संस्कृत सूची|संस्कृत साहित्य|पुराण|हरिवंशपुराणम्|हरिवंश पर्व| त्रयोदशोऽध्यायः हरिवंश पर्व प्रथमोऽध्यायः द्वितीयोऽध्यायः तृतीयोऽध्यायः चतुर्थोऽध्यायः पञ्चमोऽध्यायः षष्ठोऽध्यायः सप्तमोऽध्यायः अष्टमोऽध्यायः नवमोऽध्यायः दशमोऽध्यायः एकादशोऽध्यायः द्वादशोऽध्यायः त्रयोदशोऽध्यायः चतुर्दशोऽध्यायः पञ्चदशोऽध्यायः षोडशोऽध्यायः सप्तदशोऽध्यायः अष्टादशोऽध्यायः एकोनविंशोऽध्यायः विंशोऽध्यायः एकविंशोऽध्यायः त्रयोविंशतितमोऽध्यायः चतुर्विशतितमोऽध्यायः पञ्चविंशतितमोऽध्यायः षडविंशोऽध्यायः सप्तविंशोऽध्यायः अष्टाविंशोऽध्यायः एकोनत्रिंशोऽध्यायः त्रिंशोऽध्यायः एकत्रिंशोऽध्यायः द्वात्रिंशोऽध्यायः त्रयस्त्रिंशोऽध्यायः चतुस्त्रिंशोऽध्यायः पञ्चत्रिंशोऽध्यायः षट्त्रिंशोऽध्यायः सप्तत्रिंशोऽध्यायः अष्टत्रिंशोऽध्यायः एकोनचत्वारिंशोऽध्यायः चत्वारिंशोऽध्यायः एकचत्वारिंशोऽध्यायः द्विचत्वारिंशोऽध्यायः त्रिचत्वारिंशोऽध्यायः चतुश्चत्वारिंशोऽध्यायः पञ्चचत्वारिंशोऽध्यायः षट्चत्वारिंशोऽध्यायः सप्तचत्वारिंशोऽध्यायः अष्टचत्वारिंशोऽध्यायः एकोनपञ्चाशत्तमोऽध्यायः पञ्चाशत्तमोऽध्यायः एकपञ्चाशत्तमोऽध्यायः द्विपञ्चाशत्तमोऽध्यायः त्रिपञ्चाशत्तमोऽध्यायः चतुष्पञ्चाशत्तमोऽध्यायः पञ्चपञ्चाशत्तमोऽध्याय हरिवंश पर्व - त्रयोदशोऽध्यायः महर्षी व्यासांनी रचलेला हा महाभारताचा पुरवणी ग्रंथ आहे. Tags : harivansha puranpuransanskritपुराणसंस्कृतहरिवंश पुराण त्रयोदशोऽध्यायः Translation - भाषांतर त्रिशङ्कोः चरित्रवर्णनं एवं तस्य वंशे हरिश्चन्द्रादीनां उत्पत्तिःवैशम्पायन उवाचसत्यव्रतस्तु भक्त्या च कृपया च प्रतिज्ञया ।विश्वामित्रकलत्रं तद् बभार विनये स्थितः ॥१॥हत्वा मृगान् वराहांश्च महिषांश्च वनेचरान् ।विश्वामित्राश्रमाभ्याशे मांसं वृक्षे बबन्ध सः ॥२॥उपांशुव्रतमास्थाय दीक्षां द्वादशवार्षिकीम् ।पितुर्नियोगादवसत् तस्मिन् वनगते नृपे ॥३॥अयोध्यां चैव राष्ट्रं च तथैवान्तःपुरं मुनिः ।याज्योपाध्यायसम्बन्धाद् वसिष्ठः पर्यरक्षत ॥४॥सत्यव्रतस्तु बाल्याच्च भाविनोऽर्थस्य वा बलात् ।वसिष्ठेऽभ्यधिकं मन्युं धारयामास वै तदा ॥५॥पित्रा तु तं तदा राष्ट्रात् त्यज्यमानं स्वमात्मजम् ।न वारयामास मुनिर्वसिष्ठः कारणेन ह ॥६॥पाणिग्रहणमन्त्राणां निष्ठा स्यात् सप्तमे पदे ।न च सत्यव्रतस्तस्य तमुपांशुमबुध्यत ॥७॥जानन् धर्मं वसिष्ठस्तु न मां त्रातीति भारत ।सत्यव्रतस्तदा रोषं वसिष्ठे मनसाकरोत् ॥८॥गुणबुद्ध्या तु भगवान् वसिष्ठः कृतवांस्तथा ।न च सत्यव्रतस्तस्य तमुपांशुमबुध्यत ॥९॥तस्मिन्नपरितोषो यः पितुरासीन्महात्मनः ।तेन द्वादश वर्षाणि नावर्षत् पाकशासनः ॥१०॥तेन त्विदानीं वहता दीक्षां तां दुर्वहां भुवि ।कुलस्य निष्कृतिस्तात कृता सा वै भवेदिति ॥११॥न तं वसिष्ठो भगवान् पित्रा त्यक्तं न्यवारयत्अभिषेक्ष्याम्यहं पुत्रमस्येत्येवं मतिर्मुनेः ॥१२॥स तु द्वादशवर्षाणि दीक्षां तामुद्वहद् बली ।उपांशुव्रतमास्थाय महत् सत्यव्रतो नृप ॥१३॥अविद्यमाने मांसे तु वसिष्ठस्य महात्मनः ।सर्वकामदुघां दोग्ध्रीं ददर्श स नृपात्मजः ॥१४॥तां वै क्रोधाच्च मोहाच्च श्रमाच्चैव क्षुधार्दितः ।दशधर्मान् गतो राजा जघान जनमेजय ॥१५॥तच्च मांसं स्वयं चैव विश्वामित्रस्य चात्मजान् ।भोजयामास तच्छ्रुत्वा वसिष्ठोऽप्यस्य चुक्रुधे ।क्रुद्धस्तु भगवान् वाक्यमिदमाह नृपात्मजम् ॥१६॥वसिष्ठ उवाचपातयेयमहं क्रूर तव शङ्कुमसंशयम् ।यदि ते द्वाविमौ शङकू न स्यातां वै कृतौ पुनः ॥१७॥पितुश्चापरितोषेण गुरोर्दोग्ध्रीवधेन च ।अप्रोक्षितोपयोगाच्च त्रिविधस्ते व्यतिक्रमः ॥१८॥वैशम्पायन उवाचएवं त्रीण्यस्य शङ्कूनि तानि दृष्ट्वा महातपाः ।त्रिशङ्कुरिति होवाच त्रिशङ्कुरिति स स्मृतः ॥१९॥विश्वामित्रस्तु दाराणामागतो भरणे कृते ।स तु तस्मै वरं प्रादान्मुनिः प्रीतस्त्रिशङ्कवे ॥२०॥छन्द्यमानो वरेणाथ वरं वव्रे नृपात्मजः ।सशरीरो व्रजे स्वर्गमित्येवं याचितो मुनिः ॥२१॥अनावृष्टिभये तस्मिन् गते द्वादशवार्षिके ।राज्येऽभिषिच्य पित्र्ये तु याजयामास तं मुनिः ॥२२॥मिषतां देवतानां च वसिष्ठस्य च कौशिकः ।सशरीरं तदा तं तु दिवमारोपयत् प्रभुः ॥२२॥तस्य सत्यरथा नाम भार्या कैकयवंशजा ।कुमारं जनयामास हरिश्चन्द्रमकल्मषम् ॥२४॥स वै राजा हरिश्चन्द्रस्त्रैशङ्कव इति स्मृतः ।आहर्ता राजसूयस्य स सम्राडिति विश्रुतः ॥२५॥हरिश्चन्द्रस्य पुत्रोऽभूद्रोहितो नाम वीर्यवान् ।येनेदं रोहितपुरं कारितं राज्यसिद्धये ॥२६॥कृत्वा राज्यं स राजर्षिः पालयित्वा त्वथ प्रजाः ।संसारासारतां ज्ञात्वा द्विजेभ्यस्तत्पुरं ददौ ॥२७॥हरितो रोहितस्याथ चञ्चुर्हारीत उच्यते ।विजयश्च सुदेवश्च चञ्चुपुत्रौ बभूवतुः ॥२८॥जेता क्षत्त्रस्य सर्वस्य विजयस्तेन संस्मृतः ।रुरुकस्तनयस्तस्य राजधर्मार्थकोविदः ॥२९॥रुरुकस्य वृकः पुत्रो वृकाद् बाहुस्तु जज्ञिवान् ।शकैर्यवनकाम्बोजैः पारदैः पह्लवैः सह ॥३०॥हैहयास्तालजङ्घाश्च निरस्यन्ति स्म तं नृपम् ।नात्यर्थं धार्मिकस्तात स हि धर्मयुगेऽभवत् ॥३१॥सगरस्तु सुतो बाहोर्जज्ञे सह गरेण च ।और्वस्याश्रममागम्य भार्गवेणाभिरक्षितः ॥३२॥आग्नेयमस्त्रं लब्ध्वा च भार्गवात् सगरो नृपः ।जिगाय पृथिवीं हत्वा तालजङ्घान् सहैहयान् ॥३३॥शकानां पह्लवानां च धर्मं निरसदच्युतः ।क्षत्रियाणां कुरुश्रेष्ठ पारदानां स धर्मवित् ॥३४॥इति श्रीमहाभारते खिलभागे हरिवंशे हरिवंशपर्वणि त्रिशङ्कुचरितकथनं नाम त्रयोदशोऽध्यायः ॥१३॥ N/A References : N/A Last Updated : July 11, 2018 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP