संस्कृत सूची|संस्कृत साहित्य|पुराण|हरिवंशपुराणम्|हरिवंश पर्व| सप्तदशोऽध्यायः हरिवंश पर्व प्रथमोऽध्यायः द्वितीयोऽध्यायः तृतीयोऽध्यायः चतुर्थोऽध्यायः पञ्चमोऽध्यायः षष्ठोऽध्यायः सप्तमोऽध्यायः अष्टमोऽध्यायः नवमोऽध्यायः दशमोऽध्यायः एकादशोऽध्यायः द्वादशोऽध्यायः त्रयोदशोऽध्यायः चतुर्दशोऽध्यायः पञ्चदशोऽध्यायः षोडशोऽध्यायः सप्तदशोऽध्यायः अष्टादशोऽध्यायः एकोनविंशोऽध्यायः विंशोऽध्यायः एकविंशोऽध्यायः त्रयोविंशतितमोऽध्यायः चतुर्विशतितमोऽध्यायः पञ्चविंशतितमोऽध्यायः षडविंशोऽध्यायः सप्तविंशोऽध्यायः अष्टाविंशोऽध्यायः एकोनत्रिंशोऽध्यायः त्रिंशोऽध्यायः एकत्रिंशोऽध्यायः द्वात्रिंशोऽध्यायः त्रयस्त्रिंशोऽध्यायः चतुस्त्रिंशोऽध्यायः पञ्चत्रिंशोऽध्यायः षट्त्रिंशोऽध्यायः सप्तत्रिंशोऽध्यायः अष्टत्रिंशोऽध्यायः एकोनचत्वारिंशोऽध्यायः चत्वारिंशोऽध्यायः एकचत्वारिंशोऽध्यायः द्विचत्वारिंशोऽध्यायः त्रिचत्वारिंशोऽध्यायः चतुश्चत्वारिंशोऽध्यायः पञ्चचत्वारिंशोऽध्यायः षट्चत्वारिंशोऽध्यायः सप्तचत्वारिंशोऽध्यायः अष्टचत्वारिंशोऽध्यायः एकोनपञ्चाशत्तमोऽध्यायः पञ्चाशत्तमोऽध्यायः एकपञ्चाशत्तमोऽध्यायः द्विपञ्चाशत्तमोऽध्यायः त्रिपञ्चाशत्तमोऽध्यायः चतुष्पञ्चाशत्तमोऽध्यायः पञ्चपञ्चाशत्तमोऽध्याय हरिवंश पर्व - सप्तदशोऽध्यायः महर्षी व्यासांनी रचलेला हा महाभारताचा पुरवणी ग्रंथ आहे. Tags : harivansha puranpuransanskritपुराणसंस्कृतहरिवंश पुराण सप्तदशोऽध्यायः Translation - भाषांतर पितृकल्पः - भीष्म - मार्कण्डेयसंवादः, मार्कण्डेयस्य सनत्कुमारेण सह वार्तालापःभीष्म उवाचततोऽहं तस्य वचनान्मार्कण्डेयं समाहितः ।प्रश्नं तमेवान्वपृच्छं यन्मे पृष्टः पुरा पिता ॥१॥स मामुवाच धर्मात्मा मार्कण्डेयो महातपाः ।भीष्म वक्ष्यामि कार्त्स्न्येन शृणुष्व प्रयतोऽनघ ॥२॥अहं पितृप्रसादाद् वै दीर्धायुष्ट्वमवाप्तवान् ।पितृभक्त्यैव लब्धं च प्राग्लोके परमं यशः ॥३॥सोऽहं युगस्य पर्यन्ते बहुवर्षसहस्रिके ।अधिरुह्य गिरिं मेरुं तपोऽतप्यं सुदुश्चरम् ॥४॥ततः कदाचित्पश्यामि दिवं प्रज्वाल्य तेजसा ।विमानं महदायान्तमुत्तरेण गिरेस्तदा ॥५॥तस्मिन् विमाने पर्यङ्के ज्वलितादित्यसंनिभम् ।अपश्यं तत्र चैवाहं शयानं दीप्ततेजसम ॥६॥अङ्गुष्ठमात्रं पुरुषमग्नावग्निमिवाहितम् ।सोऽहं तस्मै नमस्कृत्वा प्रणम्य शिरसा विभुम् ॥७॥संनिविष्टं विमानस्थं पाद्यार्घ्याभ्यामपूजयम् ।अपृच्छं चैव दुर्धर्षं विद्याम त्वां कथं विभो ॥८॥तपोवीर्यात् समुत्पन्नं नारायण गुणात्मकम ।दैवतं ह्यसि देवानामिति मे वर्तते मतिः ॥९॥स मामुवाच धर्मात्मा स्मयमान इवानघ ।न ते तपः सुचरितं येन मां नावबुध्यसे ॥१०॥क्षणेनैव प्रमाणं स बिभ्रदन्यदनुत्तमम् ।रूपेण न मया कृश्चिद् दृष्टपूर्वः पुमान् क्वचित् ॥११॥सनत्कुमार उवाचविद्धि मां ब्रह्मणः पुत्रं मानसं पूर्वजं विभोः ।तपोवीर्यसमुत्पन्नं नारायणगुणात्मकम् ॥१२॥सनत्कुमार इति यः श्रुतो देवेषु वै पुरा ।सोऽस्मि भार्गव भद्रं ते कं कामं करवाणि ते ॥१३॥ये त्वन्ये ब्रह्मणः पुत्रा यवीयांसस्तु ते मम ।भ्रातरः सप्त दुर्धर्षास्तेषां वंशाः प्रतिष्ठिताः ॥१४॥क्रतुर्वसिष्ठः पुलहः पुलस्त्योऽत्रिस्तथाङ्गिराः ।मरीचिस्तु तथा धीमान् देवगन्धर्वसेविताः ।त्रीँल्लोकान् धारयन्तीमान देवगन्धर्वपूजिताः ॥१५॥वयं तु यतिधर्माणः संयोज्यात्मानमात्मनि ।प्रजाधर्मं च कामं च व्यपहाय महामुने ॥१६॥यथोत्पन्नस्तथैवाहं कुमार इति विद्धि माम् ।तस्मात् सनत्कुमारेति नामैतन्मे प्रतिष्ठितम् ॥१७॥मद्भक्त्या ते तपश्चीर्णं मम दर्शनकाङ्क्षया ।एष दृष्टोऽस्मि भवता कं कामं करवाणि ते ॥१८॥इत्युक्तवन्तं तमहं प्रत्यवोचं सनातनम् ।अनुज्ञातो भगवता प्रीयमाणेन भारत ॥१९॥ततोऽहमेनमर्थं वै तमपृच्छं सनातनम् ।पृष्टः पितॄणां सर्गं च फलं श्राद्धस्य चानघ ॥२०॥चिच्छेद संशयं भीष्म स तु देवेश्वरो मम ।स मामुवाच धर्मात्मा कथान्ते बहुवार्षिके ।रमे त्वयाहं विप्रर्षे शृणु सर्वं यथातथम् ॥२१॥देवानसृजत ब्रह्मा मां यक्ष्यन्तीति भार्गव ।तमुत्सृज्य तथात्मानमयजंस्ते फलार्थिनः ॥२२॥ते शप्ता ब्रह्मणा मूढा नष्टसंज्ञा दिवौकसः ।न स्म किंचिद् विजानन्ति ततो लोकोऽप्यमुह्यत ॥२३॥ते भूयः प्रणताः शप्ताः प्रायाचन्त पितामहम् ।अनुग्रहाय लोकानां ततस्तानब्रवीदिदम् ॥२४॥प्रायश्चितं चरध्वं वै व्यभिचारो हि वः कृतः ।पुत्रांश्च परिपृच्छध्वं ततो ज्ञानमवाप्स्यथ ॥२५॥प्रायश्चित्तक्रियार्थं ते पुत्रान् पप्रच्छुरार्तवत् ।तेभ्यस्ते प्रयतात्मानः शशंसुस्तनयास्तदा ॥२६॥प्रायश्चित्तानि धर्मज्ञा वाङ्मनःकर्मजानि वै ।शंसन्ति कुशला नित्यं चक्षुर्भ्यामपि नित्यशः ॥२७॥प्रायश्चित्तार्थतत्त्वज्ञा लब्धसंज्ञा दिवौकसः ।गम्यन्तां पुत्रकाश्चेति पुत्रैरुक्ताश्च ते तदा ॥२८॥अभिशप्तास्तु ते देवाः पुत्रवाक्येन निन्दिताः ।पितामहमुपागच्छन् संशयच्छेदनाय वै ॥२९॥ततस्तानब्रवीद् देवो यूयं वै ब्रह्मवादिनः ।तस्माद् यदुक्तं युष्माकं तत्तथा न तदन्यथा ॥३०॥यूयं शरीरकर्तारस्तेषां देवा भविष्यथ ।ते तु ज्ञानप्रदातारः पितरो वो न संशयः ॥३१॥अन्योन्यं पितरो यूयं ते चैवेति न संशयः ।देवाश्च पितरश्चैव तद् बुध्यध्वं दिवौकसः ॥३२॥ततस्ते पुनरागम्य पुत्रानूचुर्दिवौकसः ।ब्रह्मणा च्छिन्नसंदेहाः प्रीतिमन्तः परस्परम् ॥३३॥यूयं वै पितरोऽस्माकं यैर्वयं प्रतिबोधिताः ।धर्मज्ञाः कश्च वः कामः को वरो वः प्रदीयताम् ॥३४॥यदुक्तं चैव युष्माभिस्तत् तथा न तदन्यथा ।उक्ताश्च यस्माद्युष्माभिः पुत्रका इति वै वयम् ।तस्माद् भवन्तः पितरो भविष्यन्ति न संशयः ॥३५॥योऽनिष्ट्वा तु पितॄञ्छ्राद्धैः क्रियाः काश्चित् करिष्यति ।राक्षसा दानवा नागाः फलं प्राप्स्यन्ति तस्य तत् ॥३६॥श्राद्धैराप्यायिताश्चैव पितरः सोममव्ययम् ।आप्याय्यमाना युष्माभिर्वर्द्धयिष्यन्ति नित्यदा ॥३७॥श्राद्धैराप्यायितः सोमो लोकानाप्याययिष्यति ।समुद्रपर्वतवनं जङ्गमाजङ्गमैर्वृतम् ॥३८॥श्राद्धानि पुष्टिकामाश्च ये करिष्यन्ति मानवाः ।तेभ्यः पुष्टिं प्रजाश्चैव दास्यन्ति पितरः सदा ॥३९॥श्राद्धे ये च प्रदास्यन्ति त्रीन् पिण्डान्नामगोत्रतः ।सर्वत्र वर्तमानांस्तान् पितरः सपितामहान् ।भावयिष्यन्ति सततं श्राद्धदानेन तर्पिताः ॥४०॥एवमाज्ञापितं पूर्वे ब्रह्मणा परमेष्ठिना ।इति तद्वचनं सत्यं भवत्वद्य दिवौकसः ।पुत्राश्च पितरश्चैव वयं सर्वे परस्परम् ॥४१॥सनत्कुमार उवाचत एते पितरो देवा देवाश्च पितरस्तथा ।अन्योन्यं पितरो ह्येते देवाश्च पितरश्च ह ॥४२॥इति खिलभागे हरिवंशे हरिवंशपर्वणि पितृकल्पे सप्तदशोऽध्यायः ॥१७॥ N/A References : N/A Last Updated : July 11, 2018 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP