संस्कृत सूची|संस्कृत साहित्य|पुराण|हरिवंशपुराणम्|हरिवंश पर्व| त्रिचत्वारिंशोऽध्यायः हरिवंश पर्व प्रथमोऽध्यायः द्वितीयोऽध्यायः तृतीयोऽध्यायः चतुर्थोऽध्यायः पञ्चमोऽध्यायः षष्ठोऽध्यायः सप्तमोऽध्यायः अष्टमोऽध्यायः नवमोऽध्यायः दशमोऽध्यायः एकादशोऽध्यायः द्वादशोऽध्यायः त्रयोदशोऽध्यायः चतुर्दशोऽध्यायः पञ्चदशोऽध्यायः षोडशोऽध्यायः सप्तदशोऽध्यायः अष्टादशोऽध्यायः एकोनविंशोऽध्यायः विंशोऽध्यायः एकविंशोऽध्यायः त्रयोविंशतितमोऽध्यायः चतुर्विशतितमोऽध्यायः पञ्चविंशतितमोऽध्यायः षडविंशोऽध्यायः सप्तविंशोऽध्यायः अष्टाविंशोऽध्यायः एकोनत्रिंशोऽध्यायः त्रिंशोऽध्यायः एकत्रिंशोऽध्यायः द्वात्रिंशोऽध्यायः त्रयस्त्रिंशोऽध्यायः चतुस्त्रिंशोऽध्यायः पञ्चत्रिंशोऽध्यायः षट्त्रिंशोऽध्यायः सप्तत्रिंशोऽध्यायः अष्टत्रिंशोऽध्यायः एकोनचत्वारिंशोऽध्यायः चत्वारिंशोऽध्यायः एकचत्वारिंशोऽध्यायः द्विचत्वारिंशोऽध्यायः त्रिचत्वारिंशोऽध्यायः चतुश्चत्वारिंशोऽध्यायः पञ्चचत्वारिंशोऽध्यायः षट्चत्वारिंशोऽध्यायः सप्तचत्वारिंशोऽध्यायः अष्टचत्वारिंशोऽध्यायः एकोनपञ्चाशत्तमोऽध्यायः पञ्चाशत्तमोऽध्यायः एकपञ्चाशत्तमोऽध्यायः द्विपञ्चाशत्तमोऽध्यायः त्रिपञ्चाशत्तमोऽध्यायः चतुष्पञ्चाशत्तमोऽध्यायः पञ्चपञ्चाशत्तमोऽध्याय हरिवंश पर्व - त्रिचत्वारिंशोऽध्यायः महर्षी व्यासांनी रचलेला हा महाभारताचा पुरवणी ग्रंथ आहे. Tags : harivansha puranpuransanskritपुराणसंस्कृतहरिवंश पुराण त्रिचत्वारिंशोऽध्यायः Translation - भाषांतर देवेभिः सार्द्धं युद्धाय उद्यतस्य दैत्यसैन्यस्य वर्णनम्वैशम्पायन उवाचततो भयं विष्णुमयं श्रुत्वा दैतेयदानवाः ।उद्योगं विपुलं चक्रुर्युद्धाय युधि दुर्जयाः ॥१॥मयस्तु काञ्चनमयं त्रिनल्वान्तरमव्ययम् ।चतुश्चक्रं विक्रमन्तं सुकल्पितमहायुधम् ॥२॥किङ्किणीजालनिर्घोषं द्वीपिचर्मपरिष्कृतम् ।खचितं रत्नजालैश्च हेमजालैश्च भूषितम् ॥३॥स्वक्षं रथवरोदग्रं सूपस्थानमगोपमम् ।ईहामृगगणाकीर्णं पक्षिभिश्च विराजितम् ।दिव्यास्त्रतूणीरधरं पयोधरनिनादितम् ॥४॥गदापरिघसम्पूर्णं मूर्तिमन्तमिवार्णवम् ।हेमकेयूरवलयं स्वर्णमण्डलकूबरम् ॥५॥सपताकध्वजोदग्रं सादित्यमिव मन्दरम् ।गजेन्द्राम्भोदसदृशं लम्बकेसरवर्चसम् ॥६॥युक्तमृक्षसहस्रेण सहस्राम्बुदनादितम् ।दीप्तमाकाशगं दिव्यं रथं पररथारुजम् ॥७॥अध्यतिष्ठद्रणाकाङ्क्षी मेरुं दीप्तमिवांशुमान् ।तारस्तु क्रोशविस्तारमायसं वायसध्वजम् ॥८॥शैलोत्करसमाकीर्णं नीलाञ्जनचयोपमम् ।काललोहाष्टचरणं लोहेषायुगकूबरम् ।तिमिराङ्गारकिरणं गर्जन्तमिव तोयदम् ॥९॥लोहजालेन महता सगवाक्षेण दंशितम् ।आयसैः परिघैः कीर्णं क्षेपणीयैस्तथाश्मभिः ॥१०॥प्रासैः पाशैश्च विततैरवसक्तैश्च मुद्गरैः ।शोभितं त्रासनीयैश्च तोमरैः सपरश्वधैः ॥११॥उद्यन्तं द्विषतां हेतोर्द्वितीयमिव मन्दरम् ।युक्तं खरसहस्रेण सोऽध्यारोहद्रथोत्तमम् ॥१२॥विरोचनस्तु संक्रुद्धो गदापाणिरवस्थितः ।प्रमुखे तस्य सैन्यस्य दीप्तशृङ्ग इवाचलः ॥१३॥युक्तं हयसहस्रेण हयग्रीवस्तु दानवः ।स्यन्दनं वाहयामास सपत्नानीकमर्दनः ॥१४॥व्यायतं बहुसाहस्रं धनुर्विस्फारयन्महत् ।वराहः प्रमुखे तस्थौ सावरोह इवाचलः ॥१५॥खरस्तु विक्षरन् दर्पान्नेत्राभ्यां रोषजं जलम् ।स्फुरद्दन्तौष्ठवदनः संग्रामं सोऽभ्यकाङ्क्षत ॥१६॥त्वष्टा त्वष्टादशहयं यानमास्थाय दानवः ।व्यूहितो दानवैर्व्यूहैः परिचक्राम वीर्यवान् ॥१७॥विप्रचित्तिसुतः श्वेतः श्वेतकुण्डलभूषणः ।श्वेतशैलप्रतीकाशो युद्धायाभिमुखः स्थितः ॥१८॥अरिष्टो बलिपुत्रस्तु वरिष्ठोऽद्रिशिलायुधैः ।युद्धायातिष्ठदायस्तो धराधर इवापरः ॥१९॥किशोरस्त्वतिसंहर्षात् किशोर इव चोदितः ।अभवद् दैत्यसैन्यस्य मध्ये रविरिवोदितः ॥२०॥लम्बस्तु लम्बमेघाभः प्रलम्बाम्बरभूषणः ।दैत्यव्यूहगतो भाति सनीहार इवांशुमान् ॥२१॥स्वर्भानुर्वक्रयोधी तु दशनौष्ठेक्षणायुधः ।हसंस्तिष्ठति दैत्यानां प्रमुखे स महाग्रहः ॥२२॥अन्ये हयगता भान्ति नागस्कन्धगताः परे ।सिंहव्याघ्रगताश्चान्ये वराहर्क्षगताः परे ॥२३॥केचित् खरोष्ट्रयातारः केचित् तोयदवाहनाः ।नानापक्षिगताश्चान्ये केचित् पवनवाहनाः ॥२४॥पत्तयश्चापरे दैत्या भीषणा विकृताननाः ।एकपादा द्विपादाश्च नर्दन्तो युद्धकाङ्क्षिणः ॥२५॥प्रक्ष्वेडमाना बहवः स्फोटयन्तश्च ते भुजान् ।दृप्तशार्दूलनिर्घोषा नेदुर्दानवपुङ्गवाः ॥२६॥ते गदापरिघैरुग्रैर्धनुर्व्यायामशालिनः ।बाहुभिः परिघाकारैस्तर्जयन्ति स्म देवताः ॥२७॥प्रासैः पाशैश्च खड्गैश्च तोमराङ्कुशपट्टिशैः ।चिक्रीडुस्ते शतघ्नीभिः शतधारैश्च मुद्गरैः ॥२८॥गण्डशैलैश्च शैलैश्च परिघैश्चोत्तमायुधैः ।चक्रैश्च दैत्यप्रवराश्चक्रुरानन्दितं बलम् ॥२९॥एवं तद् दानवं सैन्यं सर्वे युद्धबलोत्कटम् ।देवताभिमुखं तस्थौ मेघानीकमिवोत्थितम् ॥३०॥तदद्भुतं दैत्यसहस्रगाढं वाय्वग्नितोयाम्बुदशैलकल्पम् ।बलं रणौघाभ्युदयावकीर्णं युयुत्सयोन्मत्तमिवावभासे ॥३१॥इति श्रीमहाभारते खिलभागे हरिवंशे हरिवंशपर्वणि त्रिचत्वारिंशोऽध्यायः ॥४३॥ N/A References : N/A Last Updated : July 12, 2018 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP