संस्कृत सूची|संस्कृत साहित्य|पुराण|हरिवंशपुराणम्|हरिवंश पर्व| त्रयस्त्रिंशोऽध्यायः हरिवंश पर्व प्रथमोऽध्यायः द्वितीयोऽध्यायः तृतीयोऽध्यायः चतुर्थोऽध्यायः पञ्चमोऽध्यायः षष्ठोऽध्यायः सप्तमोऽध्यायः अष्टमोऽध्यायः नवमोऽध्यायः दशमोऽध्यायः एकादशोऽध्यायः द्वादशोऽध्यायः त्रयोदशोऽध्यायः चतुर्दशोऽध्यायः पञ्चदशोऽध्यायः षोडशोऽध्यायः सप्तदशोऽध्यायः अष्टादशोऽध्यायः एकोनविंशोऽध्यायः विंशोऽध्यायः एकविंशोऽध्यायः त्रयोविंशतितमोऽध्यायः चतुर्विशतितमोऽध्यायः पञ्चविंशतितमोऽध्यायः षडविंशोऽध्यायः सप्तविंशोऽध्यायः अष्टाविंशोऽध्यायः एकोनत्रिंशोऽध्यायः त्रिंशोऽध्यायः एकत्रिंशोऽध्यायः द्वात्रिंशोऽध्यायः त्रयस्त्रिंशोऽध्यायः चतुस्त्रिंशोऽध्यायः पञ्चत्रिंशोऽध्यायः षट्त्रिंशोऽध्यायः सप्तत्रिंशोऽध्यायः अष्टत्रिंशोऽध्यायः एकोनचत्वारिंशोऽध्यायः चत्वारिंशोऽध्यायः एकचत्वारिंशोऽध्यायः द्विचत्वारिंशोऽध्यायः त्रिचत्वारिंशोऽध्यायः चतुश्चत्वारिंशोऽध्यायः पञ्चचत्वारिंशोऽध्यायः षट्चत्वारिंशोऽध्यायः सप्तचत्वारिंशोऽध्यायः अष्टचत्वारिंशोऽध्यायः एकोनपञ्चाशत्तमोऽध्यायः पञ्चाशत्तमोऽध्यायः एकपञ्चाशत्तमोऽध्यायः द्विपञ्चाशत्तमोऽध्यायः त्रिपञ्चाशत्तमोऽध्यायः चतुष्पञ्चाशत्तमोऽध्यायः पञ्चपञ्चाशत्तमोऽध्याय हरिवंश पर्व - त्रयस्त्रिंशोऽध्यायः महर्षी व्यासांनी रचलेला हा महाभारताचा पुरवणी ग्रंथ आहे. Tags : harivansha puranpuransanskritपुराणसंस्कृतहरिवंश पुराण त्रयस्त्रिंशोऽध्यायः Translation - भाषांतर यदोःवंशस्य वर्णनम्, कार्तवीर्यस्य उत्पत्तिः चरित्रं च, ययातेः पञ्चानां पुत्राणां वंशवर्णनस्य श्रवणस्य महिमावैशम्पायन उवाचबभूवुस्तु यदोः पुत्राः पञ्च देवसुतोपमाः ।सहस्रदः पयोदश्च क्रोष्टा नीलोऽञ्जिकस्तथा ॥१॥सहस्रदस्य दायादास्त्रयः परमधार्मिकाः ।हैहयश्च हयश्चैव राजन् वेणुहयस्तथा ॥२॥हैहयस्याभवत् पुत्रो धर्मनेत्र इति स्मृतः ।धर्मनेत्रस्य कार्तस्तु साहञ्जस्तस्य चात्मजः ॥३॥साहञ्जनी नाम पुरी येन राज्ञा निवेशिता ।साहञ्जस्य तु दायादो महिष्मान् नाम पार्थिवः ॥४॥माहिष्मती नाम पुरी येन राज्ञा निवेशिता ।आसीन्महिष्मतः पुत्रो भद्रश्रेण्यः प्रतापवान् ॥५॥वाराणस्यधिपो राजा कथितः पूर्वमेव तु ।भद्रश्रेण्यस्य पुत्रस्तु दुर्दमो नाम विश्रुतः ॥६॥दुर्दमस्य सुतो धीमान्कनको नाम वीर्यवान् ।कनकस्य तु दायादाश्चत्वारो लोकविश्रुताः ॥७॥कृतवीर्यः कृतौजाश्च कृतवर्मा तथैव च ।कृताग्निस्तु चतुर्थोऽभूत्कृतवीर्यात्तथार्जुनः ॥८॥यस्तु बाहुसहस्रेण सप्तद्वीपेश्वरोऽभवत् ।जिगाय पृथिवीमेको रथेनादित्यवर्चसा ॥९॥स हि वर्षायुतं तप्त्वा तपः परमदुश्चरम् ।दत्तमाराधयामास कार्तवीर्योऽत्रिसम्भवम् ॥१०॥तस्मै दत्तो वरान् प्रादाच्चतुरो भूरितेजसः ।पूर्वं बाहुसहस्रं तु प्रार्थितं सुमहद्वरम् ॥११॥अधर्मे वर्तमानस्य सद्भिस्तत्र निवारणम् ।उग्रेण पृथिवीं जित्वा स्वधर्मेणानुरञ्जनम् ॥१२॥संग्रामान् सुबहून्कृत्वा हत्वा नारीन्सहस्रशः ।संग्रामे वर्तमानस्य वधं चाप्यधिकाद् रणे ॥१३॥तस्य बाहुसहस्रं तु युध्यतः किल भारत ।योगाद् योगेश्वरस्येव प्रादुर्भवति मायया ॥१४॥तेनेयं पृथिवी सर्वा सप्तद्वीपा सपत्तना ।ससमुद्रा सनगरा उग्रेण विधिना जिता ॥१५॥तेन सप्तसु द्वीपेषु सप्त यज्ञशतानि वै ।प्राप्तानि विधिना राज्ञा श्रूयन्ते जनमेजय ॥१६॥सर्वे यज्ञा महाबाहोस्तस्यासन् भूरिदक्षिणाः ।सर्वे काञ्चनयूपाश्च सर्वे काञ्चनवेदयः ॥१७॥सर्वैर्देवैर्महाराज विमानस्थैरलंकृताः ।गन्धर्वैरप्सरोभिश्च नित्यमेवोपशोभिताः ॥१८॥यस्य यज्ञे जगौ गाथां गन्धर्वो नारदस्तथा ।वरीदासात्मजो विद्वान् महिम्ना तस्य विस्मितः ॥१९॥नारद उवाचन नूनं कार्तवीर्यस्य गतिं यास्यन्ति पार्थिवाः ।यज्ञैर्दानैस्तपोभिर्वा विक्रमेण श्रुतेन च ॥२०॥स हि सप्तसु द्वीपेषु खङ्गी चर्मी शरासनी ।रथी द्वीपाननुचरन् योगी संदृश्यते नृभिः ॥२१॥अनष्टद्रव्यता चैव न शोको न च विभ्रमः ।प्रभावेण महाराज्ञः प्रजा धर्मेण रक्षतः ॥२२॥पञ्चाशीतिसहस्राणि वर्षाणां वै नराधिपः ।स सर्वरत्नभाक् सम्राट् चक्रवर्ती बभूव ह ॥२३॥स एव यज्ञपालोऽभूत् क्षेत्रपालः स एव च ।स एव वृष्ट्यां पर्जन्यो योगित्वादर्जुनोऽभवत् ॥२४॥स वै बाहुसहस्रेण ज्याघातकठिनत्वचा ।भाति रश्मिसहस्रेण शरदीव दिवाकरः ॥२५॥स हि नागान् मनुष्येषु माहिष्मत्यां महाद्युतिः ।कर्कोटकसुताञ्जित्वा पुर्यां तस्यां न्यवेशयत् ॥२६॥स वै वेगं समुद्रस्य प्रावृट्कालेऽम्बुजेक्षणः ।क्रीडन्निव भुजोद्भिन्नं प्रतिस्रोतश्चकार ह ॥२७॥लुण्ठिता क्रीडिता तेन फेनस्रग्दाममालिनी ।चलदूर्मिसहस्रेण शङ्किताभ्येति नर्मदा ॥२८॥तस्य बाहुसहस्रेण क्षुभ्यमाणे महोदधौ ।भयान्निलीना निश्चेष्टाः पातालस्था महासुराः ॥२९॥चूर्णीकृतमहावीचिं चलन्मीनमहातिमिम् ।मारुताविद्धफेनौघमावर्तक्षोभदुःसहम् ॥३०॥प्रावर्तयत् तदा राजा सहस्रेण च बाहुना ।देवासुरसमाक्षिप्तः क्षीरोदमिव मन्दरः ॥३१॥मन्दरक्षोभचकिता अमृतोद्भवशङ्किताः ।सहसोत्पतिता भीता भीमं दृष्ट्वा नृपोत्तमम् ॥३२॥नता निश्चलमूर्धानो बभूवुस्ते महोरगाः ।सायाह्ने कदलीखण्डाः कम्पितास्तस्य वायुना ॥३३॥स वै बद्ध्वा धनुर्ज्याभिरुत्सिक्तं पञ्चभिः शरैः ।लङ्केशं मोहयित्वा तु सबलं रावणं बलात् ।निर्जित्यैव समानीय माहिष्मत्यां बबन्ध तम् ॥३४॥श्रुत्वा तु बद्धं पौलस्त्यं रावणं त्वर्जुनेन तु ।ततो गत्वा पुलस्त्यस्तमर्जुनं ददृशे स्वयम् ।मुमोच रक्षः पौलस्त्यं पुलस्त्येनानुयाचितः ॥३५॥यस्य बाहुसहस्रस्य बभूव ज्यातलस्वनः ।युगान्ते त्वम्बुदस्येव स्फुटतो ह्यशनेरिव ॥३६॥अहो बत मृधे वीर्यं भार्गवस्य यदच्छिनत् ।राज्ञो वाहुसहस्रं तु हैमं तालवनं यथा ॥३७॥तृषितेन कदाचित् स भिक्षितश्चित्रभानुना ।स भिक्षामददाद् वीरः सप्तद्वीपान्विभावसोः ॥३८॥पुराणि ग्रामघोषांश्च विषयांश्चैव सर्वशः ।जज्वाल तस्य सर्वाणि चित्रभानुर्दिधक्षया ॥३९॥स तस्य पुरुषेन्द्रस्य प्रभावेण महात्मनः ।ददाह कार्तवीर्यस्य शैलांश्चैव वनानि च ॥४०॥स शून्यमाश्रमं रम्यं वरुणस्यात्मजस्य वै ।ददाह वनवद् भीतश्चित्रभानुः सहैहयः ॥४१॥यं लेभे वरुणः पुत्रं पुरा भास्वन्तमुत्तमम् ।वसिष्ठं नाम स मुनिः ख्यात मापव इत्युत ॥४२॥यत्रापवस्तु तं क्रोधाच्छप्तवानर्जुनं विभुः ।यस्मान्न वर्जितमिदं वनं ते मम हैहय ॥४३॥तस्मात् ते दुष्करं कर्म कृतमन्यो हनिष्यति ।रामो नाम महाबाहुर्जामदग्न्यः प्रतापवान् ॥४४॥छित्त्वा बाहुसहस्रं ते प्रमथ्य तरसा वली ।तपस्वी ब्राह्मणश्च त्वां वधिष्यति स भार्गवः ॥४५॥वैशम्पायन उवाचअनष्टद्रव्यता यस्य बभूवामित्रकर्शन ।प्रभावेण नरेन्द्रस्य प्रजा धर्मेण रक्षतः ॥४६॥रामात्ततोऽस्य मृत्युर्वै तस्य शापान्मुनेर्नृप ।वरश्चैव हि कौरव्य स्वयमेव वृतः पुरा ॥४७॥तस्य पुत्रशतस्यासन् पञ्च शेषा महात्मनः ।कृतास्त्रा बलिनः शूरा धर्मात्मानो यशस्विनः ॥४८॥शूरसेनश्च शूरश्च धृष्टोक्तः कृष्ण एव च ।जयध्वजश्च नाम्नाऽऽसीदावन्त्यो नृपतिर्महान् ॥४९॥कार्तवीर्यस्य तनया वीर्यवन्तो महारथाः ।जयध्वजस्य पुत्रस्तु तालजङ्घो महाबलः ॥५०॥तस्य पुत्राः शतं ख्यातास्तालजङ्घा इति श्रुताः॥तेषां कुले महाराज हैहयानां महात्मनाम् ॥५१॥वीतिहोत्राः सुजाताश्च भोजाश्चावन्तयः स्मृताः ।तौण्डिकेरा इति ख्यातास्तालजङ्घास्तथैव च ॥५२॥भरताश्च सुता जाता बहुत्वान्नानुकीर्तिताः ।वृषप्रभृतयो राजन् यादवाः पूर्णकर्मिणः ॥५३॥वृषो वंशधरस्तत्र तस्य पुत्रोऽभवन्मधुः ।मधोः पुत्रशतं त्वासीद् वृषणस्तस्य वंशभाक् ॥५४॥वृषणाद् वृष्णयः सर्वे मधोस्तु माधवाः स्मृताः ।यादवा यदुना चाग्रे निरुच्यन्ते च हैहयाः ॥५५॥न तस्य वित्तनाशोऽस्ति नष्टं प्रतिलभेच्च सः ।कार्तवीर्यस्य यो जन्म कीर्तयेदिह नित्यशः ॥५६॥एते ययातिपुत्राणां पञ्च वंशा विशाम्पते ।कीर्तिता लोकवीराणां ये लोकान्धारयन्ति वै ॥५७॥भूतानीव महाराज पञ्च स्थावरजङ्गमान् ।श्रुत्वा पञ्चविसर्गं तु राजा धर्मार्थकोविदः ॥५८॥वशी भवति पञ्चानामात्मजानां तथेश्वरः ।लभेत् पञ्च वरांश्चैव दुर्लभानिह लौकिकान् ॥५९॥आयुः कीर्तिं तथा पुत्रानैश्वर्यं भूमिमेव च ।धारणाच्छ्रवणाच्चैव पञ्चवर्गस्य भारत ॥६०॥क्रोष्टोस्तु शृणु राजेन्द्र वंशमुत्तमपौरुषम्यदोर्वंशधरस्याथ यज्वनः पुण्यकर्मणः ॥६१॥क्रोष्टुर्हि वंशं श्रुत्वेमं सर्वपापैः प्रमुच्यते ।यस्यान्ववायजो विष्णुर्हरिर्वृष्णिकुलोद्वहः ॥६२॥इति श्रीमहाभारते खिलभागे हरिवंशे हरिवंशपर्वणि त्रयस्त्रिंशोऽध्यायः ॥३३ ॥ N/A References : N/A Last Updated : July 12, 2018 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP