संस्कृत सूची|संस्कृत साहित्य|पुराण|मल्लपुराणम् ।|नीलमतपुराणम् ।|
चन्द्रदेवब्राह्मणनीलसमागमवर्णनम्

चन्द्रदेवब्राह्मणनीलसमागमवर्णनम्

नीलमत पुराण अंदाजे सहाव्या ते आठव्या शतकातील ग्रंथ आहे, यात कश्मीरमधील इतिहास, भूगोल, धर्म आणि लोकगाथांबद्दल विपुल माहीती आहे.


नील उवाच ।
स्वागतं ते व्दिजश्रेष्ठ दिष्टया प्राप्तोऽसि मेऽन्तिकम्‍ ।
अर्च वीयोऽसि विप्रेन्द्र अतिथिस्त्वमतो मम ॥४६१॥
वरं वरय भद्रं ते यथेष्टं मनसि प्रियम्‍ ।
गृहं च मे तथा पश्य तत्रास्व च यथासुखम्‍ ॥४६२॥
चन्द्रदेव उवाच ।
अवश्यं मे वरो देयस्त्वया नागेन्द्रसत्तम ।
वरयामि वरं देव तन्मे त्वं दातुमर्हसि ॥४६३॥
कश्मीरेषु जनो नित्यं वसतां भीमविक्रम ।
किश्येत हि सदा लोक: निष्कामन्‍ प्रविशन्‍ पुन: ॥४६४॥
गृहानिह नरास्त्यक्त्वा पुराणि विविधानि च ।
गच्छन्ति हिमभीता ये ते वसन्त्विह नागराट्‍ ॥४६५॥
सदैव सुखिनो नित्यं पुत्रपौषसुखान्विता: ।
वसन्तु त्वत्प्रसादेन वर एषो वृतो मया ॥४६६॥
एवमस्तु व्दिजश्रेष्ठ वसन्विह नरा: सदा ।
पालयन्तस्तु मव्दाक्यं केशवाद्यन्मया श्रुतम्‍ ॥४६७॥
इति नीलमते ब्राह्मन वरलाभवर्णनम्‍ ।
बृहदश्व उवाच ।
एवमुक्त्वा तदा नीलो ब्राह्मणं स्वं निवेशनम्‍ ।
नीत्वा संभोज्य संपूज्य ब्राह्मणं तं यथाविधि ॥४६८॥
कश्मीरायां वसत्यर्थ सदाचारान्‍ जगाद वै ।
व्दिजश्चोवास षएमासान्‍ सुखं नीलनिवेशने ॥४६९॥
चैत्र्यां ततो व्यतीतायां प्राविशन्‍ सर्वतो  जना: ।
राजा वीर्योदयाख्यश्च हस्त्यश्वैर्बहुभिर्वृत: ॥४७०॥
प्रविष्टेषु जनौघेषु व्दिजो नीलेन योजित: ।
युवा धनौघसहितो दृष्टचेता: महोज्ज्वल: ॥४७१॥
आरुढो नाग भुवनादागत: ख्यातिमन्तत: ।
राज्ञा (सं) मृग्यमानोऽसौ ययौ वीर्योदयं नृपम्‍ ॥४७२॥
तस्य सर्व यथावृत्तं कथयामास स व्दिज: ।
प्रसादं नागराजस्य नीलस्य सुमहात्मन: ॥४७३॥
निशन्यासौ महीपाल: महं कृत्वा शुभोदयम्‍ ।
समुचित्य च पौरांश्च विप्रोक्तं सन्येवदयत्‍ ॥४७४॥
इत्यं स सर्वलोकेषु कथयित्वा स पर्थिव : ।
विदध्व मिति प्रीत्या तान्‍ कारयामास तन्मतम्‍ ॥४७५॥
इति श्री नीलमते चन्द्रदेवब्राह्मणनीलसमागमवर्णनम्‍  ॥

N/A

References : N/A
Last Updated : January 08, 2018

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP