संस्कृत सूची|संस्कृत साहित्य|पुराण|हरिवंशपुराणम्|हरिवंश पर्व| पञ्चपञ्चाशत्तमोऽध्याय हरिवंश पर्व प्रथमोऽध्यायः द्वितीयोऽध्यायः तृतीयोऽध्यायः चतुर्थोऽध्यायः पञ्चमोऽध्यायः षष्ठोऽध्यायः सप्तमोऽध्यायः अष्टमोऽध्यायः नवमोऽध्यायः दशमोऽध्यायः एकादशोऽध्यायः द्वादशोऽध्यायः त्रयोदशोऽध्यायः चतुर्दशोऽध्यायः पञ्चदशोऽध्यायः षोडशोऽध्यायः सप्तदशोऽध्यायः अष्टादशोऽध्यायः एकोनविंशोऽध्यायः विंशोऽध्यायः एकविंशोऽध्यायः त्रयोविंशतितमोऽध्यायः चतुर्विशतितमोऽध्यायः पञ्चविंशतितमोऽध्यायः षडविंशोऽध्यायः सप्तविंशोऽध्यायः अष्टाविंशोऽध्यायः एकोनत्रिंशोऽध्यायः त्रिंशोऽध्यायः एकत्रिंशोऽध्यायः द्वात्रिंशोऽध्यायः त्रयस्त्रिंशोऽध्यायः चतुस्त्रिंशोऽध्यायः पञ्चत्रिंशोऽध्यायः षट्त्रिंशोऽध्यायः सप्तत्रिंशोऽध्यायः अष्टत्रिंशोऽध्यायः एकोनचत्वारिंशोऽध्यायः चत्वारिंशोऽध्यायः एकचत्वारिंशोऽध्यायः द्विचत्वारिंशोऽध्यायः त्रिचत्वारिंशोऽध्यायः चतुश्चत्वारिंशोऽध्यायः पञ्चचत्वारिंशोऽध्यायः षट्चत्वारिंशोऽध्यायः सप्तचत्वारिंशोऽध्यायः अष्टचत्वारिंशोऽध्यायः एकोनपञ्चाशत्तमोऽध्यायः पञ्चाशत्तमोऽध्यायः एकपञ्चाशत्तमोऽध्यायः द्विपञ्चाशत्तमोऽध्यायः त्रिपञ्चाशत्तमोऽध्यायः चतुष्पञ्चाशत्तमोऽध्यायः पञ्चपञ्चाशत्तमोऽध्याय हरिवंश पर्व - पञ्चपञ्चाशत्तमोऽध्याय महर्षी व्यासांनी रचलेला हा महाभारताचा पुरवणी ग्रंथ आहे. Tags : harivansha puranpuransanskritपुराणसंस्कृतहरिवंश पुराण पञ्चपञ्चाशत्तमोऽध्याय Translation - भाषांतर भगवतः विष्णुना नारदस्य कथनस्योत्तरं, ब्रह्मणा भगवन्तं तस्य अवतारतारयोग्यस्थानस्य एवं पितामातादीनां परिचयम्वैशम्पायन उवाचनारदस्य वचः श्रुत्वा सस्मितं मधुसूदनः ।प्रत्युवाच शुभं वाक्यं वरेण्यः प्रभुरीश्वरः ॥१॥त्रैलोक्यस्य हितार्थाय यन्मां वदसि नारद ।तस्य सम्यक्प्रवृत्तस्य श्रूयतामुत्तरं वचः ॥२॥विदिता देहिनो जाता मयैते भुवि दानवाः ।यां च यस्तनुमादाय दैत्यः पुष्यति विग्रहम् ॥३॥जानामि कंसं सम्भूतमुग्रसेनसुतं भुवि ।केशिनं चापि जानामि दैत्यं तुरगविग्रहम् ॥४॥नागं कुवलयापीडं मल्लौ चाणूरमुष्टिकौ ।अरिष्टं चापि जानामि दैत्यं वृषभरूपिणम् ॥५॥विदितो मे खरश्चैव प्रलम्बश्च महासुरः ।सा च मे विदिता विप्र पूतना दुहिता बलेः ॥६॥कालियं चापि जानामि यमुनाह्रदगोचरम् ।वैनतेयभयाद् यस्तु यमुनाह्रदमाविशत् ॥७॥विदितो मे जरासंधः स्थितो मूर्ध्नि महीक्षिताम् ।प्राग्ज्योतिषपुरे वापि नरकं साधु तर्कये ॥८॥मानुषे पार्थिवे लोके मानुषत्वमुपागतम् ।बाणं च शोणितपुरे गुहप्रतिमतेजसम् ॥९॥दृप्तं बाहुसहस्रेण देवैरपि सुदुर्जयम ।मय्यासक्तां च जानामि भारतीं महतीं धुरम् ॥१०॥सर्वं तच्च विजानामि यथा योत्स्यन्ति ते नृपाः ।क्षयो भुवि मया दृष्टः शक्रलोके च सत्क्रिया ।एषां पुरुषदेहानामपरावृत्तदेहिनाम् गं ॥११॥सम्प्रवेक्ष्याम्यहं योगमात्मनश्च परस्य च ।सम्प्राप्य पार्थिवं लोकं मानुषत्वमुपागतः ॥१२॥कंसादींश्चापि तान्सर्वान् वधिष्यामि महासुरान् ।तेन तेन विधानेन येन यः शान्तिमेष्यति ॥१३॥अनुप्रविश्य योगेन तास्ता हि गतयो मया ।अमीषां हि सुरेन्द्राणां हन्तव्या रिपवो युधि ॥१४॥जगत्यर्थे कृतो योऽयमंशोत्सर्गो दिवौकसैः ।सुरदेवर्षिगन्धर्वैरितश्चानुमते मम ॥१५॥विनिश्चयो प्रागेव नारदायं कृतो मया ।निवासं ननु मे ब्रह्मन् विदधातु पितामहः ॥१६॥यत्र देशे यथा जातो येन वेषेण वा वसन् ।तानहं समरे हन्यां तन्मे ब्रूहि पितामह ॥१७॥ब्रह्मोवाचनारायणेमं सिद्धार्थमुपायं शृणु मे विभो ।भुवि यस्ते जनयिता जननी च भविष्यति ॥१८॥यत्र त्वं च महाबाहो जातः कुलकरो भुवि ।यादवानां महद् वंशमखिलं धारयिष्यसि ॥१९॥तांश्चासुरान्समुत्पाट्य वंशं कृत्वाऽऽत्मनो महत् ।स्थापयिष्यसि मर्यादां नृणां तन्मे निशामय ॥२०॥पुरा हि कश्यपो विष्णो वरुणस्य महात्मनः ।जहार यज्ञिया गा वै पयोदास्तु महामखे ॥२१॥अदितिः सुरभिश्चैते द्वे भार्ये कश्यपस्य तु ।प्रदीयमाना गास्तास्तु नैच्छतां वरुणस्य वै ॥२२॥ततो मां वरुणोऽभ्येत्य प्रणम्य शिरसा ततः ।उवाच भगवन् गावो गुरुणा मे हृता इति ॥२३॥कृतकार्यो हि गास्तास्तु नानुजानाति मे गुरुः ।अन्ववर्तत भार्ये द्वे अदितिं सुरभिं तथा ॥२४॥ मम ता ह्यक्षया गावो दिव्याः कामदुहः प्रभो ।चरन्ति सागरान् सर्वान्रक्षिताः स्वेन तेजसा ॥२५॥कस्ता धर्षयितुं शक्तो मम गाः कश्यपादृते ।अक्षयं वा क्षरन्त्यग्र्यं पयो देवामृतोपमम् ॥२६॥प्रभुर्वा व्युत्थितो ब्रह्मन् गुरुर्वा यदि वेतरः ।त्वया नियम्याः सर्वे वै त्वं हि नः परमा गतिः ॥२७॥यदि प्रभवतां दण्डो लोके कार्यमजानताम् ।न विद्यते लोकगुरो न स्युर्वै लोकसेतवः ॥२८॥यथा वास्तु तथा वास्तु कर्तव्ये भगवान् प्रभुः ।मम गावः प्रदीयन्तां ततो गन्तास्मि सागरम् ॥२९॥या आत्मदेवता गावो या गावः सत्त्वमव्ययम् ।लोकानां त्वत्प्रवृत्तानामेकं गोब्राह्मणं स्मृतम् ॥३०॥त्रातव्याः प्रथमं गावस्त्रातास्त्रायन्ति ता द्विजान् ।गोब्राह्मणपरित्राणे परित्रातं जगद् भवेत् ॥३१॥इत्यम्बुपतिना प्रोक्तो वरुणेनाहमच्युत ।गवां कारणतत्त्वज्ञः कश्यपे शापमुत्सृजम् ॥३२॥येनांशेन हृता गावः कश्यपेन महर्षिणा ।स तेनांशेन जगतीं गत्वा गोपत्वमेष्यति ॥३३॥या च सा सुरभिर्नाम अदितिश्च सुरारणिः ।तेऽप्युभे तस्य भार्ये वै तेनैव सह यास्यतः ॥३४॥ताभ्यां च सह गोपत्वे कश्यपो भुवि रंस्यते ।स तस्य कश्यपस्यांशस्तेजसा कश्यपोपमः ॥३५॥वसुदेव इति ख्यातो गोषु तिष्ठति भूतले ।गिरिर्गोवर्धनो नाम मथुरायास्त्वदूरतः ॥३६॥तत्रासौ गोषु निरतः कंसस्य करदायकः ।तस्य भार्याद्वयं जातमदितिः सुरभिश्च ते ॥३७॥देवकी रोहिणी चेमे वसुदेवस्य धीमतः ।सुरभी रोहिणी देवी चादितिर्देवकी त्वभूत् ॥३८॥तत्र त्वं शिशुरेवाङ्कौ गोपालकृतलक्षणः ।वर्धयस्व मूहाबाहो पुरा त्रैविक्रमे यथा ॥३९॥छादयित्वाऽऽत्मनाऽऽत्मानं मायया योगरूपया ।तत्रावतर लोकानां भवाय मधुसूदन ॥४०॥जयाशीर्वचनैस्त्वेते वर्धयन्ति दिवौकसः ।आत्मानमात्मना हि त्वमवतार्य महीतले ॥४१॥देवकीं रोहिणीं चैव गर्भाभ्यां परितोषय ।गोपकन्यासहस्राणि रमयंश्चर मेदिनीम् ॥४२॥गाश्च ते रक्षतो विष्णो वनानि परिधावतः ।वनमालापरिक्षिप्तं धन्या द्रक्ष्यन्ति ते वपुः ॥४३॥विष्णौ पद्मपलाशाक्षे गोपालवसतिं गते ।बाले त्वयि महाबाहो लोको बालत्वमेष्यति ॥४४॥त्वद्भक्ताः पुण्डरीकाक्ष तव चित्तवशानुगाः ।गोषु गोपा भविष्यन्ति सहायाः सततं तव ॥४५॥वने चारयतो गाश्च गोष्ठेषु परिधावतः ।मज्जतो यमुनायां च रतिं प्राप्स्यन्ति ते त्वयि ॥४६॥जीवितं वसुदेवस्य भविष्यति सुजीवितम् ।यस्त्वया तात इत्युक्तः स पुत्र इति वक्ष्यति ॥४७॥अथवा कस्य पुत्रत्वं गच्छेथाः कश्यपादृते ।का च धारयितुं शक्ता त्वां विष्णो अदितिं विना ॥४८॥योगेनात्मसमुत्थेन गच्छ त्वं विजयाय वै ।वयमप्यालयान्स्वान्स्वान्गच्छामो मधुसूदन ॥४९॥वैशम्पायन उवाचस देवानभ्यनुज्ञाय विविक्ते त्रिदिवालये ।जगाम विष्णुः स्वं देशं क्षीरोदस्योत्तरां दिशम् ॥५०॥तत्र वै पार्वती नाम गुहा मेरोः सुदुर्गमा ।त्रिभिस्तस्यैव विक्रान्तैर्नित्यं पर्वसु पूजिता ॥५१॥पुराणं तत्र विन्यस्य देहं हरिरुदारधीः ।आत्मानं योजयामास वसुदेवगृहे प्रभुः ॥५२॥ इति श्रीमहाभारते खिलभागे हरिवंशे हरिवंशपर्वणि पितामहवाक्ये पञ्चपञ्चाशत्तमोऽध्यायः॥५५॥ हरिवंशपर्व सम्पूर्ण । N/A References : N/A Last Updated : July 12, 2018 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP