TransLiteral Foundation
संस्कृत सूची|संस्कृत साहित्य|पुराण|हरिवंशपुराणम्|हरिवंश पर्व|
सप्तमोऽध्यायः

हरिवंश पर्व - सप्तमोऽध्यायः

महर्षी व्यासांनी रचलेला हा महाभारताचा पुरवणी ग्रंथ आहे.


सप्तमोऽध्यायः
मन्वन्तर, मनु, देवता एवं ऋषीणां पृथक् पृथक् वर्णनम्

जनमेजय उवाच
मन्वन्तराणि सर्वाणि विस्तरेण तपोधन ।
तेषां सृष्टिं विसृष्टिं च वैशम्पायन कीर्तय ॥१॥
यावन्तो मनवश्चैव यावन्तं कालमेव च ।
मन्वन्तरं तथा ब्रह्मञ्छ्रोतुमिच्छमि तत्त्वतः ॥२॥
वैशम्पायन उवाच
न शक्यो विस्तरस्तात वक्तुं वर्षशतैरपि ।
मन्वन्तराणां कौरव्य संक्षेपं त्वेव मे शृणु ॥३॥
स्वायम्भुवो मनुस्तात मनुः स्वारोचिषस्तथा ।
उत्तमस्तामसश्चैव रैवतश्चाक्षुषस्तथा ॥४॥
वैवस्वतश्च कौरव्य साम्प्रतो मनुरुच्यते ।
सावर्णिश्च मनुस्तात भौत्यो रौच्यस्तथैव च ॥५॥
तथैव मेरुसावर्णाश्चत्वारो मनवः स्मृताः ।
अतीता वर्तमानाश्च तथैवानागताश्च ये ॥६॥
कीर्तिता मनवस्तात मयैते तु यथाश्रुतम् ।
ऋषींस्तेषां प्रवक्ष्यामि पुत्रान् देवगणांस्तथा ॥७॥
मरीचिरत्रिर्भगवानङ्गिराः पुलहः क्रतुः ।
पुलस्त्यश्च वसिष्ठश्च सप्तैते ब्रह्मणः सुताः ॥८॥
उत्तरस्यां दिशि तथा राजन् सप्तर्षयोऽपरे ।
देवाश्च शान्तरजसस्तथा प्रकृतयः परे ।
यामा नाम तथा देवा आसन्स्वायम्भुवेऽन्तरे ॥९॥
आग्नीध्रश्चाग्निबाहुश्च मेधा मेधातिथिर्वसुः ।
ज्योतिष्मान्द्युतिमान्हव्यः सवनः पुत्र एव च ॥१०॥
मनोः स्वायम्भुवस्यैते दश पुत्रा महौजसः ।
एतत् ते प्रथमं राजन् मन्वन्तरमुदाहृतम् ॥११॥
और्वो वसिष्ठपुत्रश्च स्तम्बः काश्यप एव च ।
प्राणा बृहस्पतिश्चैव दत्तो निश्च्यवनस्तथा ॥१२॥
एते महर्षयस्तात वायुप्रोक्ता महाव्रताः ।
देवाश्च तुषिता नाम स्मृताः स्वारोचिषेऽन्तरे ॥१३॥
हविर्ध्नः सुकृतिर्ज्योतिरापोमूर्तिरयस्मयः ।
प्रथितश्च नभस्यश्च नभ ऊर्जस्तथैव च ॥१४॥
स्वारोचिषस्य पुत्रास्ते मनोस्तात महात्मनः ।
कीर्तिताः पृथिवीपाल महावीर्यपराक्रमाः ॥१५॥
द्वितीयमेतत् कथितं तव मन्वन्तरं मया ।
इदं तृतीयं वक्ष्यामि तन्निबोध नराधिप ॥१६॥
वसिष्ठपुत्राः सप्तासन् वासिष्ठा इति विश्रुताः ।
हिरण्यगर्भस्य सुता ऊर्ज्जा नाम सुतेजसः ॥१७॥
ऋषयोऽत्र मया प्रोक्ताः कीर्त्यमानान्निबोध मे ।
औत्तमेयान् महाराज दश पुत्रान् मनोरमान् ॥१८॥
इष ऊर्जस्तनूजश्च मधुर्माधव एव च ।
शुचिः शुक्रः सहश्चैव नभस्यो नभ एव च ॥१९॥
भानवस्तत्र देवाश्च मन्वन्तरमुदाहृतम् ।
मन्वन्तरं चतुर्थं ते कथयिष्यामि तच्छृणु ॥२०॥
काव्यः पृथुस्तथैवाग्निर्जन्युर्धाता च भारत ।
कपीवानकपीवांश्च तत्र सप्तर्षयोऽपरे ॥२१॥
पुराणे कथितास्तात पुत्राः पौत्राश्च भारत ।
सत्या देवगणाश्चैव तामसस्यान्तरे मनोः ॥२२॥
पुत्रांश्चैव प्रवक्ष्यामि तामसस्य मनोर्नृप ।
द्युतिस्तपस्यः सुतपास्तपोमूलस्तपोधनः ॥२३॥
तपोरतिरकल्माषस्तन्वी धन्वी परंतपः ।
तामसस्य मनोरेते दश पुत्रा महाबलाः ॥२४॥
वायुप्रोक्ता महाराज पञ्चमं तदनन्तरम् ।
वेदबाहुर्यदुध्रश्च मुनिर्वेदशिरास्तथा ॥२५॥
हिरण्यरोमा पर्जन्य ऊर्ध्वबाहुश्च सोमजः ।
सत्यनेत्रस्तथाऽऽत्रेय एते सप्तर्षयोऽपरे ॥२६॥
देवाश्चाभूतरजसस्तथा प्रकृतयोऽपरे ।
पारिप्लवश्च रैभ्यश्च मनोरन्तरमुच्यते ॥२७॥
अथ पुत्रानिमांस्तस्य निबोध गदतो मम ।
धृतिमानव्ययो युक्तस्तत्त्वदर्शी निरुत्सुकः ॥२८॥
अरण्यश्च प्रकाशश्च निर्मोहः सत्यवाक्कविः ।
रैवतस्य मनोः पुत्राः पञ्चमं चैतदन्तरम् ॥२९॥
षष्ठं ते सम्प्रवक्ष्यामि तन्निबोध नराधिप ।
भृगुर्नभो विवस्वांश्च सुधामा विरजास्तथा ॥३०॥
अतिनामा सहिष्णुश्च सप्तैते वै महर्षयः ।
चाक्षुषस्यान्तरे तात मनोर्देवानिमाञ्छृणु ॥३१॥
आद्याः प्रभूता ऋभवः पृथग्भावा दिवौकसः ।
लेखाश्च नाम राजेन्द्र पञ्च देवगणाः स्मृताः ।
ऋचेरङ्गिरसः पुत्रा महात्मानो महौजसः ॥३२॥
नाडवलेया महाराज दश पुत्राश्च विश्रुताः ।
ऊरुप्रेभृतयो राजन् षण्डं मन्वन्तरं स्मृतम् ॥३३॥
अत्रिर्वसिष्ठो भगवान् कश्यपश्च महानृषिः ।
गौतमोऽथ भरद्वाजो विश्वामित्रस्तथैव च ॥३४॥
तथैव पुत्रो भगवानृचीकस्य महात्मनः ।
सप्तमो जमदग्निश्च ऋषयः साम्प्रतं दिवि ॥३५॥
साध्या रुद्राश्च विश्वे च मरुतो वसवस्तथा ।
आदित्याश्चाश्विनौ चैव देवौ वैवस्वतौ स्मृतौ ॥३६॥
मनोर्वैवस्वतस्यैते वर्तन्ते साम्प्रतेऽन्तरे ।
इक्ष्वाकुप्रमुखाश्चैव दश पुत्रा महात्मनः ॥३७॥
एतेषां कीर्तितानां तु महर्षीणां महौजसाम् ।
राजन् पुत्राश्च पौत्राश्च दिक्षु सर्वासु भारत ॥३८॥
मन्वन्तरेषु सर्वेषु प्राग्दिशः सप्तसप्तकाः ।
स्थिता लोकव्यवस्थार्थं लोकसंरक्षणाय च ॥३९॥
मन्वन्तरे व्यतिक्रान्ते चत्वारः सप्तका गणाः ।
कृत्वा कर्म दिवं यान्ति ब्रह्मलोकमनामयम् ॥४०॥
ततोऽन्ये तपसा युक्ताः स्थानमापूरयन्त्युत ।
अतीता वर्तमानाश्च क्रमेणैतेन भारत ॥४१॥
एतान्युक्तानि कौरव्य सप्तातीतानि भारत ।
मन्वन्तराणि षट् चापि निबोधानागतानि मे ॥४२॥
सावर्णा मनवस्तात पञ्च तांश्च निबोध मे ।
एको वैवस्वतस्तेषां चत्वारस्तु प्रजापतेः ॥४३॥
परमेष्ठिसुतास्तात मेरुसावर्णतां गतः ।
दक्षस्यैते हि दौहित्राः प्रियायास्तनया नृप ।
महान्तस्तपसा युक्ता मेरुपृष्ठे महौजसः ॥४४॥
रुचेः प्रजापतेः पुत्रो रौच्यो नाम मनुः स्मृतः ।
भूत्यां चोत्पादितो देव्यां भौत्यो नाम रुचेः सुतः ॥४५॥
अनागताश्च सप्तैते स्मृता दिवि महर्षयः ।
मनोरन्तरमासाद्य सावर्णस्य ह ताञ्छृणु ॥४६॥
रामो व्यासस्तथाऽऽत्रेयो दीप्तिमानिति विश्रुतः ।
भारद्वाजस्तथा द्रौणिरश्वत्थामा महाद्युतिः ॥४७॥
गौतमस्यात्मजश्चैव शरद्वान् गौतमः कृपः ।
कौशिको गालवश्चैव रुरुः काश्यप एव च ॥४८॥
एते सप्त महात्मानो भविष्या मुनिसत्तमाः ।
ब्रह्मणः सदृशाश्चैते धन्याः सप्तर्षयः स्मृताः ॥४९॥
अभिजात्याथ तपसा मन्त्रव्याकरणैस्तथा ।
ब्रह्मलोकप्रतिष्ठास्तु स्मृताः सप्तर्षयोऽमलाः ॥५०॥
भूतभव्यभवज्ज्ञानं बुद्ध्वा चैव तु ये स्वयम् ।
तपसा वै प्रसिद्धा ये संगताः प्रविचिन्तकाः ॥५१॥
मन्त्रव्याकरणाद्यैश्च ऐश्वर्यात् सर्वशश्च ये ।
एतान् भार्यान् द्विजो ज्ञात्वा नैष्ठिकानि च नाम च ॥५२॥
सप्तैते सप्तभिश्चैव गुणैः सप्तर्षयः स्मृताः ।
दीर्घायुषो मन्त्रकृत ईश्वरा दीर्घचक्षुषः ॥५३॥
बुद्ध्या प्रत्यक्षधर्माणो गोत्रप्रावर्तकास्तथा ।
कृतादिषु युगाख्येषु सर्वेष्वेव पुनः पुनः ॥५४॥
प्रावर्तयन्ति ते वर्णानाश्रमांश्चैव सर्वशः ।
सप्तर्षयो महाभागा सत्यधर्मपरायणाः ॥५५॥
तेषां चैवान्वयोत्पन्ना जायन्तीह पुनः पुनः ।
मन्त्रब्राह्मणकर्तारो धर्मे प्रशिथिले तथा ॥५६॥
यस्माच्च वरदाः सप्त परेभ्य एव याचिताः ।
तस्मान्न कालो न वयः प्रमाणमृषिभावने ॥५७॥
एष सप्तर्षिकोद्देशो व्याख्यातस्ते मया नृप ।
सावर्णस्य मनोः पुत्रान् भविष्याञ्छृणु सत्तम ॥५८॥
वरीयांश्चावरीयांश्च सम्मतो धृतिमान् वसुः ।
चरिष्ण्व्यधृष्णुश्च वाजः सुमतिरेव च ।
सावर्णस्य मनोः पुत्रा भविष्या दश भारत ॥५९॥
प्रथमे मेरुसावर्णे प्रवक्ष्यामि मुनीञ्छृणु ।
मेधातिथिस्तु पौलस्त्यो वसुः काश्यप एव च ॥६०॥
ज्योतिष्मान् भार्गवश्चैव द्युतिमानङ्गिरास्तथा ।
सावनश्चैव वासिष्ठ आत्रेयो हव्यवाहनः ॥६१॥
पौलहः सप्त इत्येते मुनयो रोहितेऽन्तरे ।
देवातानां गणास्तत्र त्रय एव नराधिप ॥६२॥
दक्षपुत्रस्य पुत्रास्ते रोहितस्य प्रजापतेः ।
मनोः पुत्रो धृष्टकेतुः पञ्चहोत्रो निराकृतिः ॥६३॥
पृथुः श्रवा भूरिधामा ऋचीकोऽष्टहतो गयः ।
प्रथमस्य तु सावर्णेर्नव पुत्रा महौजसः ॥६४॥
दशमे त्वथ पर्याये द्वितीयस्यान्तरे मनोः ।
हविष्मान् पौलहश्चैव सुकृतिश्चैव भार्गवः ॥६५॥
आपोमूर्तिस्तथाऽऽत्रेयो वासिष्ठश्चाष्टमः स्मृतः ।
पौलस्त्यः प्रमितिश्चैव नभोगश्चैव काश्यपः ।
अङ्गिरा नभसः सत्यः सप्तैते परमर्षयः ॥६६॥
देवतानां गणौ द्वौ तौ ऋषिमन्त्राश्च ये स्मृताः ।
मनोः सुतोत्तमौजाश्च निकुषञ्जश्च वीर्यवान् ॥६७॥
शतानीको निरामित्रो वृषसेनो जयद्रथः ।
भूरिद्युम्नः सुवर्चाश्च दश त्वेते मनोः सुताः ॥६८॥
एकादशेऽथ पर्याये तृतीयस्यान्तरे मनोः ।
तस्य सप्त ऋषींश्चापि कीर्त्यमानान्निबोध मे ॥६९॥
हविष्मान् काश्यपश्चापि हविष्मान् यश्च भार्गवः ।
तरुणश्च तथाऽऽत्रेयो वासिष्ठस्त्वनघस्तथा ॥७०॥
अङ्गिराश्चोदधिष्ण्यश्च पौलस्त्यो निश्चरस्तथा ।
पुलहश्चाग्नितेजाश्च भाव्याः सप्त महर्षयः ॥७१॥
ब्रह्मणस्तु सुता देवा गणास्तेषां त्रयः स्मृताः ।
संवर्तकः सुशर्मा च देवानीकः पुरूद्वहः ॥७२॥
क्षेमधन्वा टृढायुश्च आदर्शः पण्डको मनुः ।
सावर्णस्य तु पुत्रा वै तृतीयस्य नव स्मृताः ॥७३॥
चतुर्थस्य तु सावर्णेर्ऋषीन् सप्त निबोध मे ।
द्युतिर्वसिष्ठपुत्रश्च आत्रेयः सुतपास्तथा ॥७४॥
अङ्गिरास्तपसो मूर्तिस्तपस्वी काश्यपस्तथा ।
तपोऽशनश्च पौलस्त्यः पौलहश्च तपो रविः ॥७५॥
भार्गवः सप्तमस्तेषां विज्ञेयस्तु तपोधृतिः ।
पञ्च देवगणाः प्रोक्ता मानसा ब्रह्मणश्च ते ॥७६॥
देववायुरदूरश्च देवश्रेष्ठो विदूरथः ।
मित्रवान् मित्रदेवश्च मित्रसेनश्च मित्रकृत् ।
मित्रबाहुः सुवर्चाश्च द्वादशस्य मनोः सुताः ॥७७॥
त्रयोदशेऽथ पर्याये भाव्ये मन्वन्तरे मनोः ।
अङ्गिराश्चैव धृतिमान्पौलस्त्यो हव्यपस्तु यः ॥७८॥
पौलहस्तत्त्वदर्शी च भार्गवश्च निरुत्सुकः ।
निष्प्रकम्पस्तथाऽऽत्रेयो निर्मोहः काश्यपस्तथा ॥७९॥
सुतपाश्चैव वासिष्ठः सप्तैते तु महर्षयः ।
त्रय एव गणाः प्रोक्ता देवतानां स्वयम्भुवा ॥८०॥
त्रयोदशस्य पुत्रास्ते विज्ञेयास्तु रुचेः सुताः ।
चित्रसेनो विचित्रश्च नयो धर्मभृतो धृतः ॥८१॥
सुनेत्रः क्षत्रवृद्धिश्च सुतपा निर्भयो दृढः ।
रौच्यस्यैते मनोः पुत्रा अन्तरे तु त्रयोदशे ॥८२॥
चतुर्दशेऽथ पर्याये भौत्यस्यैवान्तरे मनोः ।
भार्गवो ह्यतिबाहुश्च शुचिराङ्गिरसस्तथा ॥८३॥
युक्तश्चैव तथाऽऽत्रेयः शुक्रो वासिष्ठ एव च ।
अजितः पौलहश्चैव अन्त्याः सप्तर्षयश्च ते ॥८४॥
एतेषां कल्य उत्थाय कीर्तनात्सुखमेधते ।
यशश्चाप्नोति सुमहदायुष्मांश्च भवेन्नरः ॥८५॥
अतीतानागतानां वै महर्षीणां सदा नरः ।
देवतानां गणाः प्रोक्ताः पञ्च वै भरतर्षभ ॥८६॥
तरङ्गभीरुर्वप्रश्च तरस्वानुग्र एव च ।
अभिमानी प्रवीणश्च जिष्णुः संक्रन्दनस्तथा ॥८७॥
तेजस्वी सबलश्चैव भौत्यस्यैते मनोः सुताः ।
भौत्यस्यैवाधिकारे तु पूर्णे कल्पस्तु पूर्यते ॥८८॥
इत्येते नामतोऽतीता मनवः कीर्तिता मया ।
तैरियं पृथिवी तात समुद्रान्ता सपत्तना ॥८९॥
पूर्णं युगसहस्रं तु परिपाल्या नराधिप ।
प्रजाभिश्चैव तपसा संहारस्तेषु भागशः ॥९०॥
इति श्रीमहाभारते खिलभागे हरिवंशे हरिवंशपर्वणि मन्वन्तरवर्णनं नाम सप्तमोऽध्यायः ॥७॥

Translation - भाषांतर
N/A

References : N/A
Last Updated : 2018-07-11T12:06:39.2700000

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.

euphotic

  • Bot., Zool. बहुप्रकाशी 
  • सुप्रकाशी 
RANDOM WORD

Did you know?

हल्ली महिला पौरोहित्य करतात हे धर्मसंमत आहे काय?
Category : Hindu - Traditions
RANDOM QUESTION
Don't follow traditions blindly or ignore them. Don't assume a superstition either. Don't be intentionally ignorant. Ask us!!
Hindu customs are all about Symbolism. Let us tell you the thought behind those traditions.
Make Informed Religious decisions.