संस्कृत सूची|संस्कृत साहित्य|पुराण|हरिवंशपुराणम्|हरिवंश पर्व| तृतीयोऽध्यायः हरिवंश पर्व प्रथमोऽध्यायः द्वितीयोऽध्यायः तृतीयोऽध्यायः चतुर्थोऽध्यायः पञ्चमोऽध्यायः षष्ठोऽध्यायः सप्तमोऽध्यायः अष्टमोऽध्यायः नवमोऽध्यायः दशमोऽध्यायः एकादशोऽध्यायः द्वादशोऽध्यायः त्रयोदशोऽध्यायः चतुर्दशोऽध्यायः पञ्चदशोऽध्यायः षोडशोऽध्यायः सप्तदशोऽध्यायः अष्टादशोऽध्यायः एकोनविंशोऽध्यायः विंशोऽध्यायः एकविंशोऽध्यायः त्रयोविंशतितमोऽध्यायः चतुर्विशतितमोऽध्यायः पञ्चविंशतितमोऽध्यायः षडविंशोऽध्यायः सप्तविंशोऽध्यायः अष्टाविंशोऽध्यायः एकोनत्रिंशोऽध्यायः त्रिंशोऽध्यायः एकत्रिंशोऽध्यायः द्वात्रिंशोऽध्यायः त्रयस्त्रिंशोऽध्यायः चतुस्त्रिंशोऽध्यायः पञ्चत्रिंशोऽध्यायः षट्त्रिंशोऽध्यायः सप्तत्रिंशोऽध्यायः अष्टत्रिंशोऽध्यायः एकोनचत्वारिंशोऽध्यायः चत्वारिंशोऽध्यायः एकचत्वारिंशोऽध्यायः द्विचत्वारिंशोऽध्यायः त्रिचत्वारिंशोऽध्यायः चतुश्चत्वारिंशोऽध्यायः पञ्चचत्वारिंशोऽध्यायः षट्चत्वारिंशोऽध्यायः सप्तचत्वारिंशोऽध्यायः अष्टचत्वारिंशोऽध्यायः एकोनपञ्चाशत्तमोऽध्यायः पञ्चाशत्तमोऽध्यायः एकपञ्चाशत्तमोऽध्यायः द्विपञ्चाशत्तमोऽध्यायः त्रिपञ्चाशत्तमोऽध्यायः चतुष्पञ्चाशत्तमोऽध्यायः पञ्चपञ्चाशत्तमोऽध्याय हरिवंश पर्व - तृतीयोऽध्यायः महर्षी व्यासांनी रचलेला हा महाभारताचा पुरवणी ग्रंथ आहे. Tags : harivansha puranpuransanskritपुराणसंस्कृतहरिवंश पुराण तृतीयोऽध्यायः Translation - भाषांतर दक्ष प्रजापतिना सृष्ट्याः विस्तारः, नारदेन दक्षस्य पुत्राणां विरक्तिकरणं, दक्षस्य षष्टिकन्यकानां संततिवर्णनम्जनमेजय उवाचदेवानां दानवानां च गन्धर्वोरगरक्षसाम् ।उत्पत्तिं विस्तरेणेमां वैशम्पायन कीर्तय ॥१॥वैशम्पायन उवाचप्रजाः सृजेति व्यादिष्टः पूर्वं दक्षः स्वयम्भुवा ।यथा ससर्ज भूतानि तथा शृणु महीपते ॥२॥मानसान्येव भूतानि पूर्वमेवासृजत्प्रभुः ।ऋषीन्देवान् सगन्धर्वानसुरानथ राक्षसान् ।यक्षभूतपिशाचांश्च वयःपशुसरीसृपान् ॥३॥यदास्य तास्तु मानस्यो न व्यवर्द्धन्त वै प्रजाः ।अपध्याता भगवता महादेवेन धीमता ॥४॥ततः संचिन्त्य तु पुनः प्रजाहेतोः प्रजापतिः ।स मैथुनेन धर्मेण सिसृक्षुर्विविधाः प्रजाः ॥५॥असिक्नीमावहत् पत्नीं वीरणस्य प्रजापतेः ।सुतां सुतपसा युक्तां महतीं लोकधारिणीम् ॥६॥अथ पुत्रसहस्राणि वीरण्यां पञ्च वीर्यवान् ।असिक्न्यां जनयामास दक्ष एव प्रजापतिः॥७॥तांस्तु दृष्ट्वा महाभागान् संविवर्धयिषून् प्रजाः ।देवर्षिः प्रियसंवादो नारदः प्राब्रवीदिदम् ।नाशाय वचनं तेषां शापायैवात्मनस्तथा ॥८॥यं कश्यपः सुतवरं परमेष्ठी व्यजीजनत् ।दक्षस्य वै दुहितरि दक्षशापभयान्मुनिः ॥९॥पूर्वं स हि समुत्पन्नो नारदः परमेष्ठिना ।असिक्न्यामथ वीरण्यां भूयो देवर्षिसत्तमः ।तं भूयो जनयामास पितेव मुनिपुङ्गवम् ॥१०॥तेन दक्षस्य पुत्रा वै हर्यश्वा इति विश्रुताः ।निर्मथ्य नाशिताः सर्वे विधिना च न संशयः ॥११॥तस्योद्यतस्तदा दक्षो नाशायामितविक्रमः ।महर्षीन् पुरतः कृत्वा याचितः परमेष्ठिना ॥१२॥ततोऽभिसंधिं चक्रुस्ते दक्षस्तु परमेष्ठिना ।कन्यायां नारदो मह्यं तव पुत्रो भवेदिति ॥१३॥ततो दक्षस्तु तां प्रादात्कन्यां वै परमेष्ठिने ।स तस्यां नारदो जज्ञे दक्षशापभयादृषिः ॥१४॥जनमेजय उवाचकथं विनाशिताः पुत्रा नारदेन महर्षिणा ।प्रजापतेर्द्विजश्रेष्ठ श्रोतुमिच्छामि तत्त्वतः ॥१५ ।वैशम्पायन उवाचदक्षस्य पुत्रा हर्यश्वा विवर्धयिषवः प्रजाः ।समागता महावीर्या नारदस्तानुवाच ह ॥१६॥बालिशा बत यूयं वै नास्या जानीथ वै भुवः ।प्रमाणं स्रष्टुकामाः स्थ प्रजाः प्राचेतसात्मजाः ।अन्तरूर्ध्वमधश्चैव कथं स्रक्ष्यथ वै प्रजाः ॥१७॥ते तु तद्वचनं श्रुत्वा प्रयाताः सर्वतोदिशम् ।प्रमाणं द्रष्टुकामस्ते गताः प्राचेतसात्मजाः ॥१८॥वायोरनशनं प्राप्य गतास्ते वै पराभवम् ।अद्यापि न निवर्तन्ते समुद्रेभ्य इवापगाः ॥१९॥हर्यश्वेष्वथ नष्टेषु दक्षः प्राचेतसः पुनः ।वैरण्यामेव पुत्राणां सहस्रमसृजत् प्रभुः ॥२०॥विवर्धयिषवस्ते तु शबलाश्वाः प्रजास्तदा ।पूर्वोक्तं वचनं तात नारदेनैव नोदिताः ॥२१॥अन्योन्यमूचुस्ते सर्वे सम्यगाह महामुनिः ।भ्रातॄणां पदवीं ज्ञातुं गन्तव्यं नात्र संशयः ॥२२॥ज्ञात्वा प्रमाणं पृथ्व्याश्च सुखं स्रक्ष्यामहे प्रजाः ।एकाग्राः स्वस्थमनसा यथावदनुपूर्वशः ॥२३॥तेऽपि तेनैव मार्गेण प्रयाताः सर्वतोदिशम् ।अद्यापि न निवर्तन्ते समुद्रेभ्य इवापगाः ॥२४॥नष्टेषु शबलाश्वेषु दक्षः क्रुद्धोऽवदद् वचः ।नारदं नाशमेहीति गर्भवासं वसेति च ॥२५॥तदाप्रभृति वै भ्राता भ्रातुरन्वेषणं नृप ।प्रयातो नश्यति क्षिप्रं तन्न कार्यं विपश्चिता ॥२६॥तांश्चापि नष्टान् विज्ञाय पुत्रान् दक्षः प्रजापतिः ।षष्टिं भूयोऽसृजत् कन्या वीरण्यामिति नः श्रुतम्॥तास्तदा प्रतिजग्राह भार्यार्थे कश्यपः प्रभुः ।सोमो धर्मश्च कौरव्य तथैवान्ये महर्षयः ॥२८॥ददौ स दश धर्माय कश्यपाय त्रयोदश ।सप्तविंशतिं सोमाय चतस्रोऽरिष्टनेमिने ॥२९॥द्वे चैव भृगुपुत्राय द्वे चैवाङ्गिरसे तथा ।द्वे कृशाश्वाय विदुषे तासां नामानि मे शृणु ॥३०॥अरुन्धती वसुर्यामी लभ्या भानुर्मरुत्वती ।संकल्पा च मुहूर्ता च साध्या विश्वा च भारत ।धर्मपत्न्यो दश त्वेतास्तास्वपत्यानि मे शृणु ॥३१॥विश्वेदेवाश्च विश्वायाः साध्यान् साध्या व्यजायत ।मरुत्वत्यां मरुत्वन्तो वसोस्तु वसवस्तथा ॥३२॥भानोस्तु भानवस्तात मुहूर्ताया मुहूर्तजाः ॥३३॥लम्बायाश्चैव घोषोऽथ नागवीथी च यामिजा ।पृथिवीविषयं सर्वमरुन्धत्यां व्यजायत ॥३४॥संकल्पायास्तु सर्वात्मा जज्ञे संकल्प एव हि ।गवीथ्याश्च यामिन्या वृषलम्बा व्यजायत ॥३५॥राजन् सोमपत्न्यस्तु दक्षः प्राचेतसो ददौ ।सर्वा नक्षत्रनाम्न्यस्ता ज्यौतिषे परिकीर्तिताः ॥३६॥ये' त्वन्ये ख्यातिमन्तो वै देवा ज्योतिःपुरोगमाः ।वसवोऽष्टौ समाख्यातास्तेषां वक्ष्यामि विस्तरम् ॥३७॥आपो ध्रुवश्च सोमश्च धरश्चैवानिलानलौ ।प्रत्यूषश्च प्रभासश्च वसवो नामभिः स्मृताः ॥३८॥आपस्य पुत्रो वैतण्ड्यः श्रमः शान्तो मुनिस्तथा ।ध्रुवस्य पुत्रो भगवान् कालो लोकप्रकालनः ॥३९॥सोमस्य भगवान् वर्चा वर्चस्वी येन जायते ।धरस्य पुत्रो द्रविणो हुतहव्यवहस्तथा ।मनोहरायाः शिशिरः प्राणोऽथ रमणस्तथा ॥४०॥अनिलस्य शिवा भार्या यस्याः पुत्रो मनोजवः ।अविज्ञातगतिश्चैव द्वौ पुत्रावनिलस्य तु ॥४१॥अग्निपुत्रः कुमारस्तु शरस्तम्बे श्रियान्वितः ।तस्य शाखो विशाखश्च नैगमेयश्च पृष्ठजाः ॥४२॥अपत्यं कृत्तिकानां तु कार्तिकेय इति स्मृतः ।स्कन्दः सनत्कुमारश्च सृष्टः पादेन तेजसः ॥४३॥प्रत्यूषस्य विदुः पुत्रमृष्टिं नाम्ना च देवलम् ।द्वौ पुत्रौ देवलस्यापि क्षमावन्तौ तपस्विनौ ॥४४॥बृहस्पतेस्तु भगिनी वरस्त्री ब्रह्मचारिणी ।योगसिद्धा जगत् कृत्स्नमसक्ता विचचार ह ॥४५॥प्रभासस्य च सा भार्या वसूनामष्टमस्य च ।विश्वकर्मा महाभागस्तस्यां जज्ञे प्रजापतिः ॥४६॥कर्ता शिल्पसहस्राणां त्रिदशानां च वर्धकिः ।भूषणानां च सर्वेषां कर्ता शिल्पवतां वरः ॥४७॥यः सर्वासां विमानानि देवतानां चकार ह ।मनुष्याश्चोपजीवन्ति यस्य शिल्पं महात्मनः ॥४८॥सुरभी कश्यपाद् रुद्रानेकादश विनिर्ममे ।महादेवप्रसादेन तपसा भाविता सती ॥४९॥अजैकपादहिर्बुध्न्यस्त्वष्टा रुद्राश्च भारत ।त्वष्टुश्चैवात्मजः श्रीमान् विश्वरूपो महायशाः ॥५०॥हरश्च बहुरूपश्च त्र्यम्बकश्चापराजितः ।वृषाकपिश्च शम्भुश्च कपर्दी रैवतस्तथा ॥५१॥मृगव्याधश्च सर्पश्च कपाली च विशाम्पते ।एकादशैते कथिता रुद्रास्त्रिभुवनेश्वराः ॥५२॥शतं त्वेवं समाख्यातं रुद्राणाममितौजसाम् ।पुराणे भरतश्रेष्ठ यैर्व्याप्ताः सचराचराः ॥५३॥लोका भरतशार्दूल कश्यपस्य निबोध मे ।अदितिर्दितिर्दनुश्चैव अरिष्टा सुरसा खशा ॥५४॥सुरभिर्विनता चैव ताम्रा क्रोधवशा इरा ।कद्रुर्मुनिश्च राजेन्द्र तास्वपत्यानि मे शृणु ॥५५॥पूर्वमन्वन्तरे श्रेष्ठा द्वादशासन् सुरोत्तमाः ।तुषिता नाम तेऽन्योन्यमूचुर्वैवस्वतेऽन्तरे ॥५६॥उपस्थितेऽतियशसि चाक्षुषस्यान्तरे मनोः ।हितार्थं सर्वसत्त्वानां समागम्य परस्परम् ॥५७॥आगच्छत द्रुतं देवा अदितिं सम्प्रविश्य वै ।मन्वन्तरे प्रसूयामस्तन्नः श्रेयो भविष्यति ॥५८॥वैशम्पायन उवाचएवमुक्त्वा तु ते सर्वे चाक्षुषस्यान्तरे मनोः ।मारीचात् कश्यपाज्जातास्तेऽदित्या दक्षकन्यया ॥५९॥तत्र विष्णुश्च शक्रश्च जज्ञाते पुनरेव हि ।अर्यमा चैव धाता च त्वष्टा पूषा च भारत ॥६०॥विवस्वान् सविता चैव मित्रो वरुण एव च ।अंशो भगश्चातितेजा आदित्या द्वादश स्मृताः ॥६१॥चाक्षुषस्यान्तरे पूर्वमासन् ये तुषिताः सुराः ।वैवस्वतेऽन्तरे ते वै आदित्या द्वादश स्मृताः ॥६२॥सप्तविंशतिर्याः प्रोक्ताः सोमपत्न्योऽथ सुव्रताः ।तासामपत्याभ्यभवन् दीप्तान्यमिततेजसाम् ॥६३॥अरिष्टनेमिपन्तीनामपत्यानीह षोडश ।बहुपुत्रस्य विदुषश्चतस्रो विद्युतः स्मृताः ॥६४४प्रत्यङ्गिरसजाः श्रेष्ठा ऋचो ब्रह्मर्षिसत्कृताः ।कृशाश्वस्य तु राजर्षेर्देवप्रहरणानि च ॥६५॥एते युगसहस्रान्ते जायन्ते पुनरेव हि ।सर्वदेवगणास्तात त्रयस्त्रिंशत् तु कामजाः ॥६६॥तेषामपि च राजेन्द्र निरोधोत्पत्तिरुच्यते ॥६७॥यथा सूर्यस्य गगने उदयास्तमने इह ।एवं देवनिकायस्ते सम्भवन्ति युगे युगे ॥६८॥दित्याः पुत्रद्वयं जज्ञे कश्यपादिति नः श्रुतम् ।हिरण्यकशिपुश्चैव हिरण्याक्षश्च वीर्यवान् ॥६९॥सिंहिका चाभवत् कन्या विप्रचित्तेः परिग्रहः ।सैंहिकेया इति ख्यातास्तस्याः पुत्रा महाबलाः ।गणैश्च सह राजेन्द्र दशसाहस्रमुच्यते ॥७०॥तेषां पुत्राश्च पौत्राश्च शतशोऽथ सहस्रशः ।असंख्याता महाबाहो हिरण्यकशिपोः शृणु ॥७१॥हिरण्यकशिपोः पुत्राश्चत्वारः प्रथितौजसः ।अनुह्रादश्च ह्रादश्च प्रह्रादश्चैव वीर्यवान् ॥७२॥संह्रादश्च चतुर्थोऽभूद्ध्रादपुत्रो ह्रदस्तथा ।संह्रादपुत्रः सुन्दश्च निसुन्दस्तावुभौ स्मृतौ ॥७३ ।अनुह्रादसुतौ ह्यायुः शिबिकालस्तथैव ह ।विरोचनश्च प्राह्रादिर्बलिर्जज्ञे विरोचनात् ॥७४॥बले पुत्रशतं त्वासीद् बाणज्येष्ठं नराधिप ।धृतराष्ट्रश्च सूर्यश्च चन्द्रमाश्चेन्द्रतापनः ॥७५॥कुम्भनाभो गर्दभाक्षः कुक्षिरित्येवमादयः ।बाणस्तेषामतिबलो ज्येष्ठः पशुपतेः प्रियः ॥७६॥पुराकल्पे हि बाणेन प्रसाद्योमापतिं प्रभुम् ।पार्श्वतो विहरिष्यामि इत्येवं याचितो वरः ॥७७॥बाणस्य चेन्द्रदमनो लोहित्यामुपपद्यत ।गणास्तथासुरा राजञ्छतसाहस्रसम्मिताः ॥७८॥हिरण्याक्षसुताः पञ्च विद्वांसः सुमहाबलाः ।झर्झरः शकुनिश्चैव भूतसंतापनस्तथा ।महानाभश्च विक्रान्तः कालनाभस्तथैव च ॥७९॥अभवन् दनुपुत्राश्च शतं तीव्रपराक्रमाः ।तपस्विनो महावीर्याः प्राधान्येन निबोध तान् ॥८०॥द्विमूर्धा शकुनिश्चैव तथा शङ्कुशिरा विभुः ।शङ्कुकर्णो विराधश्च गवेष्ठी दुन्दुभिस्तथा ।अयोमुखः शम्बरश्च कपिलो वामनस्तथा ॥८१॥मरीचिर्मघवांश्चैव इरा शङ्कुशिरा वृकः ।विक्षोभणश्च केतुश्च केतुवीर्यशतह्रदौ ॥८२॥इन्द्रजित् सत्यजिच्चैव वज्रनाभस्तथैव च ।महानाभश्च विक्रान्तः कालनाभस्तथैव च ॥८३॥एकचक्रो महाबाहुस्तारकश्च महाबलः ।वैश्वानरः पुलोमा च विद्रावणमहासुरौ ॥८४॥स्वर्भानुर्वृषपर्वा च तुहुण्डश्च महासुरः ।सूक्ष्मश्चैवातिचन्द्रश्च ऊर्णनाभो महागिरिः ॥८५॥असिलोमा च केशी च शठश्च बलको मदः ।तथा गगनमूर्धा च कुम्भनाभो महासुरः ॥८६॥प्रमदो मयश्च कुपथो हयग्रीवश्च वीर्यवान् ।वैसृपः सविरूपाक्षः सुपथोऽथ हराहरौ ॥८७॥हिरण्यकशिपुश्चैव शतमायश्च शम्बरः ।शरभः शलभश्चैव विप्रचित्तिश्च वीर्यवान् ॥८८॥एते सर्वे दनोः पुत्राः कश्यपादभिजज्ञिरे ।विप्रचित्तिप्रधानास्ते दानवाः सुमहाबलाः ॥८९॥एतेषां यदपत्यं तु तन्न शक्यं नराधिप ।प्रसंख्यातुं महीपाल पुत्रपौत्राद्यनन्तकम् ॥९०॥स्वर्भानोस्तु प्रभा कन्या पुलोम्नश्च सुतात्रयम् ।उपदानवी हयशिराः शर्मिष्ठा वार्षपर्वणी ॥९१॥पुलोमा कालिका चैव वैश्वानरसुते उभे ।बह्वपत्ये महावीर्ये मारीचेस्तु परिग्रहः ॥९२॥तयोः पुत्रसहस्राणि षष्टिं दानवनन्दनान् ।चतुर्दशशतानन्यान् हिरण्यपुरवासिनः ॥९३॥मारीचिर्जनयामास महता तपसान्वितः ।पौलोमाः कालकेयाश्च दानवास्ते महाबलाः ॥९४॥अवध्या देवतानां च हिरण्यपुरवासिनः ।कृताः पितामहेनाजौ निहताः सव्यसाचिना ॥९५॥प्रभाया नहुषः पुत्रः सृंजयश्च शचीसुतः ।पूरुं जज्ञेऽथ शर्मिष्ठा दुष्यन्तमुपदानवी ॥९६॥ततोऽपरे महावीर्या दानवास्त्वतिदारुणाः ।सिंहिकायामथोत्पन्ना विप्रचित्तेः सुतास्तदा ॥९७॥दैत्यदानवसंयोगाज्जातास्तीव्रपराक्रमाः ।सैंहिकेया इति ख्यातास्त्रयोदश महाबलाः॥९८॥व्यंशः शल्यश्च बलिनौ नभश्चैव महाबलः ।वातापिर्नमुचिश्चैव इल्वलः खसृमस्तथा ॥९९॥आञ्जिको नरकश्चैव कालनाभस्तथैव च ।शुकः पोतरणश्चैव वज्रनाभश्च वीर्यवान्॥१००॥राहुर्ज्येष्ठस्तु तेषां वै सूर्यचन्द्रविमर्दनः ।मूकश्चैव तुहुण्डश्च ह्रादपुत्रौ बभूवतुः ।१०१ ।मारीचः सुन्दपुत्रश्च ताडकायां व्यजायत ।शिवमाणस्तथा चैव सुरकल्पश्च वीर्यवान् ।१०२ ।एते वै दानवाः श्रेष्ठा दनुवंशविवर्द्धनाः ।तेषां पुत्राश्च पौत्राश्च शतशोऽथ सहस्रशः ॥१०३॥संह्रादस्य तु दैत्यस्य निवातकवचाः कुले ।समुत्पन्नाः सुतपसा महान्तो भावितात्मनः॥१०४॥तिस्रः कोट्यः सुतास्तेषां मणिमत्यां निवासिनाम् ।तेऽप्यवध्यास्तु देवानामर्जुनेन निपातिताः॥१०५॥षट् सुताः सुमहासत्त्वास्ताम्रायाः परिकीर्तिताः ।काकी श्येनी च भासी च सुग्रीवी शुचि गृध्रिका ॥१०६॥काकी काकानजनयदुलूकी प्रत्युलूककान् ।श्येनी श्येनांस्तथा भासी भासान् गृध्रांश्च गृध्र्यपि॥१०७॥शुचिरौदकान् पक्षिगणान् सुग्रीवी तु परंतप ।अश्वानुष्ट्रान् गर्दभांश्च ताम्रावंशः प्रकीर्तितः ॥१०८॥विनतायास्तु पुत्रौ द्वावरुणो गरुडस्तथा ।सुपर्णः पततां श्रेष्ठो दारुणः स्वेन कर्मणा ॥१०९॥सुरसायाः सहस्रं तु सर्पाणाममितौजसाम् ।अनेकशिरसां तात खेचराणां महात्मनाम्॥११०॥काद्रवेयाश्च बलिनः सहस्रममितौजसः ।सुपर्णवशगा नागा जङिरेऽनेकमस्तकाः ॥१११॥तेषां प्रधानाः सततं शेषवासुकितक्षकाः ।ऐरावतो महापद्मः कम्बलाश्वतरावुभौ ॥११२॥एलापत्रस्तथा शंखः कर्कोटकधनंजयौ ।महानीलमहाकर्णौ धृतराष्ट्रबलाहकौ ॥११३॥कुहरः पुष्पदष्ट्रश्च दुर्मुखः सुमुखस्तथा ।शङ्खश्च शङ्खपालश्च कपिलो वामनस्तथा ॥११४॥नहुषः शङ्खरोमा च मणिरित्येवमादयः ।तेषां पुत्राश्च पौत्राश्च गरुडेन निपातिताः॥११५॥चतुर्दश सहस्राणि क्रूराणां पवनाशिनाम् ।गणं क्रोधवशं विद्धि तस्य सर्वे च दंष्ट्रिणः ॥११६॥स्थलजाः पक्षिणोऽब्जाश्च धरायाः प्रसवाः स्मृताः ।गास्तु वै जनयामास सुरभिर्महिषांस्तथा ॥११७॥इरा वृक्षलतावल्लीस्तृणजातीश्च सर्वशः ।कशा तु यक्षरक्षांसि मुनिरप्सरसस्तथा ॥११८॥अरिष्टा तु महासत्त्वान् गन्धर्वानमितौजसः ।एते कश्यपदायादाः कीर्तिताः स्थाणुजंगमाः॥११९॥तेषां पुत्राश्च पौत्राश्च शतशोऽथ सहस्रशः ।एष मन्वन्तरे तात सर्गः स्वारोचिषे स्मृतः ॥१२०॥वैवस्वते तु महति वारुणे वितते क्रतौ ।जुह्वानस्य ब्रह्मणो वै प्रजासर्गं इहोच्यते ॥१२१॥पूर्वं यत्र तु ब्रह्मर्षीनुत्पन्नान् सप्त मानसान् ।पुत्रत्वे कल्पयामास स्वयमेव पितामहः ॥१२२॥ततो विरोधे देवानां दानवानां च भारत ।दितिर्विनष्टपुत्रा वै तोषयामास कश्यपम् ॥१२३॥तां कश्यपः प्रसन्नात्मा सम्यगाराधितस्तया ।वरेण च्छन्दयामास सा च वव्रे वरं ततः॥१२४॥पुत्रमिन्द्रवधार्थाय समर्थममितौजसम् ।स च तस्यै वरं प्रादात् प्रार्थितं सुमहातपाः ॥१२५॥दत्त्वा च वरमव्यग्रो मारीचस्तामभाषत ।भविष्यति सुतस्तेऽयं यद्येवं धारयिष्यसि॥१२६॥इन्द्रं सुतो निहन्ता ते गर्भं वै शरदां शतम् ।यदि धारयसे शौचं तत्परा व्रतमास्थिता ॥१२७॥तथेत्यभिहितो भर्ता तया देव्या महातपाः ।धारयामास गर्भं तु शुचिः सा वसुधाधिप ॥१२८॥ततोऽभ्युपागमद् दित्यां गर्भमाधाय कश्यपः ।रोचयन् वै गणश्रेष्ठं देवानाममितौजसाम् ॥१२९॥तेजः सम्भृत्य दुर्धर्षमवध्यममरैरपि ।जगाम पर्वतायैव तपसे शंसितव्रतः ॥१३०॥तस्याश्चैवान्तरप्रेप्सुरभवत् पाकशासनः ।ऊने वर्षशते चास्या ददर्शान्तरमच्युतः ॥१३१॥अकृत्वा पादयोः शौचं दितिः शयनमाविशत् ।निद्रां च कारयामास तस्याः कुक्षिं प्रविश्य सः ॥१३२॥वज्रपाणिस्ततो गर्भं सप्तधा तं न्यकृन्तत ।स पाट्यमानो वज्रेण गर्भस्तु प्ररुरोद ह ॥१३३॥मा रोदीरिति तं शक्रः पुनः पुनरथाब्रवीत् ।सोऽभवत् सप्तधा गर्भस्तमिन्द्रो रुषितः पुनः ॥१३४॥एकैकं सप्तधा चक्रे वज्रेणैवारिकर्शनः ।मरुतो नाम देवास्ते बभूवुर्भरतर्षभ ॥१३५॥यथैवोक्तं मघवता तथैव मरुतोऽभवन् ।देवा एकोनपञ्चाशत् सहाया वज्रपाणिनः ॥१३६॥तेषामेवं प्रवृद्धानां भूतानां जनमेजय ।रोचयन् वै गणश्रेष्ठं देवानाममितौजसाम् ॥१३७॥निकायेषु निकायेषु हरिः प्रादात् प्रजापतीन् ।क्रमशस्तानि राज्यानि पृथुपूर्वाणि भारत ॥१३८॥स हरिः पुरुषो वीरः कृष्णो जिष्णुः प्रजापतिः ।पर्जन्यस्तपनोऽव्यक्तस्तस्य सर्वमिदं जगत् ॥१३९॥भूतसर्गमिमं सम्यग्जानतो भरतर्षभ ।मरुतां च शुभं जन्म शृण्वतः पठतोऽपि वा ।नावृत्तिभयमस्तीह परलोकभयं कुतः ॥१४०॥इति श्रीमहाभारते खिलभागे हरिवंशे हरिवंशपर्वणि मरुदुत्पत्तिकथने तृतीयोऽध्यायः ॥३॥ N/A References : N/A Last Updated : July 11, 2018 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP