संस्कृत सूची|संस्कृत साहित्य|पुराण|मल्लपुराणम् ।|नीलमतपुराणम् ।|
कश्मीराख्याराज्ञीस्नपनम्

कश्मीराख्याराज्ञीस्नपनम्

नीलमत पुराण अंदाजे सहाव्या ते आठव्या शतकातील ग्रंथ आहे, यात कश्मीरमधील इतिहास, भूगोल, धर्म आणि लोकगाथांबद्दल विपुल माहीती आहे.


नील उवाच ।
तस्यामेव तु पश्चम्यां कश्मीरा तु राजस्वला ॥६५१॥
यस्माद्भवति कर्तव्या तस्य पूजा ततो व्दिज ।
रम्या शिलामयी कार्या कश्मीरा तं च पूजयेत्‍ ॥६५२॥
अभ्यंगवस्त्रदानेन नैवेद्यं च निवेदयेत्‍ ।
पुष्पधूपाद्यलंकारं न दातव्यं दिनत्रयम्‍ ॥६५३॥
नैवेद्यं गोरसं सर्व वर्जनीयं व्दिजोत्तम ।
स्त्रीभिश्च पूजा कर्तव्या न नरैस्तु कदाचन ॥६५४॥
स्राप्या स्त्रीभिर्भवेहेवी कृष्णपक्षाष्टमीं तु ताम्‍ ।
अनन्तरं व्दिजै: स्राप्या सर्वोषधियुतैर्घटै: ॥६५५॥
ततो गन्धैस्ततो बीजैत्ततो त्नैस्तत:  फलै: ।
वस्त्राल्म्करणैश्चान्यै: विशेषैर्घोरसोद्भवै: ॥६५६॥
मुद्रै: पैष्टयै स्त्रिकोणैश्च तथा तण्डुलशालिभि: ।
कर्तव्यं देवयजनं बन्धूनां चैव दापयेत्‍ ॥६५७॥
वहिपूजा च कर्तव्या कर्तव्यं व्दिजपूजनम्‍ ।
सुस्राताभि प्रह्रुष्टाभि स्वशिताभिर्व्दिजोत्तम ॥६५८॥
स्त्रीमिर्भाव्यं सुगन्धाभि: सुवस्त्राभिश्च तद्दिनम्‍ ।
भोजनं प्रेषणायं च तथा मित्रगृहे व्दिज ॥६५९॥
तन्वीवाद्यं सुमधुरं श्रोतव्यं स्वशितै: सुखम्‍ ।
इति श्री नीलमते कश्मीराख्याराज्ञीस्नपनम्‍ ॥

N/A

References : N/A
Last Updated : January 08, 2018

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP