संस्कृत सूची|संस्कृत साहित्य|पुराण|हरिवंशपुराणम्|हरिवंश पर्व| एकोनपञ्चाशत्तमोऽध्यायः हरिवंश पर्व प्रथमोऽध्यायः द्वितीयोऽध्यायः तृतीयोऽध्यायः चतुर्थोऽध्यायः पञ्चमोऽध्यायः षष्ठोऽध्यायः सप्तमोऽध्यायः अष्टमोऽध्यायः नवमोऽध्यायः दशमोऽध्यायः एकादशोऽध्यायः द्वादशोऽध्यायः त्रयोदशोऽध्यायः चतुर्दशोऽध्यायः पञ्चदशोऽध्यायः षोडशोऽध्यायः सप्तदशोऽध्यायः अष्टादशोऽध्यायः एकोनविंशोऽध्यायः विंशोऽध्यायः एकविंशोऽध्यायः त्रयोविंशतितमोऽध्यायः चतुर्विशतितमोऽध्यायः पञ्चविंशतितमोऽध्यायः षडविंशोऽध्यायः सप्तविंशोऽध्यायः अष्टाविंशोऽध्यायः एकोनत्रिंशोऽध्यायः त्रिंशोऽध्यायः एकत्रिंशोऽध्यायः द्वात्रिंशोऽध्यायः त्रयस्त्रिंशोऽध्यायः चतुस्त्रिंशोऽध्यायः पञ्चत्रिंशोऽध्यायः षट्त्रिंशोऽध्यायः सप्तत्रिंशोऽध्यायः अष्टत्रिंशोऽध्यायः एकोनचत्वारिंशोऽध्यायः चत्वारिंशोऽध्यायः एकचत्वारिंशोऽध्यायः द्विचत्वारिंशोऽध्यायः त्रिचत्वारिंशोऽध्यायः चतुश्चत्वारिंशोऽध्यायः पञ्चचत्वारिंशोऽध्यायः षट्चत्वारिंशोऽध्यायः सप्तचत्वारिंशोऽध्यायः अष्टचत्वारिंशोऽध्यायः एकोनपञ्चाशत्तमोऽध्यायः पञ्चाशत्तमोऽध्यायः एकपञ्चाशत्तमोऽध्यायः द्विपञ्चाशत्तमोऽध्यायः त्रिपञ्चाशत्तमोऽध्यायः चतुष्पञ्चाशत्तमोऽध्यायः पञ्चपञ्चाशत्तमोऽध्याय हरिवंश पर्व - एकोनपञ्चाशत्तमोऽध्यायः महर्षी व्यासांनी रचलेला हा महाभारताचा पुरवणी ग्रंथ आहे. Tags : harivansha puranpuransanskritपुराणसंस्कृतहरिवंश पुराण एकोनपञ्चाशत्तमोऽध्यायः Translation - भाषांतर ब्रह्मलोके भगवतः विष्णोः सत्कारम्जनमेजय उवाचब्रह्मणा देवदेवेन सार्धं सलिलयोनिना ।ब्रह्मलोकगतो ब्रह्मन् वैकुण्ठः किं चकार ह ॥१॥किमर्थे चादिदेवेन नीतः कमलयोनिना ।विष्णुर्दैत्यवधे वृत्ते देवैश्च कृतसत्क्रियः ॥२॥ब्रह्मलोके च किं स्थानं कं वा योगमुपास्त सः ।कं वा दधार नियमं स विभुर्भूतभावनः ॥३॥कथं तस्याऽऽसतस्तत्र विश्वं जगदिदं महत् ।श्रियमाप्नोति विपुलां सुरासुरनरार्चिताम् ॥४॥कथं स्वपिति घर्मान्ते बुध्यते चाम्बुदप्लवे ।कथं च ब्रह्मलोकस्थो धुरं वहति लौकिकीम् ॥५॥चरितं तस्य विप्रेन्द्र दिव्यं भगवतो दिवि ।विस्तरेण यथातत्त्वं सर्वमिच्छामि वेदितुम् ॥६॥वैशम्पायन उवाचशृणु नारायणस्यादौ विस्तरेण प्रवृत्तयः ।ब्रह्मलोकं यथारूढो ब्रह्मणा सह मोदते ॥७॥कामं तस्य गतिः सूक्ष्मा देवैरपि दुरासदा ।यत् तु वक्ष्याम्यहं राजंस्तन्मे निगदतः शृणु ॥८॥एष लोकमयो देवो लोकाश्चैतन्मयास्त्रयः ।एष देवमयश्चैव देवाश्चैतन्मया दिवि ॥९॥तस्य पारं न पश्यन्ति बहवः पारचिन्तकाः ।एष पारं परं चैव लोकानां वेद माधवः ॥१०॥अस्य देवान्धकारस्य मार्गितव्यस्य दैवतैः ।शृणु वै यत्तदा वृत्तं ब्रह्मलोके पुरातनम् ॥११॥स गत्वा ब्रह्मणो लोकं दृष्ट्वा पैतामहं पदम् ।ववन्दे तानृषीन् सर्वान् विष्णुरार्षेण कर्मणा ॥१२॥सोऽग्निं प्राक्सवने दृष्ट्वा हूयमानं महर्षिभिः ।अवन्दत महातेजाः कृत्वा पौर्वाह्णिकीं क्रियाम् ॥१३॥स ददर्श मखेष्वाज्यैरिज्यमानं महर्षिभिः ।भागं यज्ञियमश्नानं स्वदेहमपरं स्थितम् ॥१४॥अभिवाद्याभिवाद्यानामृषीणां ब्रह्मवर्चसाम् ।परिचक्राम सोऽचिन्त्यो ब्रह्मलोकं सनातनम् ॥१५॥स ददर्शोच्छ्रितान् यूपांश्चषालाग्रविभूषितान् ।मखेषु च ब्रह्मर्षिभिः शतशः कृतलक्षणान् ॥१६॥आज्यधूमं समाघ्राय शृण्वन्वेदान्द्विजेरितान् ।यज्ञैरिज्यन्तमात्मानं पश्यंस्तत्र चचार ह ॥१७॥ऊचुस्तमृषयो देवाः सदस्याः सदसि स्थिताः ।अर्घ्योद्यतभुजाः सर्वे पवित्रान्तरपाणयः ॥१८॥देवेषु वर्तते यद् वै तद्धि सर्वं जनार्दनात् ।यत्प्रवृत्तं च देवेभ्यस्तद्विद्धि मधुसूदनात् ॥१९॥अग्नीषोममयं लोकं यं विदुर्विदुषो जनाः ।तं सोममग्निं लोकं च वेद विष्णुं सनातनम् ॥२०॥क्षीराद् यथा दधि भवेद्दध्नः सर्पिर्भवेद् यथा ।मथ्यमानेषु भूतेषु तथा लोको जनार्दनात् ॥२१॥यथेन्द्रियैश्च भूतैश्च परमात्मा विधीयते ।तथा देवैश्च वेदैश्च लोकैश्च विहितो हरिः ॥२२॥यथा भूतेन्द्रियावाप्तिर्विहिता भुवि देहिनाम् ।तथा प्राणेश्वरावाप्तिर्देवानां दिवि वैष्णवी ॥२३॥सत्रिणां सत्रफलदः पवित्रं परमात्मवान् ।लोकतन्त्रधरो ह्येष मन्त्रैमन्त्र इवोच्यते ॥२४॥ऋषय ऊचुःस्वागतं ते सुरश्रेष्ठ पद्मनाभ महाद्युते ।इदं यज्ञियमातिथ्यं मन्त्रतः प्रतिगृह्यताम् ॥२५॥त्वमस्य यज्ञपूतस्य पात्रं पाद्यस्य पावनः ।अतिथिस्त्वं हि मन्त्रोक्तः स दृष्टः सततं मतः ॥२६॥त्वयि योद्धुं गते विष्णौ न प्रावर्तन्त नः क्रियाः ।अवैष्णवस्य यज्ञस्य न हि कर्म विधीयते ॥२७॥सदक्षिणस्य यज्ञस्य त्वत्प्रसूतिः फलं लभेत् ।अद्यात्मानमिहास्माभिरिज्यमानं निरीक्षसे ॥२८॥एवमस्त्विति तान्सर्वान्भगवान्प्रत्यपूजयत् ।मुमुदे ब्रह्मलोकस्थो ब्रह्मा लोकपितामहः ॥२९॥इति श्रीमहाभारते खिलभागे हरिवंशे हरिवंशपर्वणि लोकवर्णनं नामैकोनपञ्चाशत्तमोऽध्यायः ॥४९॥ N/A References : N/A Last Updated : July 12, 2018 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP