ष: किंपुरुषां वर्षो भारतसंज्ञक; ।
भारतस्य तथा भेदा: पूजनीयाश्च ये नच ॥७११॥
इन्द्रद्युम्र: कशेरुश्च ताम्रवर्णो गभस्तिमान्‍ ।
नागव्दीपस्तथा सौम्य गान्धर्वो वारुणस्तथा ॥७१२॥
श्रयं च मानवो व्दीपस्तथा सागरसंभृत ।
चत्वार: सागरा: पूज्यास्तथा पातालसप्तकम ॥७१३॥
रुक्मभौमशिलाभौमपातालो नीलमृत्तिक: ।
क्रभौम: पीतभौम: श्वेतकृष्णक्षितिस्तथा ॥७१४॥
कालाग्रिरुद्रशेषश्च वराहश्च तथा हरि: ।
भूर्भुव: स्व: महश्चैव जनश्च तपसा सह ॥७१५॥
मर्त्यलोकस्तथालोक: पूजनीया व्दिजोत्तम ।
पृथिव्यापस्तथा तेज: पवनं खं च पूजयेत्‍ ॥७१६॥
मनो बुध्दिस्तथात्मानमव्यक्रं पुरुषं तथा ।
हिमवान्‍ हेमकूटश्च निषधो नीलपर्वत: ॥७१७॥
श्वेतश्च श्रृगवान्‍ मेरुर्माल्यवान्‍ गंधमादन: ।
पर्वत: प्रवर: पूज्यो यो नाम्रा मानसोत्तर: ॥७१८॥
महेन्द्रो मलय: सह्य: शक्तिमानृक्षवानपि ।
विन्ध्यश्च पारयात्रश्च कैलासश्च नगोत्तम: ॥७१९॥
भागीरथी पावनी च ह्रादिनी ह्रादिनी तथा ।
सीता सिन्धुश्च वंक्षुश्च सप्तगंगाश्च मानद ॥७२०॥
सुप्रभा काश्चनाक्षी च विशाला मानसा ह्रदा ।
सरस्वत्यो घनासा च सवेगा विमलोदका: ॥७२१॥
पुष्करदीनि तीर्थानि वित्स्ताद्याश्च निम्रगा: ।
शची बनस्पातिगौरि धूम्रोर्णा रुचिराकृति: ॥७२२॥
सिनीबाली कुहू: राका तथा चानुमति: शुभा ।
आयतिर्नियति: प्रज्ञा मतिर्वेलाच धारिणी ॥७२३॥
देव्यौ धातृविधातारौ सप्त छन्दांसि चाप्यथ ।
ऐरावर्णश्च सुरभिस्तथैवोचै:श्रवा: हय: ॥७२४॥
धन्वतरि र्ध्रुवश्चैव शास्त्राण्यस्त्राणि चाप्यथ ।
विनायक: कुमारश्च तथैवच विनायक:  (?) ॥७२५॥
शाखो विशाख: स्कन्धश्च नागो मेषस्तथैवच ।
मरुतश्च प्रहश्चैव रोगाणामधिपो ज्वर: ॥७२६॥
ऋषयो बालखिल्याश्च कश्यपागस्त्यनारदा: ।
तथैवाप्सरस: पुणया: पूज्या देवाश्च सोमपा; ॥७२७॥
आदित्या वसवो रुद्रा विश्वेदेवास्तथाश्विनौ ।
भूगवोंऽगिरस: साध्या मरुतश्च महाबला: ॥७२८॥
धाता मित्रोऽर्यमा पूषा शक्रेशो वरुणो भग: ।
तुष्टा विवस्वान्‍ सविता विष्णुर्व्दादशमानव: ॥७२९॥
धनुर्ध्रुव भोजश्च आपश्चैवानिलानलौ ।
प्रत्यूषश्च प्रभासश्च वसवोऽष्टौ प्रकीर्तिता: ॥७३०॥
अडांरकस्तथा सूर्यो नैऋतो घोष एवच ।
अजैकपाचाहिर्बुध्न्य: धूमकेतुर्ध्वजस्तथा ॥७३१॥
वाहनं चेश्वरो मृत्यु: कपाली कडंणस्तथा ।
एकादशैते विज्ञेया: रुद्रा स्त्रिभुवनेश्वर: ॥७३२॥
नासत्यदस्त्रौ विज्ञेयावश्विनौ वदतां वर ।
भुवनो भावनश्चैव सुजन्यो सुजन: क्रतु: ॥७३३॥
त्याज्य: सुवच मूर्धा च दक्षश्चव्यश्च बन्धुक: ।
प्रसवश्च व्ययश्चैव भृगवो व्दादश स्मृता: ॥७३४॥
आत्मा चायुर्मनो दक्षो मद: प्राणस्तथैवच ।
हविष्मांश्च गरिष्ठश्च ऋतु: सत्यस्तथैवच ॥७३५॥
एते तंऽगिरस: पुत्रा दश देवा महाबला: ।
मनो मदश्च प्राणश्च नरपालश्च वीर्यवान्‍ ॥७३६॥
दितिर्हयो नयश्चैव हंसो नारायणस्तथा ।
विभुश्चापि प्रभुश्चैव साध्या व्दादश कीर्तिता: ॥७३७॥
एकज्योतिर्व्दिज्योतिश्च त्रिज्योतिर्ज्योतिरेवच ।
एकचक्रो व्दिचक्रश्च त्रिचक्रश्च महाबल: ॥७३८॥
ऋतजित्‍ सत्यजिश्चैव सुषेण: षेणजित्तथा ।
अग्रिमित्रोऽरिमित्रश्च प्रभुमित्र: पराजित: ॥७३९॥
ऋतश्च ऋतवाक्‍ धर्ता निधर्ता वरुणो ध्रुव: ।
विदारणो नाम तथा देवदेवो महाबल: ॥७४०॥
ईदृक्षश्चाप्यदृक्षश्च ईहादृगमिताशन: ।
कृती नम्र: सकृहक्ष: समरश्च महायशा: ॥७४१॥
धाता चोप्रधनुर्भीमश्चापि युक्र: सदा सह : ।
[?] दितिर्वसुरथो दृशुवास: कामजयो विराट्‍ ॥७४२॥
एते ह्येकोनपश्चाशन्मरुत: परिकीर्तिता: ।
विश्वकर्मा तथा पूज्य: सर्वशिल्पप्रवर्तक: ॥७४३॥
आयुधं वाहनं छत्रं आसनं चिह्रदुन्दुभी: ।
संपूज्य विधिवद्रूह्यन्‍ गन्धमाल्यानुलेपनै ॥७४४॥
धूपदीपप्रधानैश्च नैवेद्यैश्च पृथक्‍ पृथक्‍ ।
एतेषां पूजनं कृत्वा बह्णन्नकुसुमोत्करै: ॥७४५॥
फलं वेदात्तथा ज्ञात्वा नगवर्षस्य वारकम्‍ ।
एषां च पूजनं कृत्वा पूजनीया विशेषत: ॥७४६॥
ग्रहो नागस्तथा मास: य: स्यात्संवत्सर: प्रभु: ।
ग्रहो भविष्यव्दअर्पस्य तथा मासस्य वारक: ॥७४७॥
दैवज्ञवक्त्राविज्ञेयो ग्रहमासो विचक्षणै: ।
दैवज्ञादेव विज्ञेयं मासवर्षस्य वारकम्‍ ॥७४८॥
तस्य पूजा प्रयोक्तव्या भक्ष्यो ज्युअपुरस्सरा ।
ततोऽग्रिहवनं कार्य सर्वेपामनुपूर्वश: ॥७४९॥
ऊँकार पूर्वकं ब्रह्म नाममध्ये निरन्तरम्‍ ।
नमोन्तं च मनुं कृत्वा जुहुयाव्दिधिपूर्वकम्‍ ॥७५०॥
वित्तशाठयं परित्यज्य घृताक्षतयवैस्तिलै: ।
पृथक्‍ पृथक्‍ तथोद्दिश्य देया विप्रे सुदक्षिणा ॥७५१॥
ब्राह्मणा भोजनीयाश्च सुहृत्सबधिबान्धवा: ।
विशेषवच भोक्रव्यं कार्यश्चापि महोत्सव: ॥७५२॥
पूजनीया व्दिजश्रेष्ठ तथा ज्योतिषका व्दिजा: ।
धन्यधान्यौघवस्त्रैश्च पूज्याश्च व्दिजपुंगवा: ॥७५३॥
फलवेदविसश्चैव इतिहासविदश्च ये ।
याचका: पूजनीयाश्च दक्षिणाभिमुखा व्दिजा: ॥७५४॥
आत्मशोभा च कर्तव्या पुष्पालडरघूपनै: ।
कथितेयं महाशान्ति: सदाघविनिसूदिनी ॥७५५॥
सर्वोत्पातप्रशमनी कलिदु: स्वप्रनाशिनी ।
आयुप्रदा पुष्टिकरी धनसौभाग्यवर्धिनी ॥७५६॥
व्याधिशत्रुप्रशमनी राज्यराष्ट्रविवर्धनी ।
मंगल्या च पवित्रा च लोकोभयसुखावहा ॥७५७॥
चित्रामाससमरम्भे य मया विहितास्तव ।
ते सर्वे ब्रह्मसदनं तदा यान्ति व्दिजोत्तम ॥७५८॥
ब्राह्मी सभा कामरुपा विशेषेण सदाऽनघो ।
धारयत्यचलं रुपमनिर्देश्यं मनोहरम्‍ ॥७५९॥
तस्यां सभायां ब्रह्माणमनिर्देश्यौजसा वृतम्‍ ।
यथोक्रास्तु नसस्यान्ति स्तुवन्त: पर्युपासते ॥७६०॥
विश्वावसुश्चाश्विनौ च गान्धर्वौ च हहाहूहू: ।
नारदप्रमुखाश्चान्ये गायन्ति च जगद्‍गुरुम्‍ ॥७६१॥
नृत्यन्त्युपचतुर्वक्त्रं देवरामा: सहस्रश: ।
उर्वशी मेनका रम्भा मिश्रकेशी त्वलंबसु: ॥७६२॥
विश्वाची च घृताची पश्चचूला तिलोत्तमा ।
सानुमत्यामला वृध्द: प्राधान्येन तथेतरा: ॥७६३॥
तदा पितामहो देव: सर्वदेवसमागमे ।
शब्दे नियुंक्ते मानसे(?) ग्रहादीन्‍ तत्र पालकान्‍ ॥७६४॥
(?) क्रतृपासां जगद्भर्तुर्गता: स्थानान्यत :परम्‍ ।
स्वानि स्वानि व्दिजश्रेष्ठ हृष्टपुष्टदिवौकस: ॥७६५॥
इति श्री नीलमते नववत्सरप्रथमं दिने सर्वापच्छान्तिकरमहशान्तिवर्णनम्‍ ॥

Translation - भाषांतर
N/A

References : N/A
Last Updated : 2018-01-08T21:08:04.8970000

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.

Zenker's hyaline degenertaion

  • = Zenker's degeneration 
RANDOM WORD

Did you know?

सुतकातील नियमांबद्दल मार्गदर्शन करावे.
Category : Hindu - Beliefs
RANDOM QUESTION
Don't follow traditions blindly or ignore them. Don't assume a superstition either. Don't be intentionally ignorant. Ask us!!
Hindu customs are all about Symbolism. Let us tell you the thought behind those traditions.
Make Informed Religious decisions.

Featured site

Ved - Puran
Ved and Puran in audio format.