TransLiteral Foundation
Don't follow traditions blindly or don't assume a superstition either.
Don't be intentionally ignorant. Ask us!! Make Informed Religious Decisions!!
संस्कृत सूची|संस्कृत साहित्य|पुराण|मल्लपुराणम् ।|नीलमतपुराणम् ।|
आश्रमस्वामिमाहात्म्यवर्णनम्

आश्रमस्वामिमाहात्म्यवर्णनम्

नीलमत पुराण अंदाजे सहाव्या ते आठव्या शतकातील ग्रंथ आहे, यात कश्मीरमधील इतिहास, भूगोल, धर्म आणि लोकगाथांबद्दल विपुल माहीती आहे.


आश्रमस्वामिमाहात्म्यवर्णनम्
गोनन्द उवाच ।
भगवन्‍ श्रोतुमिच्छामि विष्णोरायतनान्यहम्‍ ।
कश्मीरेषु फलमेषां सन्निधानाध्दरे:परं ॥१३५८॥
बृहदश्व उवाच ॥
नित्यं सन्निहितो देवो राजन्‍ चक्रधरो हरि :।
तं दृष्टा पुण्डरीकाक्षं दशदिनफलं लभेत्‍? ॥१३५९॥
नित्यं सन्निहितो देवो नरसिंहो जनार्दन : ।
तं दृष्टा देवदेवेशमश्वमेधफलोदय: ॥१३६०॥
तथा बहुसरो नाम्रा नित्यं सन्निहितू हरि: ।
देव: सन्निहितो राजन्‍ नित्यं देवसरस्यपि ॥१३६१॥
तथा सन्निहितो राजन्‍ पुणये देव सुरेश्वर ।
वासिष्ठायथैवात्र कदूर्‍वार्चायां तथैव च ॥१३६२॥
तथैव विनतार्चायां गौतम्यां च नरेश्वर ।
विलोक्य केशवार्चाश्च भक्तिश्रध्दा-पुरस्सरम्‍ ॥१३६३॥
एता: पुमान्‍ शुध्ददेहो वह्रिष्टोमफलं लाभेत्‍ ।
महापद्मस्य सरस: पुणये कूले तथोत्तरे ॥१३६४॥
नृसिंहमपरं दृष्टा ज्योतिष्टोमफलं लाभेत्‍ ।
शक्रस्थापितमालोक्य वरुणेन तथैव च ॥१३६५॥
ब्रह्मणा च धनेशेन यमेन च हरेण च ।
दिवाकरेण सौम्येन वह्रिना पवनेन च ॥१३६६॥
कश्यपेनाऽथ भृगुना पुलस्त्येन तथात्रिणा ।
भूतस्वामि-महास्वामि-शतश्रृंगगदाधरान्‍ ॥१३६७॥
मेरोर्भुवनपार्श्वे च भृगुस्वामिजनार्दनम्‍ ।
तैत्तिरियेश्वरं देवं  देवकस्वामिनं तथा ॥१३६८॥
भवस्य च तथा पार्श्वे रामस्वामिजनार्दनम्‍ ।
देवं नारायणस्थाने पश्चिमे तु वरप्रदाम्‍ ॥१३६९॥
गजेन्द्रमोक्षणं देवं वराहस्य समीपगम्‍ ।
वराहं च नृसिंहं च बहुरुपं वरप्रदम्‍ ॥१३७०॥
सप्तर्षीणां तथैवार्चा सुमुखस्य समीपगा ।
तुंगवासं च वरदं वरदं च स्वयंभुवम्‍ ॥१३७१॥
गुहावासं च योगीशं अनन्तं कपिलं मुनिम्‍ ।
अश्वशीर्ष तथा मत्स्यं हंसं कूर्म तथैव च ॥१३७२॥
उत्तुंगस्वामिनं देवं बालखिल्यकृतं तथा ।
गरुडं जलवासं च देवं भोगमयं तथा ॥१३७३॥
दृष्टैकैकमथैतेभ्यो दशधेनुफलं लभेत्‍ ।
वैण्यन पृथुना पूर्व मगधेषु प्रतिष्ठितम्‍ ॥१३७४॥
दृष्टैवाप्रोति हि फलं पुण्डरीकस्य मानव: ।
गृध्रकूटे तथैवार्चा तथा भृगुकृतां शुभम्‍ ॥१३७५॥
आश्चमस्वामिनाभ्रोक्तां पर्वतादवतारिताम्‍ ।
स्वदेशपार्श्वे रामेण भार्गवेण महात्मना ॥१३७६॥
दृष्टैव सर्वपापेभ्यो मुच्यते नात्र संशय: ।
गोनन्द उवाच ।
गृध्रकूटाद्रिरिश्रेष्ठात्‍ किमर्थ भृगुनिर्मिता ॥१३७७॥
अर्चावतारिता ब्रह्मन्‍ स्वाश्रमस्य समीपत: ।
बृहदश्व उवाच ।
पुरा पितृवधादर्चा राम: क्षित्रियमर्दन: ॥१३७८॥
त्रिसप्तकृत्व: पृथिवीं कृत्वा नि:क्षत्रियां तथा ।
एकविशे तथाघाते प्राप्ते केचिन्तु क्षित्रिया: ॥१३७९॥
गिरिदुर्गमनुप्राप्ता: कश्मीरेषु नृपोत्तम ।
रामोऽनुपदमागस्य तान्‍ जघानातिरोषण: ॥१३८०॥
तेभ्योऽपि क्षित्रिया: केचित्‍ क्षतशेषा महीपते ।
तद्भयेन गतास्त्यक्त्वा कश्मीरान्‍ राजसत्तम ॥१३८१॥
नदी मधुमती यत्र तथान्या नृपनिर्मला ।
तत्रापि रामस्तान्‍ गत्वा पातयामास रोषत: ॥१३८२॥
नि:शेषान्‍ क्षत्रियान्‍ कृत्वा रुधिरक्रकरस्तथा ।
प्रतिष्ठामकरोत्‍ राजन्‍ केशवस्य महात्मन: ॥१३८३॥
राजवासमिति प्रोक्तं सर्वलोकेषु विश्रुतम्‍ ।
तद्‍दृष्टा शीघ्रमाप्रोति कार्यसिध्दिं नरोत्तम: ॥१३८४॥
रौद्रभावेन राजेण यदाचार्चा विनिर्मिता ।
रौद्रभावमथास्थाय तस्यां सन्निहितो हरि: ॥१३८५॥
अर्चयन्ति च रौद्रेण तां च भावेन मानवा: ।
रौद्रभावान्महीनाथ नित्यं पशुवधादिना ॥१३८६॥
इति राम: स धर्मात्मा पूर्व क्षत्रियशोणितै: ।
कृत्वा कुणडान्‍ जगामाथ कुरुक्षेत्रं महामति: ॥१३८७॥
पितृन्‍ स तेष्वथाभ्यर्च्य मुदं लेभे वरारिहा ।
तमूचु  पितार: प्रीता: राम राम महाभुज ॥१३८८॥
कर्मणोऽस्मान्निवतस्व तीर्थयात्रां तथा कुरु ।
पलायमानान्‍ भीतान्‍ च हतवान सि पुत्रक ॥१३८९॥
तेन पापेन ते पुत्र शरीरे कलुषं स्थितम्‍ ।
तस्माद्रूजस्व तीर्थानि पावनार्थमिहात्मन: ॥१३९०॥
भविष्यसि यथावत्वं शुध्ददेहश्च पुत्रक ।
न चापैति हि ते तावत्‍ कराभ्यां रुधिरं दृढम्‍ ॥१३९१॥
यदा करौ विरुधिरौ तव पुत्र भाविष्यत: ।
तदा त्वं निर्मली भूतस्तप: कुरु यथा  सुखम्‍ ॥१३९२॥
एवमुक्तस्तदा राम: पितृभि: पूजित स्तत: ।
चकार तीर्थयात्रां वै सर्वतीर्थेषु पार्थिव ॥१३९३॥
कृत्वा जगाम कश्मीरान्‍ तथैवासौ महीपति : ।
आप्लुत्य तीर्थेषु तदा गृध्रकूटमुपागमत्‍ ॥१३९४॥
शुध्दा सरस्वती चैव संयोगं यत्र गच्छत: ।
तत्र स्रातस्य रामस्य करौ शुध्दिमुपागतौ ॥१३९५॥
तस्य तीर्थस्य रमोऽपि वरं प्रादान्महायश: ।
अस्मिन्तीर्थे नर: स्रात्वा सर्व मुक्ष्यति किल्विषम्‍ ॥१३९६॥
शुध्ददेह स्तदा गन्ता भृगूणां समलोकताम्‍ ।
एवं स निर्मलीभूतो राम: परबलार्दन: ॥१३९७॥
पथीश्वर मथासाद्य तपस्तेपे सुदारुणम्‍ ।
नदीं सम्प्राप्य पुणयोदां तदा ब्रह्मसरोद्भवाम्‍ ॥१३९८॥
यदा तस्यां तु रामेण तपस्तप्तं महात्मना ।
तदा रामह्र्देत्येवं नदी सा भुवि विश्रुता ॥१३९९॥
तत्र संवत्सरं कृत्वा रामोऽपि परमं तप: ।
तपोऽर्थ गृध्रकूटस्य तदा मूलं जगाम स: ॥१४००॥
यत्रास्य चागतौ शुध्दिं करौ पूर्व महीपते ।
तस्माददूरे पुणयोदामनन्तस्य महात्मन: ॥१४०१॥
भुवनं नागराजस्य तपस्तेपे स तत्र हि ।
प्रतिष्ठानं तथा चक्रे देवदेवस्य शांर्गिण: ॥१४०२॥
तत्रासता तदा तस्य रामस्याकिष्ठ कर्मण: ।
आश्रमस्वामिनं द्रष्टुं प्रययौ ब्राह्मणॊत्तम: ॥१४०३॥
दातुं गां तस्य देवस्य तत्रादृष्टा च तं मुनिम्‍ ।
जगाम तां मृगयितुं तामादायतु सत्वर : ॥ १४०४॥
तत्रासावपथे प्राणान्‍ तस्मिन्‍ तत्याज पर्वते ।
त्यक्त्वा गां च महीपाल ब्राह्मणोऽपि निवर्तित: ॥१४०५॥
प्रायश्चित्तीयतां प्राप्य दुख:शोकसमन्वित: ।
स रामाश्रममागत्य वासिष्ठो धर्मनिश्चल: ॥१४०६॥
यथावृत्त मथाचख्यौ रामाय सुमहात्मने ।
तमुवाच ततो राम: पश्यन्‍ दिव्येन चक्षुपा ॥१४०७॥
दिव्युत्पन्न व्दिजश्रेष्ठ दिव्यनारी मनोरमा ।
देवर्षि वश्चयामास गोरुपेनाथ नारदम्‍ ॥१४०८॥
तेन विज्ञाय सा शप्त तव गोत्वमुपागता ।
तेनैव तस्य शापान्त: कृतो ब्राह्मणसत्तम ॥१४०९॥
गोस्वामिना नीयमाना गृध्रकूटे शिलोचये ।
तनुं त्यक्रत्वा ततो भूयो भविष्यसि वराप्सरा ॥१४१०॥
मोक्षिता सा त्वया शापात्‍ न ते‍ऽस्ति व्दिज पातकम्‍ ।
गोदानफलसंयुक्तो मत्प्रसादाद्भविष्यसि  ॥१४११॥
गच्छ पश्य स्वदेवेशं तथाश्रमनिवासिनम्‍ ।
त्वं दृष्टा सर्वपापेभ्यो विनिर्मुक्तो भविष्यसि ॥१४१२॥
अह हि देवप्रवरमाराध्य मधुसूदनम्‍ ।
इहानयिष्ये तामर्चा लोकस्य हितकाम्यया ॥१४१३॥
प्रायशो धेनुदानेन लोकोऽर्चयति तं हरिम्‍ ।
पर्वतारे हंण क्लेशो महान्‍  विप्र गवां तथा ॥१४१४॥
आनीतायामिहार्चायां व्दिजेन्द्र न भविष्यति ।
तस्मिन्नेव तत: स्थाने तपस्तेपे स भार्गव: ॥१४१५॥
तत: संवत्सरान्ते च ददर्श मधुसूदनम्‍ ।
दिव्येना चक्षुषा राजन्‍ प्रसन्नं पुरत: स्थितम्‍ ॥१४१६॥
तुपारचयसंकाशं श्वेताम्बरविराजितम्‍ ।
चतुर्मुखं चतुर्बाहुं चतुर्विधाश्रयान्वितम्‍ ॥१४१७॥
मुकुटेनार्कवर्णन कुण्डलैश्च विभूषितम्‍ ।
शरीरधारिभिश्चास्त्रैरुदीरितजयस्वनम्‍ ॥१४१८॥
तं दृष्टा प्रणतो राजन् तुष्टाव मधुसुदनम्‍ ।
राम उवाच ।
नमस्ते देवदेवेश प्रणतार्तिविनाशन ॥१४१९॥
चतुर्मूर्ते महामूर्ते चतुर्वेद महाभुज ।
गोविन्द पुणडरीकाक्ष वराहाय नमोस्तु ते ॥१४२०॥
दंष्ट्राग्रोद्‍धृतभूभाग संचूर्णितशिलोचय ।
त्वं सदैव वराहोऽसि येनेदं धार्यते‍ जगत्‍ ॥१४२१॥
करजाग्रविनिर्भिन्नहिरणयकशिपुरसि ।
नमस्तुभ्यं नृसिंहाय ज्वालामालाकुलात्मने ॥१४२२॥
त्रिविक्रमाय देवाय नमस्ते विजिगीषव ।
सोमभूषितवक्त्राय नमोऽश्वशिरसे विभो ॥१४२३॥
त्वं देव: सर्वदेवानां दु:खितानां परा गति: ।
इन्द्रियाणीन्द्रियार्थाश्च महाभूतानि यानि च ॥१४२४॥
मनोवुध्दिस्तथैवात्मा व्यक्र यत्पुरुषोद्भवम्‍ ।
सत्वं रजस्तमश्चैव ब्रह्मविष्णुमहेश्वरा: ॥१४२५॥
त्वया सर्वमिदं व्याप्तं त्रैलोक्यं सचराचरम्‍ ।
त्वया विना न पश्यामि किश्चिदेव जगत्तये ॥१४२६॥
त्वत्तेजसा यदा देव निहतो क्षत्रिया भुवि ।
कोटिसंख्याश्च निहता सिंहिकेषा महाबला: ॥१४२७॥
सूक्ष्मातिसूक्ष्मदेवेश महात्भ्योऽसि महत्तम: ।
क्षीरोदकन्यादयित कामरुप नमोऽस्तुते ॥१४२८॥
कामकामद कामारिपूजिताघविनाशन ।
चतुर्भि: सततं वक्त्रै: पद्मजन्माभिसंस्तुत: ॥१४२९॥
कां स्तुति ते करिष्यामि जगत्कारणकारण ।
स्तुतस्तैलोकक्यनाथेश सर्वथैव नमोऽस्तुते ॥१४३०॥
नम: पार्श्वेषु ते देव नमस्ते सर्वत: प्रभो ।
पर्वतेषु समुद्रेषु लोकेषु गगेन तथा ॥१४३१॥
नमस्तेऽस्तु नमस्तेऽस्तु सर्वत्रैव नमोऽस्तुते ।
एवं स्तुत: स रामेण राममाह जनार्दन ॥१४३२॥
राम राम महाबाहो वरं वरय सुव्रत ।
वीर्येण तपसा देव स्तेत्रेणाऽतेन सुव्रत ॥१४३३॥
परितुष्टोऽस्मि ते वत्स यथा नान्यस्य कस्यचित्‍ ।
श्रीराम उवाच ।
भृगुणा निर्मिता मर्चा गृध्रकूटाग्रत: प्रभो ॥१४३४॥
इहानयितुमिच्छामि तन्मेऽनुज्ञातुमर्हसि ।
श्रीभगवान्‍ उवाच ।
एवं कुरु यथेष्टं ते जनो मुच्यते किल्विषात्‍ ॥१४३५॥
केशं विना भृगुश्रेष्ठ कृतस्तेऽनुग्रहो मया ।
बृहदश्व उवाच ।
एवमुक्त्वा ययौ विष्णुस्तदान्तर्धानमीश्वर: ॥१४३६॥
रामोऽपि गृध्रकूटात्तां तदार्चामव वारयत्‍ ।
मध्ये चकार तां भक्त्या स्वार्चामनन्तकूटयो: ॥१४३७॥
तां दृष्टा फलमाप्रोति पुण्डरीकस्य मानव : ।
रामोऽपि तपसा दीप्तो वाजिमेधे महाक्रतौ ॥१४३८॥
दत्वा महीं कश्यपाय महेन्द्रं गिरिमाययौ ।
एवं रामेण धर्मज्ञ गृध्रकूटान्नगोत्तमात्‍ ॥१४३९॥
स्वाश्रमस्य समीपे तु सानीता प्रतिमाअ शुभा ।
इति श्री नीलमते आश्रमस्वामिमाहात्म्यवर्णनम्‍ ॥

Translation - भाषांतर
N/A

References : N/A
Last Updated : 2018-01-09T18:45:04.4630000

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.

orthogonal regression

  • लंब समाश्रयण 
RANDOM WORD

Did you know?

चांदणी चोळी म्हणजे काय
Category : Hindu - Traditions
RANDOM QUESTION
Don't follow traditions blindly or ignore them. Don't assume a superstition either. Don't be intentionally ignorant. Ask us!!
Hindu customs are all about Symbolism. Let us tell you the thought behind those traditions.
Make Informed Religious decisions.

Featured site

Status

  • Meanings in Dictionary: 644,289
  • Dictionaries: 44
  • Hindi Pages: 4,328
  • Total Pages: 38,982
  • Words in Dictionary: 302,181
  • Tags: 2,508
  • English Pages: 234
  • Marathi Pages: 22,630
  • Sanskrit Pages: 11,789
  • Other Pages: 1

Suggest a word!

Suggest new words or meaning to our dictionary!!

Our Mobile Site

Try our new mobile site!! Perfect for your on the go needs.