संस्कृत सूची|संस्कृत साहित्य|पुराण|हरिवंशपुराणम्|हरिवंश पर्व| पञ्चाशत्तमोऽध्यायः हरिवंश पर्व प्रथमोऽध्यायः द्वितीयोऽध्यायः तृतीयोऽध्यायः चतुर्थोऽध्यायः पञ्चमोऽध्यायः षष्ठोऽध्यायः सप्तमोऽध्यायः अष्टमोऽध्यायः नवमोऽध्यायः दशमोऽध्यायः एकादशोऽध्यायः द्वादशोऽध्यायः त्रयोदशोऽध्यायः चतुर्दशोऽध्यायः पञ्चदशोऽध्यायः षोडशोऽध्यायः सप्तदशोऽध्यायः अष्टादशोऽध्यायः एकोनविंशोऽध्यायः विंशोऽध्यायः एकविंशोऽध्यायः त्रयोविंशतितमोऽध्यायः चतुर्विशतितमोऽध्यायः पञ्चविंशतितमोऽध्यायः षडविंशोऽध्यायः सप्तविंशोऽध्यायः अष्टाविंशोऽध्यायः एकोनत्रिंशोऽध्यायः त्रिंशोऽध्यायः एकत्रिंशोऽध्यायः द्वात्रिंशोऽध्यायः त्रयस्त्रिंशोऽध्यायः चतुस्त्रिंशोऽध्यायः पञ्चत्रिंशोऽध्यायः षट्त्रिंशोऽध्यायः सप्तत्रिंशोऽध्यायः अष्टत्रिंशोऽध्यायः एकोनचत्वारिंशोऽध्यायः चत्वारिंशोऽध्यायः एकचत्वारिंशोऽध्यायः द्विचत्वारिंशोऽध्यायः त्रिचत्वारिंशोऽध्यायः चतुश्चत्वारिंशोऽध्यायः पञ्चचत्वारिंशोऽध्यायः षट्चत्वारिंशोऽध्यायः सप्तचत्वारिंशोऽध्यायः अष्टचत्वारिंशोऽध्यायः एकोनपञ्चाशत्तमोऽध्यायः पञ्चाशत्तमोऽध्यायः एकपञ्चाशत्तमोऽध्यायः द्विपञ्चाशत्तमोऽध्यायः त्रिपञ्चाशत्तमोऽध्यायः चतुष्पञ्चाशत्तमोऽध्यायः पञ्चपञ्चाशत्तमोऽध्याय हरिवंश पर्व - पञ्चाशत्तमोऽध्यायः महर्षी व्यासांनी रचलेला हा महाभारताचा पुरवणी ग्रंथ आहे. Tags : harivansha puranpuransanskritपुराणसंस्कृतहरिवंश पुराण पञ्चाशत्तमोऽध्यायः Translation - भाषांतर नारायणाश्रमे भगवतः विष्णोः शयनम् उत्थानं च, निकटवर्तिभ्यः ब्रह्मादि देवेभ्यः तेषां आगमनस्य प्रयोजनस्य पृच्छा ।वैशम्पायन उवाचऋषिभिः पूजितस्तैस्तु विवेश हरिरीश्वरः ।पौराणं ब्रह्मसदनं दिव्यं नारायणाश्रमम् ॥१॥स तद् विवेश हृष्टात्मा तानामन्त्र्य सदोगतान् ।प्रणम्य चादिदेवाय ब्रह्मणे पद्मयोनये ॥२॥स्वेन नाम्ना परिज्ञातं स तं नारायणाश्रमम् ।प्रविशन्नेव भगवानायुधानि व्यसर्जयत् ॥३॥स तत्राम्बुपतिप्रख्यं ददर्शालयमात्मनः ।स्वधिष्ठितं देवगणैः शाश्वतैश्च महर्षिभिः ॥४॥संवर्तकाम्बुदोपेतं नक्षत्रस्थानसंकुलम् ।तिमिरौघपरिक्षिप्तमप्रधृष्यं सुरासुरैः ॥५॥न तत्र विषयो वायोर्नेन्दोर्न च विवस्वतः ।वपुषः पद्मनाभस्य स देशस्तेजसाऽऽवृतः ॥६॥स तत्र प्रविशन्नेव जटाभारं समुद्वहन् ।सहस्रशीर्षो भूत्वा तु शयनायोपचक्रमे ॥७॥लोकानामन्तकालज्ञा काली नयनशालिनी ।उपतस्थे महात्मानं निद्रा तं कालरूपिणी ॥८॥स शिश्ये शयने दिव्ये समुद्राम्भोदशीतले ।हरिरेकार्णवोक्तेन व्रतेन व्रतिनां वरः ॥९॥तं शयानं महात्मानं भवाय जगतः प्रभुम् ।उपासाञ्चक्रिरे विष्णुं देवाः सर्षिगणास्तथा ॥१०॥तस्य सुप्तस्य शुशुभे नाभिमध्यात्समुत्थितम् ।आद्यं तस्यासनं पद्मं ब्रह्मणः सूर्यवर्चसम् ।सहस्रपत्रं वर्णाढ्यं सुकुमारं सुपुष्पितम् ॥११॥ब्रह्मसूत्रोद्यतकरः स्वपन्नेव महामुनिः ।आवर्तयति लोकानां सर्वेषां कालपर्ययम् ॥१२॥विवृतात् तस्य वदनान्निःश्वासपवनेरिताः ।प्रजानां पङ्क्तयो ह्युच्चैर्निष्पतन्त्युत्पतन्ति च ॥१३॥ते सृष्टाःप्राणिनो मेध्या विभक्ता ब्रह्मणा स्वयम् ।चतुर्धा स्वां गतिं जग्मुः कृतान्तोक्तेन कर्मणा ॥१४॥न तं वेद स्वयं ब्रह्मा नापि ब्रह्मर्षयोऽव्ययाः ।विष्णोर्निद्रामयं योगं प्रविष्टं तमसावृतम् ॥१५॥ते तु ब्रह्मर्षयः सर्वे पितामहपुरोगमाः ।न विदुस्तं क्वचित् सुप्तं क्वचिदासीनमासने ॥१६॥जागर्ति कोऽत्र कः शेते कश्च शक्तश्च नेङ्गते ।को भोगवान्कोद्युतिमान्कृष्णात्कृष्णतरश्च कः ॥१७॥विमृशन्ति स्म तं देवा दिव्याभिरुपपत्तिभिः ।न चैनं शेकुरन्वेष्टुं कर्मतो जन्मतोऽपि वा ॥१८॥गाथाभिस्तत्प्रदिष्टाभिर्ये तस्य चरितं विदुः ।पुराणास्तं पुराणेषु ऋषयः सम्प्रचक्षते ॥१९॥श्रूयते चास्य चरितं देवेष्वपि पुरातनम् ।महापुराणात् प्रभृति परं तस्य न विद्यते ॥२०॥यच्चास्य देवदेवस्य चरितं स्वप्रभावजम् ।तेनेमाः श्रुतयो व्याप्ता वैदिक्यो लौकिकाश्च याः ॥२१॥भवकाले भवत्येष लोकानां लोकभावनः ।दानवानामभावाय जागर्ति मधुसूदनः ॥२२॥यत्रैनं वीक्षितुं देवा न शेकुः सुप्तमव्ययम् ।ततः स्वपिति घर्मान्ते जागर्ति जलदक्षये ॥२३॥स हि वेदाश्च यज्ञाश्च यज्ञाङ्गानि च सर्वशः ।या तु यज्ञगतिः प्रोक्ता स एष पुरुषोत्तमः ॥२४॥तस्मिन् सुप्ते न वर्तन्ते मन्त्रपूताः क्रतुक्रियाः ।शरत्प्रवृत्तयज्ञोऽयं जागर्ति मधुसूदनः ॥२५॥तदिदं वार्षिकं चक्रं कारयत्यम्बुदेश्वरः ।वैष्णवं कर्म कुर्वाणः सुप्ते विष्णौ पुरंदरः ॥२६॥या ह्येषा गह्वरा माया निद्रेति जगति स्थिता ।साकस्माद् द्वेषिणी घोरा कालरात्रिर्महीक्षिताम् ॥२७॥तस्यास्तनुस्तमोद्वारा निशा दिवसनाशिनी ।जीवितार्धहरा घोरा सर्वप्राणभृतां भुवि ॥२८॥नैतया कश्चिदाविष्टो जृम्भमाणो मुहुर्मुहुः ।शक्तः प्रसहितुं वेगं मज्जन्निव महार्णवे ॥२९॥अन्नजा भुवि मर्त्यानां श्रमजा वा कथंचन ।सैषा भवति लोकस्य निद्रा सर्वस्य लौकिकी ॥३०॥स्वप्नान्ते क्षीयते ह्येषा प्रायशो भुवि देहिनाम् ।मृत्युकाले च भूतानां प्राणान् नाशयते भृशम् ॥३१॥देवेष्वपि दधारैनां नान्यो नारायणादृते ।सखी सर्वहरस्यैषा माया विष्णुशरीरजा ॥३२॥सैषा नारायणमुखे दृष्टा कमललोचना ।लोकानल्पेन कालेन ग्रसते लोकमोहिनी ॥३३॥एवमेषा हितार्थाय लोकानां कृष्णवर्त्मना ।ध्रियते सेवनीया हि पत्येव च पतिव्रता ॥३४॥स तया निद्रया च्छन्नस्तस्मिन् नारायणाश्रमे ।स्वपिति स्म तदा विष्णुर्मोहयञ्जगदव्ययः ॥३५॥तस्य वर्षसहस्त्राणि शयानस्य महात्मनः ।जग्मुः कृतयुगं चैव त्रेता चैव युगोत्तमम् ॥३६॥स तु द्धापरपर्यन्ते ज्ञात्वा लोकान् सुदुःखितान् ।प्राबुध्यत महातेजाः स्तूयमानो महर्षिभिः ॥३७॥ऋषय ऊचुःजहीहि निद्रां सहजां भुक्तपूर्वामिव स्रजम् ।इमे ते ब्रह्मणा सार्धं देवा दर्शनकाङ्क्षिणः ॥३८॥इमे त्वां ब्रह्मविद्वांसो ब्रह्मसंस्तववादिनः ।वर्धयन्ति हृषीकेश ऋषयः संशितव्रताः ॥३९॥एतेषामात्मभूतानां भूतानां भूतभावन ।शृणु विष्णो शुभा वाचो भूव्योमाग्न्यनिलाम्भसाम् ॥४०॥इमे त्वा सप्त मुनयः सहिता मुनिमण्डलैः ।स्तुवन्ति देव दिव्याभिर्गेयाभिर्गीर्भिरञ्जसा ॥४१॥उत्तिष्ठ शतपत्राक्ष पद्मनाभ महाद्युते ।कारणं किंचिदुत्पन्नं देवानां कार्यगौरवात् ॥४२॥वैशम्पायन उवाचस संक्षिप्य जलं सर्वं तिमिरौघं विदारयन् ।उदतिष्ठद्धृषीकेशः श्रिया परमया ज्वलन् ॥४३॥स ददर्श सुरान्सर्वान्समेतान्सपितामहान् ।विवक्षतः प्रक्षुभिताञ्जगदर्थे समागतान् ॥४४॥तानुवाच हरिर्देवो निद्राविश्रान्तलोचनः ।तत्त्वदृष्टार्थया वाचा धर्महेत्वर्थयुक्तया ॥४५॥श्रीभगवानुवाचकुतो वो विग्रहो देवाः कुतो वो भयमागतम् ।कस्य वा केन वा कार्यं किं वा मयि न वर्तते ॥४६॥किं खल्वकुशलं लोके वर्तते दानवोत्थितम् ।नृणामायासजननं शीघ्रमिच्छामि वेदितुम् ॥४७॥एष ब्रह्मविदां मध्ये विहाय शयनोत्तमम् ।शिवाय भवतामर्थे स्थितः किं करवाणि वः ॥४८॥इति श्रीमहाभारते खिलभागे हरिवंशे हरिवंशपर्वणि विष्णोर्योगशयनोत्थाने पञ्चाशत्तमोऽध्यायः ॥५०॥ N/A References : N/A Last Updated : July 12, 2018 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP