संस्कृत सूची|संस्कृत साहित्य|पुराण|हरिवंशपुराणम्|हरिवंश पर्व| त्रयोविंशतितमोऽध्यायः हरिवंश पर्व प्रथमोऽध्यायः द्वितीयोऽध्यायः तृतीयोऽध्यायः चतुर्थोऽध्यायः पञ्चमोऽध्यायः षष्ठोऽध्यायः सप्तमोऽध्यायः अष्टमोऽध्यायः नवमोऽध्यायः दशमोऽध्यायः एकादशोऽध्यायः द्वादशोऽध्यायः त्रयोदशोऽध्यायः चतुर्दशोऽध्यायः पञ्चदशोऽध्यायः षोडशोऽध्यायः सप्तदशोऽध्यायः अष्टादशोऽध्यायः एकोनविंशोऽध्यायः विंशोऽध्यायः एकविंशोऽध्यायः त्रयोविंशतितमोऽध्यायः चतुर्विशतितमोऽध्यायः पञ्चविंशतितमोऽध्यायः षडविंशोऽध्यायः सप्तविंशोऽध्यायः अष्टाविंशोऽध्यायः एकोनत्रिंशोऽध्यायः त्रिंशोऽध्यायः एकत्रिंशोऽध्यायः द्वात्रिंशोऽध्यायः त्रयस्त्रिंशोऽध्यायः चतुस्त्रिंशोऽध्यायः पञ्चत्रिंशोऽध्यायः षट्त्रिंशोऽध्यायः सप्तत्रिंशोऽध्यायः अष्टत्रिंशोऽध्यायः एकोनचत्वारिंशोऽध्यायः चत्वारिंशोऽध्यायः एकचत्वारिंशोऽध्यायः द्विचत्वारिंशोऽध्यायः त्रिचत्वारिंशोऽध्यायः चतुश्चत्वारिंशोऽध्यायः पञ्चचत्वारिंशोऽध्यायः षट्चत्वारिंशोऽध्यायः सप्तचत्वारिंशोऽध्यायः अष्टचत्वारिंशोऽध्यायः एकोनपञ्चाशत्तमोऽध्यायः पञ्चाशत्तमोऽध्यायः एकपञ्चाशत्तमोऽध्यायः द्विपञ्चाशत्तमोऽध्यायः त्रिपञ्चाशत्तमोऽध्यायः चतुष्पञ्चाशत्तमोऽध्यायः पञ्चपञ्चाशत्तमोऽध्याय हरिवंश पर्व - त्रयोविंशतितमोऽध्यायः महर्षी व्यासांनी रचलेला हा महाभारताचा पुरवणी ग्रंथ आहे. Tags : harivansha puranpuransanskritपुराणसंस्कृतहरिवंश पुराण त्रयोविंशतितमोऽध्यायः Translation - भाषांतर हंसानां काम्पिल्यनगरे ब्रह्मदत्तादिरूपेषु उत्पत्तिः, चतुर्णां हंसानां स्वपितृतः अनुज्ञां प्राप्त्वा मोक्षप्रापणम्मार्कण्डेय उवाचते योगधर्मनिरताः सप्त मानसचारिणः ।पद्मगर्भोऽरविन्दाक्षः क्षीरगर्भः सुलोचनः ॥१॥उरुबिन्दुः सुबिन्दुश्च हैमगर्भस्तु सप्तमः ।वाय्वम्बुभक्षाः सततं शरीराण्युपशोषयन् ॥२॥राजा विभ्राजमानस्तु वपुषा तद् वनं तदा ।चचारान्तःपुरवृतो नन्दनं मघवानिव ॥३॥स तानपश्यत्खचरान् योगधर्मात्मकान् नृप ।निर्वेदाच्च तमेवार्थमनुध्यायन् पुरं ययौ ॥४॥अणुहो नाम तस्याऽऽसीत्पुत्रः परमधार्मिकः ।अणुधर्मरतिर्नित्यमणुं सोऽभ्यगमत्पदम् ॥५॥प्रादात्कन्यां शुकस्तस्मै कृत्वीं पूजिललक्षणाम्॥सत्यशीलगुणोपेतां योगधर्मरतां सदा ॥६॥सा ह्युद्दिष्टा पुरा भीष्म पितृकन्या मनीषिणी ।सनत्कुमारेण तदा संनिधौ मम शोभना ॥७॥सत्यधर्मभृतां श्रेष्ठा दुर्विज्ञेया कृतात्मभिः ।योगा च योगपत्नी च योगमाता तथैव च ॥८॥यथा ते कथितं पूर्वं पितृकल्पेषु वै मया ।विभ्राजस्त्वणुहं राज्ये स्थापयित्वा नरेश्वरः ॥९॥आमन्त्र्य पौरान्प्रीतात्मा ब्राह्मणान् स्वस्ति वाच्य च ।प्रायात् सरस्तपश्चर्तुं यत्र ते सहचारिणः ॥१०॥स वै तत्र निराहारो वायुभक्षो महातपाः ।त्यक्त्वा कामांस्तपस्तेपे सरसस्तस्य पार्श्वतः ॥११॥तस्य संकल्प आसीच्च तेषामेकतरस्य वै ।पुत्रत्वं प्राप्य योगेन युज्येयमिति भारत ॥१२॥कृत्वाभिसन्धिं तपसा महता स समन्वितः ।महातपाः स विभ्राजो विरराजांशुमानिव ॥१३॥ततो विभ्राजितं तेन वैभ्राजं नाम तद्वनम् ।सरस्तच्च कुरुश्रेष्ठ वैभ्राजमिति संज्ञितम् ॥१४॥तत्र ते शकुना राजंश्चत्वारो योगधर्मिणः ।योगभ्रष्टास्त्रयश्चैव देहन्यासकृतोऽभवन् ॥१५॥काम्पिल्ये नगरे ते तु ब्रह्मदत्तपुरोगमाः ।जाताः सप्त महात्मानः सर्वे विगतकल्मषाः ॥१६॥ज्ञानध्यानतपःपूजावेदवेदाङ्गपारगाःस्मृतिमन्तोऽत्र चत्वारस्त्रयस्तु परिमोहिताः ॥१७॥स्वतन्त्रस्त्वणुहाज्जज्ञे ब्रह्मदत्तो महायशाः ।यथा ह्यासीत्पक्षिभावे संकल्पः पूर्वचिन्तितः ।ज्ञानध्यानतपःपूतो वेदवेदाङ्गपारगः ॥१८॥छिद्रदर्शी सुनेत्रश्च तथा बाभ्रव्यवत्सयोः ।जातौ श्रोत्रियदायादौ वेदवेदाङ्गपारगौ ॥१९॥सहायौ ब्रह्मदत्तस्य पूर्वजातिसहोषितौ ।पाञ्चालः पाञ्चिकश्चैव कण्डरीकस्तथापरः ॥२०॥पाञ्चालो बह्वृचस्त्वासीदाचार्यत्वं चकार ह ।द्विवेदः कण्डरीकस्तु छन्दोगोऽध्वर्युरेव च ॥२१॥सर्वसत्त्वरुतज्ञस्तु राजाऽऽसीदणुहात्मजः ।पाञ्चालकण्डरीकाभ्यां तस्य सख्यमभूत्तदा ॥२२॥ते ग्राम्यधर्माभिरताः कामस्य वशवर्तिनः ।पूर्वजातिकृतेनासन् धर्मकामार्थकोविदाः ॥२३॥अणुहस्तु नृपश्रेष्ठो ब्रह्मदत्तमकल्मषम् ।राज्येऽभिषिच्य योगात्मा परां गतिमवाप्तवान् ॥२४॥ब्रह्मदत्तस्य भार्या तु देवलस्यात्मजाभवत् ।असितस्य हि दुर्धर्षा संनतिर्नाम नामतः ॥२५॥तामेकभावसम्पन्नां लेभे कन्यामनुत्तमाम् ।संनतिं संनतिमतीं देवलाद् योगधर्मिणीम् ॥२६॥पञ्चमः पाञ्चिकस्तत्र सप्तजातिषु भारत ।षष्ठस्तु कण्डरीकोऽभूद् ब्रह्मदत्तश्च सप्तमः ॥२७॥शेषा विहङ्गमा ये वै काम्पिल्यं सहचारिणः ।ते जाताः श्रोत्रियकुले सुदरिद्रे सहोदराः ॥२८॥धृतिमान् सुमना विद्वांस्तत्त्वदर्शी च नामतः ।वेदाध्ययनसम्पन्नाश्चत्वारश्छिद्रदर्शिनः ॥२९॥तेषां संवित्तथोत्पन्ना पूर्वजातिकृता तदा ।ये योगनिरताः सिद्धाः प्रस्थिताः सर्व एव हि ॥३०॥आमन्त्र्य पितरं तात पिता तानब्रवीत् तदा ।अधर्मं एव युष्माकं यन्मां त्यक्त्वा गमिष्यथ ॥३१॥दारिद्रयमनपाकृत्य पुत्रार्थांश्चैव पुष्कलान् ।शुश्रूषामप्रयुज्यैव कथं वै गन्तुमर्हथ ॥३२॥ते तमूचुर्द्विजाः सर्वे पितरं पुनरेव च ।करिष्यामो विधानं ते येन त्वं वर्तयिष्यसि ॥३३॥इमं श्लोकं महार्थं त्वं राजानं सहमन्त्रिणम् ।श्रावयेथाः समागम्य ब्रह्मदत्तमकल्मषम् ॥३४॥प्रीतात्मा दास्यति स ते ग्रामान् भोगांश्च पुष्कलान् ।यथेप्सितांश्च सर्वार्थान् गच्छ तात यथेप्सितम् ॥३५॥एतावदुक्त्वा ते सर्वे पूजयित्वा च तं गुरुम् ।योगधर्ममनुप्राप्य परां निर्वृतिमाययुः ॥३६॥इति श्रीमहाभारते खिलेषु हरिवंशे हरिवंशपर्वणि पितृकल्पे त्रयोविंशोऽध्यायः ॥२३॥ N/A References : N/A Last Updated : July 12, 2018 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP