संस्कृत सूची|संस्कृत साहित्य|पुराण|मल्लपुराणम् ।|नीलमतपुराणम् ।|
महापद्मकृतविष्वगश्वछलनावर्णनम्

महापद्मकृतविष्वगश्वछलनावर्णनम्

नीलमत पुराण अंदाजे सहाव्या ते आठव्या शतकातील ग्रंथ आहे, यात कश्मीरमधील इतिहास, भूगोल, धर्म आणि लोकगाथांबद्दल विपुल माहीती आहे.


बृहदश्च उवाच ।
एव मुक्तो तु नीलेन महापदूमो भुजंगम: ।
भूत्वा तु ब्राह्मणो वृध्दो ययौ चन्द्रपुरं  पुरम्‍ ॥११४५॥
स ददश महीपालं विष्वगश्वं दयापरम्‍ ।
विलोक्यायाचत तदा यथा विष्णुर्बलिं तथा ॥११४६॥
ब्राह्मण उवाच ।
राजन् चन्द्रपुरे श्वभ्रे दीयतां मे प्रतिश्रय: ।
पर्य्याप्तं यत‍ कुटुम्बस्य महतो मे दयापर ॥११४७॥
विष्वगश्व उवाच ।
ददानि तेऽहं विप्रेन्द्र स्थानं चन्द्रपुरे शुभे ।
गृहाण यावत्‍ पर्याप्तं सकुटुम्बस्य हं व्दिज॥११४८॥
बृहदश्व उवाच ।
स्वस्तिवाचं विधायाथ गृहीत्वा निर्मलं जलम्‍ ।
प्रतिग्रहस्य राजेन्द्र महापद्‍मो भुजंगम: ॥११४९॥
उवाच मन्त्रिणां मध्ये नागरुपी नराधिपम्‍ ।
हस्त्यश्वरथसंयुक्त: स्वजनै: परिवारित:॥११५०॥
निर्याहि नगरादस्यात्सधनद्रव्यसंचय: ।
सकुटुम्बस्य पर्याप्तं नगरं ते नराधिप ॥११५१॥
पीडया तु न वत्स्यामि त्वया दत्ते पुरोत्तमे ।
दुर्वाससा पुरा शप्तं नगरं ते नराधिप ॥११५२॥
इति श्री नीलमते महापद्मकृतविष्वगश्वछलनावर्णनम्‍ ।

N/A

References : N/A
Last Updated : January 09, 2018

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP