संस्कृत सूची|संस्कृत साहित्य|पुराण|हरिवंशपुराणम्|हरिवंश पर्व| अष्टचत्वारिंशोऽध्यायः हरिवंश पर्व प्रथमोऽध्यायः द्वितीयोऽध्यायः तृतीयोऽध्यायः चतुर्थोऽध्यायः पञ्चमोऽध्यायः षष्ठोऽध्यायः सप्तमोऽध्यायः अष्टमोऽध्यायः नवमोऽध्यायः दशमोऽध्यायः एकादशोऽध्यायः द्वादशोऽध्यायः त्रयोदशोऽध्यायः चतुर्दशोऽध्यायः पञ्चदशोऽध्यायः षोडशोऽध्यायः सप्तदशोऽध्यायः अष्टादशोऽध्यायः एकोनविंशोऽध्यायः विंशोऽध्यायः एकविंशोऽध्यायः त्रयोविंशतितमोऽध्यायः चतुर्विशतितमोऽध्यायः पञ्चविंशतितमोऽध्यायः षडविंशोऽध्यायः सप्तविंशोऽध्यायः अष्टाविंशोऽध्यायः एकोनत्रिंशोऽध्यायः त्रिंशोऽध्यायः एकत्रिंशोऽध्यायः द्वात्रिंशोऽध्यायः त्रयस्त्रिंशोऽध्यायः चतुस्त्रिंशोऽध्यायः पञ्चत्रिंशोऽध्यायः षट्त्रिंशोऽध्यायः सप्तत्रिंशोऽध्यायः अष्टत्रिंशोऽध्यायः एकोनचत्वारिंशोऽध्यायः चत्वारिंशोऽध्यायः एकचत्वारिंशोऽध्यायः द्विचत्वारिंशोऽध्यायः त्रिचत्वारिंशोऽध्यायः चतुश्चत्वारिंशोऽध्यायः पञ्चचत्वारिंशोऽध्यायः षट्चत्वारिंशोऽध्यायः सप्तचत्वारिंशोऽध्यायः अष्टचत्वारिंशोऽध्यायः एकोनपञ्चाशत्तमोऽध्यायः पञ्चाशत्तमोऽध्यायः एकपञ्चाशत्तमोऽध्यायः द्विपञ्चाशत्तमोऽध्यायः त्रिपञ्चाशत्तमोऽध्यायः चतुष्पञ्चाशत्तमोऽध्यायः पञ्चपञ्चाशत्तमोऽध्याय हरिवंश पर्व - अष्टचत्वारिंशोऽध्यायः महर्षी व्यासांनी रचलेला हा महाभारताचा पुरवणी ग्रंथ आहे. Tags : harivansha puranpuransanskritपुराणसंस्कृतहरिवंश पुराण अष्टचत्वारिंशोऽध्यायः Translation - भाषांतर कालनेमिनः विष्णुना सह संवादं, विष्णुना कालनेमेः वधम् एवं देवानां आश्वासयित्वा ब्रह्मलोके प्रस्थानम् ।वैशम्पायन उवाचपञ्च तं नाभ्यवर्तन्त विपरीतेन कर्मणा ।वेदो धर्मः क्षमा सत्यं श्रीश्च नारायणाश्रया ॥१॥स तेषामनुपस्थानात् सक्रोधो दानवेश्वरः ।वैष्णवं पदमन्विच्छन् ययौ नारायणान्तिकम् ॥२॥स ददर्श सुपर्णस्थं शङ्खचक्रगदाधरम् ।दानवानां विनाशाय भ्रामयन्तं गदां शुभाम् ॥३॥सजलाम्भोदसदृशं विद्युत्सदृशवाससम् ।स्वारूढं स्वर्णपत्राढ्यं शिखिनं काश्यपं खगम् ॥४॥दृष्ट्वा दैत्यविनाशाय रणे स्वस्थमवस्थितम् ।दानवो विष्णुमक्षोभ्यं बभाषे क्षुब्धमानसः ॥५॥अयं स रिपुरस्माकं पूर्वेषां दानवर्षिणाम् ।अर्णवावासिनश्चैव मधोर्वै कैटभस्य च ॥६॥मयं स विग्रहोऽस्माकमशाम्यः किल कथ्यते ।येन नः संयुगेष्वाद्या बहवो दानवा हताः ॥७॥अयं स निर्घृणो युद्धेऽस्त्री बालनिरपत्रपः ।येन दानवनारीणां सीमन्तोद्धरणं कृतम् ॥८॥अयं स विष्णुर्देवानां वैकुण्ठश्च दिवौकसाम् ।अनन्तो भोगिनामप्सु स्वयम्भूश्च स्वयम्भुवः ॥९॥अयं स नाथो देवानामस्माकं विप्रिये स्थितः ।अस्य क्रोधेन महता हिरण्यकशिपुर्हतः ॥१०॥अस्यच्छायां समासाद्य देवा मखमुखे स्थिताः ।आज्यं महर्षिभिर्दत्तमश्नुवन्ति त्रिधा हुतम् ॥११॥अयं स निधने हेतुः सर्वेषां देवविद्विषाम् ।यस्य तेजःप्रविष्टानि कुलान्यस्माकमाहवे ॥१२॥अयं स किल युद्धेषु सुरार्थे त्यक्तजीवितः ।सवितुस्तेजसा तुल्यं चक्रं क्षिपति शत्रुषु ॥१३॥अयं स कालो दैत्यानां कालभूते मयि स्थिते ।अतिक्रान्तस्य कालस्य फलं प्राप्स्यति दुर्मतिः ॥१४॥दिष्ट्येदानीं समक्षं मे विष्णुरेव समागतः ।अद्य मद्बाणनिष्पिष्टो मामेव प्रणमिष्यति ॥१५॥यास्याम्यपचितिं दिष्ट्या पूर्वेषामद्य संयुगे ।इमं नारायणं हत्वा दानवानां भयावहम् ॥१६॥क्षिप्रमेव वधिष्यामि रणे नारायणाश्रितान् ।जात्यन्तरगतोऽप्येष मृधे बाधति दानवान् ॥१७॥एषोऽनन्तः पुरा भूत्वा पद्मनाभ इति स्मृतः ।जघानैकार्णवे घोरे तावुभौ मधुकैटभौ ।विनिवेश्य स्वके ऊरौ निहतौ दानवेश्वरौ ॥१८॥द्विधाभूतं वपुः कृत्वा सिंहार्धं नरसंस्थितम् ।पितरं मे जघानैको हिरण्यकशिपुं पुरा ॥१९॥शुभं गर्भमधत्तेममदितिर्देवतारणिः ।यज्ञकाले बलेर्यो वै कृत्वा वामनरूपताम् ।त्रीँल्लोकानाजहारैकः क्रममाणस्त्रिभिः क्रमैः ॥२०॥भूयस्त्विदानीं समरे सम्प्राप्ते तारकामये ।मया सह समागम्य सह देवैर्विनङ्क्ष्यति ॥२१॥स एवमुक्त्वा बहुधा क्षिपन्नारायणं रणे ।वाग्भिरप्रतिरूपाभिर्युद्धमेवाभ्यरोचयत् ॥२२॥क्षिप्यमाणोऽसुरेन्द्रेण न चुकोप गदाधरः ।क्षमाबलेन महता सस्मितं वाक्यमब्रवीत् ॥२३॥अल्पदर्पबलो दैत्य स्थितः क्रोधादसद्वदन् ।हतस्त्वमात्मनो दोषैः क्षमां योऽतीत्य भाषसे ॥२४॥अधमस्त्वं मम मतो धिगेतत् तव वाग्बलम् ।न तत्र पुरुषाः सन्ति यत्र गर्जन्ति योषितः ॥२५॥अहं त्वां दैत्य पश्यामि पूर्वेषां मार्गगामिनम् ।प्रजापतिकृतं सेतुं को भित्त्वा स्वस्तिमान्भवेत् ॥२६॥अद्य त्वां नाशयिष्यामि देवव्यापारकारकम् ।स्वेषु स्वेषु च स्थानेषु स्थापयिष्यामि देवताः ॥२७॥वैशम्पायन उवाचएवं ब्रुवति यद् वाक्यं मृधे श्रीवत्सधारिणि ।जहास दानवः क्रोधाद्धस्तांश्चक्रे च सायुधान् ॥२८॥स बाहुशतमुद्यम्य सर्वास्त्रग्रहणं रणे ।क्रोधाद् द्विगुणरक्ताक्षो विष्णुं वक्षस्यताडयत् ॥२९॥दानवाश्चापि समरे मयतारपुरोगमाः ।उद्यतायुधनिस्त्रिंशा दृष्ट्वा विष्णुमथाद्रवन् ॥३०॥स ताड्यमानोऽतिबलैर्दैत्यैः सर्वायुधोद्यतैः ।न चचाल हरिर्युद्धेऽकम्प्यमान इवाचलः ॥३१॥संसक्तश्च सुपर्णेन कालनेमी महासुरः ।सर्वप्राणेन महतीं गदामुद्यम्य बाहुभिः ॥३२॥मुमोच ज्वलितां घोरां संरब्धो गरुडोपरि ।कर्मणा तेन दैत्यस्य विष्णुर्विस्मयमागतः ॥३३॥यदा तस्य सुपर्णस्य पतिता मूर्घ्नि सा गदा ।तदाऽऽगमत्पदा भूमिं पक्षी व्यथितविग्रहः ॥३४॥सुपर्णं व्यथितं दृष्ट्वा क्षतं च वपुरात्मनः ।क्रोधात् संरक्तनयनो वैकुण्ठश्चक्रमाददे ॥३५॥व्यवर्धत च वेगेन सुपर्णेन समं प्रभुः ।भुजाश्चास्य व्यवर्धन्त व्याप्नुवन्तो दिशो दश ॥३६॥स दिशः प्रदिशश्चैव खं च गां चैव पूरयन् ।ववृधे स पुनर्लोकान् क्रान्तुकाम इवौजसा ॥३७॥तं जयाय सुरेन्द्राणां वर्धमानं नभस्तले ।ऋषयः सह गन्धर्वैस्तुष्टुवुर्मधुसूदनम् ॥३८॥स द्यां किरीटेन लिखन् साभ्रमम्बरमम्बरैः ।पद्भ्यामाक्रम्य वसुधां दिशः प्रच्छाद्य बाहुभिः ॥३९॥सूर्यस्य रश्मितुल्याभं सहस्रारमरिक्षयम् ।दीप्ताग्निसदृशं घोरं दर्शनीयं सुदर्शनम् ॥४०॥सुवर्णनेमिपर्यन्तं वज्रनाभं भयावहम् ।मेदोमज्जास्थिरुधिरैर्दिग्धं दानवसम्भवैः ॥४१॥अद्वितीयं प्रहारेषु क्षुरपर्यन्तमण्डलम् ।स्रग्दाममालाविततं कामगं कामरूपिणम् ४२॥स्वयं स्वयम्भुवा सृष्टं भयदं सर्वविद्विषाम् ।महर्षिरोषैराविष्टं नित्यमाहवदर्पितम् ॥४३॥क्षेपणाद्यस्य मुह्यन्ति लोकाः सस्थाणुजङ्गमाः ।क्रव्यादानि च भूतानि तृप्तिं यान्ति महाहवे ॥४४॥तमप्रतिमकर्माणं समानं सूर्यवर्चसा ।चक्रमुद्यम्य समरे क्रोधदीप्तो गदाधरः ॥४५॥सम्मुष्णन् दानवं तेजः समरे स्वेन तेजसा ।चिच्छेद बाहुं चक्रेण श्रीधरः कालनेमिनः ॥४६॥तञ्च वक्त्रशतं घोरं साग्निचूर्णाट्टहासिनम् ।तस्य दैत्यस्य चक्रेण प्रममाथ बलाद्धरिः ॥४७॥स च्छिन्नबाहुर्विशिरा न प्राकम्पत दानवः ।कबन्धोऽवस्थितः संख्ये विशाख इव पादपः ॥४८॥तं वितत्य महापक्षी वायोः कृत्वा समं जवम् ।उरसा पातयामास गरुडः कालनेमिनम् ॥४९॥स तस्य देहो विमुखो विशाखः खात्परिभ्रमन् ।निपपात दिवं त्यक्त्वा क्षोभयन्धरणीतलम् ॥५०॥तस्मिन्निपतिते दैत्ये देवाः सर्षिगणास्तदा ।साधु साध्विति वैकुण्ठं समेताः प्रत्यपूजयन् ॥५१॥अपरे ये तु दैत्या वै युद्धे दुष्टपराक्रमाः ।ते सर्वे बाहुभिर्व्याप्ता न शेकुश्चलितुं रणे ॥५२॥कांश्चित्केशेषु जग्राह कांश्चित्कण्ठेऽभ्यपीडयत् ।पाटयत्कस्यचिद् वक्त्रं मध्ये कांश्चिदथाग्रहीत् ॥५३॥ते गदाचक्रनिर्दग्धा गतसत्त्वा गतासवः ।गगनाद् भ्रष्टसर्वाङ्गा निपेतुर्धरणीतले ॥५४॥तेषु सर्वेषु दैत्येषु हतेषु पुरुषोत्तमः ।तस्थौ शक्रप्रियं कृत्वा कृतकर्म्मा गदाधरः ॥५५॥तस्मिन् विमर्दे निर्वृत्ते संग्रामे तारकामये ।तं देशमाजगामाशु ब्रह्मा लोकपितामहः ॥५६॥सर्वैर्ब्रह्मर्षिभिः सार्धं गंधर्वैः साप्सरोगणैः ।देवदेवो हरिं देवं पूजयन् वाक्यमब्रवीत् ॥५७॥ब्रह्मोवाचकृतं देव महत्कर्म सुराणां शल्यमुद्धृतम् ।वधेनानेन दैत्यानां वयं हि परितोषिताः ॥५८॥योऽयं हतस्त्वया विष्णो कालनेमी महासुरः ।त्वमेकोऽस्य मृधे हन्ता नान्यः कश्चन विद्यते ॥५९॥एष देवान् परिभवँल्लोकांश्च सचराचरान् ।ऋषीणां कदनं कृत्वा मामपि प्रतिगर्जति ॥६०॥तदनेन तवोग्रेण परितुष्टोऽस्मि कर्मणा ।यदयं कालतुल्याभः कालनेमी निपातितः ॥६१॥तदागच्छस्व भद्रं ते गच्छाम दिवमुत्तमम् ।ब्रह्मर्षस्त्वां तत्रस्थाः प्रतीक्षन्ते सदोगताः ॥६२॥अहं महर्षयश्चैव तत्र त्वां वदतां वर ।विधिवश्चार्चयिष्यामो गीर्भिर्दिव्याभिरच्युत ॥६३॥किं चाहं तव दास्यामि वरं वरभृतां वर ।सुरेष्वपि सदैत्येषु वराणां वरदो भवान् ॥६४॥निर्यातयैतत्त्रैलोक्यं स्फीतं निहतकण्टकम् ।अस्मिन्नेव मृधे विष्णो शक्राय सुमहात्मने ॥६५॥एवमुक्तो भगवता ब्रह्मणा हरिरव्ययः ।देवाञ्छक्रमुखान् सर्वानुवाच शुभया गिरा ॥६६॥विष्णुरुवाचश्रूयतां त्रिदशाः सर्वे यावन्तोऽत्र समागताः ।श्रवणावहितैर्देहैः पुरस्कृत्य पुरंदरम् ॥६७॥अस्मिन्नः समरे सर्वे कालनेमिमुखा हताः ।दानवा विक्रमोपेताः शक्रादपि महत्तराः ॥६८॥तस्मिन् महति संक्रन्दे द्वावेव तु विनिस्सृतौ ।वैरोचनश्च दैत्येन्द्रः स्वर्भानुश्च महाग्रहः ॥६९॥तदिष्टां भजतां शक्रो दिशं वरुण एव च ।याम्यां यमः पालयतामुत्तरां च धनाधिपः ॥७०॥ऋक्षैः सह यथायोगं काले चरतु चन्द्रमाः ।अब्दं चतुर्मुखं सूर्यो भजतामयनैः सह ॥७१॥आज्यभागाः प्रवर्तन्तां सदस्यैरभिपूजिताः ।हूयन्तामग्नयो विप्रैर्वेददृष्टेन कर्मणा ॥७२॥देवाश्च बलिहोमेन स्वाध्यायेन महर्षयः ।श्राद्धेन पितरश्चैव तृप्तिं यान्तु यथा पुरा ॥७३॥वायुश्चरतु मार्गस्थस्त्रिधा दीप्यतु पावकः ।त्रयो वर्णाश्च लोकांस्त्रीन् वर्द्धयन्त्यात्मजैर्गुणैः ॥७४॥क्रतवः सम्प्रवर्तन्तां दीक्षणीयैर्द्विजातिभिः ।दक्षिणाश्चोपवर्तन्तां यथार्हं सर्वसत्रिणाम् ॥७५॥गाश्च सूर्यो रसान्सोमो वायुः प्राणांश्च प्राणिषु ।तर्पयन्तः प्रवर्तन्तां शिवैः सौम्यैश्च कर्मभिः ॥७६॥यथावदानुपूर्व्येण महेन्द्रसलिलोद्भवाः ।त्रैलोक्यरमातरः सर्वाः सागरं यान्तु निम्नगाः ॥७७॥दैत्येभ्यस्त्यज्यतां भीश्च शान्तिं व्रजत देवताः ।स्वस्ति वोऽस्तु गमिष्यामि ब्रह्मलोकं सनातनम् ॥७८॥स्वगृहे सर्वलोके वा संग्रामे वा विशेषतः ।विश्रम्भो वो न मन्तव्यो नित्यं क्षुद्रा हि दानवाः ॥७९॥अपने घरमे अथवा समन्त जगच्च या विशेपतःछिद्रेषु प्रहरन्त्येते न चैषां संस्थितिर्ध्रुवा :सौम्यानामृजुभावानां भवतां चार्जवे मतिः ॥८०॥अहं तु दुष्टभावानां युष्मासु सुदुरात्मनाम् ।असम्यग्वर्तमानानां मोहं दास्यामि देवताः ॥८१॥यदा च सुदुराधर्षं दानवेभ्यो भयं भवेत् ।तदा समुपगम्याशु विधास्ये वस्ततोऽभयम् ॥८२॥वैशम्पायन उवाचएवमुक्त्वा सुरगणान् विष्णुः सत्यपराक्रमः ।जगाम् ब्रह्मणा सार्धं व्रह्मलोकं महायशाः ॥८३॥एतदाश्चर्यमभवत् संग्रामे तारकामये ।दानवानां च विष्णोश्च यन्मां त्वं परिपृच्छसि ॥८४॥इति श्रीमहाभारते खिलभागे हरिवंशे हरिवंशपर्वणि कालनेमिवधेऽष्टचत्वारिंशोऽध्यायः ॥४८॥ N/A References : N/A Last Updated : July 12, 2018 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP