संस्कृत सूची|संस्कृत साहित्य|पुराण|हरिवंशपुराणम्|हरिवंश पर्व| पञ्चमोऽध्यायः हरिवंश पर्व प्रथमोऽध्यायः द्वितीयोऽध्यायः तृतीयोऽध्यायः चतुर्थोऽध्यायः पञ्चमोऽध्यायः षष्ठोऽध्यायः सप्तमोऽध्यायः अष्टमोऽध्यायः नवमोऽध्यायः दशमोऽध्यायः एकादशोऽध्यायः द्वादशोऽध्यायः त्रयोदशोऽध्यायः चतुर्दशोऽध्यायः पञ्चदशोऽध्यायः षोडशोऽध्यायः सप्तदशोऽध्यायः अष्टादशोऽध्यायः एकोनविंशोऽध्यायः विंशोऽध्यायः एकविंशोऽध्यायः त्रयोविंशतितमोऽध्यायः चतुर्विशतितमोऽध्यायः पञ्चविंशतितमोऽध्यायः षडविंशोऽध्यायः सप्तविंशोऽध्यायः अष्टाविंशोऽध्यायः एकोनत्रिंशोऽध्यायः त्रिंशोऽध्यायः एकत्रिंशोऽध्यायः द्वात्रिंशोऽध्यायः त्रयस्त्रिंशोऽध्यायः चतुस्त्रिंशोऽध्यायः पञ्चत्रिंशोऽध्यायः षट्त्रिंशोऽध्यायः सप्तत्रिंशोऽध्यायः अष्टत्रिंशोऽध्यायः एकोनचत्वारिंशोऽध्यायः चत्वारिंशोऽध्यायः एकचत्वारिंशोऽध्यायः द्विचत्वारिंशोऽध्यायः त्रिचत्वारिंशोऽध्यायः चतुश्चत्वारिंशोऽध्यायः पञ्चचत्वारिंशोऽध्यायः षट्चत्वारिंशोऽध्यायः सप्तचत्वारिंशोऽध्यायः अष्टचत्वारिंशोऽध्यायः एकोनपञ्चाशत्तमोऽध्यायः पञ्चाशत्तमोऽध्यायः एकपञ्चाशत्तमोऽध्यायः द्विपञ्चाशत्तमोऽध्यायः त्रिपञ्चाशत्तमोऽध्यायः चतुष्पञ्चाशत्तमोऽध्यायः पञ्चपञ्चाशत्तमोऽध्याय हरिवंश पर्व - पञ्चमोऽध्यायः महर्षी व्यासांनी रचलेला हा महाभारताचा पुरवणी ग्रंथ आहे. Tags : harivansha puranpuransanskritपुराणसंस्कृतहरिवंश पुराण पञ्चमोऽध्यायः Translation - भाषांतर पृथोरुपाख्यानम् -- अत्याचारकरणेन वेनस्य नाशः, पृथोः जन्म एवं चरित्रम्वैशम्पायन उवाचआसीद् धर्मस्य गोप्ता वै पूर्वमत्रिसमः प्रभुः ।अत्रिवंशसमुत्पन्नस्त्वङ्गो नाम प्रजापतिः ॥१॥तस्य पुत्रोऽभवद् वेनो नात्यर्थं धर्मकोविदः ।जातो मृत्युसुतायां वै सुनीथायां प्रजापतिः ॥२॥स मातामहदोषेण वेनः कालात्मजाऽऽत्मजः ।स्वधर्मं पृष्ठतः कृत्वा कामाल्लोभेष्ववर्तत ॥३॥मर्यादां स्थापयामास धर्मापेतां स पार्थिवः ।वेदधर्मानतिक्रम्य सोऽधर्मनिरतोऽभवत् ॥४॥निःस्वाध्यायवषट्कारास्तस्मिन् राजनि शासति ।प्रवृत्तं न पपुः सोमं हुतं यज्ञेषु देवताः ॥५॥न यष्टव्यं न होतव्यमिति तस्य प्रजापतेः ।आसीत् प्रतिज्ञा क्रूरेयं विनाशे प्रत्युपस्थिते ॥६॥अहमिज्यश्च यष्टा च यज्ञश्चेति कुरूद्वह ।मयि यशो विधातव्यो मयि होतव्यमित्यपि ॥७॥तमतिक्रान्तमर्यादमाददानमसाम्प्रतम् ।ऊचुर्महर्षयः सर्वे मरीचिप्रमुखास्तदा ॥८॥वयं दीक्षां प्रवेक्ष्यामः संवत्सरगणान् बहून् ।अधर्मं कुरु मा वेन नैष धर्मः सनातनः ॥९॥निधनेऽत्र प्रसूतस्त्वं प्रजापतिरसंशयम् ।प्रजाश्च पालयिष्येऽहमिति ते समयः कृतः ॥१०॥तांस्तदा ब्रुवतः सर्वान् महर्षीनब्रवीत् तदा ।वेनः प्रहस्य दुर्बुद्धिरिममर्थमनर्थवित् ॥११॥वेन उवाचस्रष्टा धर्मस्य कश्चान्यः श्रोतव्यं कस्य वै मया ।श्रुतवीर्यतपःसत्यैर्मया वा कः समो भुवि ॥१२॥प्रभवं सर्वभूतानां धर्माणां च विशेषतः ।सम्मूढा न विदुर्नूनं भवन्तो मामचेतसः ॥१३॥इच्छन् दहेयं पृथिवीं प्लावयेयं तथा जलैः ।खं भुवं चैव रुन्धेयं नात्र कार्या विचारणा ॥१४॥यदा न शक्यते मोहादवलेपाच्च पार्थिवः ।अनुनेतुं तदा वेनस्ततः क्रुद्धा महर्षयः ॥१५॥निगृह्य तं महात्मानो विस्फुरन्तं महाबलम् ।ततोऽस्य सव्यमूरुं ते ममन्थुर्जातमन्यवः ॥१६॥तस्मिंस्तु मथ्यमाने वै राज्ञ ऊरौ प्रजज्ञिवान् ।ह्रस्वाऽतिमात्रः पुरुषः कृष्णश्चाति बभूव ह ॥१७॥स भीतः प्राञ्जलिर्भूत्वा स्थितवाञ्जनमेजय ।तमत्रिर्विह्वलं दृष्ट्वा निषीदेत्यब्रवीत् तदा ॥१८॥निषादवंशकर्तासौ बभूव वदतां वर ।धीवरानसृजच्चाथ वेनकल्मषसम्भवान् ॥१९॥ये चान्ये विन्ध्यनिलयास्तुषारास्तुम्बरास्तथा ।अधर्मरुचयो ये च विद्धि तान् वेनसम्भवान् ॥२०॥ततः पुनर्महात्मानः पाणिं वेनस्य दक्षिणम् ।अरणीमिव संरब्धा ममन्थुस्ते महर्षयः ॥२१॥पृथुस्तस्मात्समुत्तस्थौ कराज्ज्वलनसंनिभः ।दीप्यमानः स्ववपुषा साक्षादग्निरिव ज्वलन् ॥२२॥स धन्वी कवची जातः पृथुरेव महायशाः ।आद्यमाजगवं नाम धनुर्गृह्य महारवम् ।शरांश्च दिव्यान् रक्षार्थं कवचं च महाप्रभम् ॥२३॥तस्मिञ्जातेऽथ भूतानि सम्प्रहृष्टानि सर्वशः ।समापेतुर्महाराज वेनश्च त्रिदिवं गतः ॥२४ ।समुत्पन्नेन कौरव्य सत्पुत्रेण महात्मना ।त्रातः स पुरुषव्याघ्र पुन्नाम्नो नरकात्तदा ॥२५॥तं समुद्राश्च नद्यश्च रत्नान्यादाय सर्वशः ।तोयानि चाभिषेकार्थं सर्व एवोपतस्थिरे ॥२६॥पितामहश्च भगवान् देवैराङ्गिरसैः सह ।स्थावराणि च भूतानि जङ्गमानि तथैव च ॥२७॥समागम्य तदा वैन्यमभ्यषिञ्चन्नराधिपम् ।महता राजराज्येन प्रजापालं महाद्युतिम् ॥२८॥सोऽभिषिक्तो महातेजा विधिवद्धर्मकोविदैः ।आदिराज्ये तदा राज्ञां पृथुर्वैन्यः प्रतापवान् ॥२९॥पित्रापरञ्जितास्तस्य प्रजास्तेनानुरञ्जिताः ।अनुरागात् ततस्तस्य नाम राजेत्यजायत ॥३०॥आपस्तस्तम्भिरे चास्य समुद्रमभियास्यतः ।पर्वताश्च ददुर्मार्गं ध्वजभङ्गश्च नाभवत् ॥३१॥अकृष्टपच्या पृथिवी सिध्यन्त्यन्नानि चिन्तया ।सर्वकामदुघा गावः पुटके पुटके मधु ॥३२॥एतस्मिन्नेव काले तु यज्ञे पैतामहे शुभे ।सूतः सूत्यां समुत्पन्नः सौत्येऽहनि महामतिः ॥३३॥तस्मिन्नेव महायज्ञे जज्ञे प्राज्ञोऽथ मागधः ।पृथोः स्तवार्थे तौ तत्र समाहूतौ सुरर्थिभिः ॥३४॥तावूचुर्ऋषयः सर्वे स्तूयतामेष पार्थिवः ।कर्मैतदनुरूपं वां पात्रं चायं नराधिपः ॥३५॥तानूचतुस्तदा सर्वांस्तानृषीन् सूतमागधौ ।आवां देवानृषींश्चैव प्रीणयावः स्वकर्मभिः॥३६॥न चास्य विद्वो वै कर्म न तथा लक्षणं यशः ।स्तोत्रं येनास्य कुर्याव राज्ञस्तेजस्विनो द्विजाः ॥३७॥ऋषिभिस्तौ नियुक्तौ च भविष्यैः स्तूयतामिति ।यानि कर्माणि कृतवान् पृथुः पश्चान्महाबलः ॥३८॥सत्यवाग् दानशीलोऽयं सत्यसंधो नरेश्वरः ।श्रीमाञ्जैत्रः क्षमाशीलो विक्रान्तो दुष्टशासनः ॥३९॥धर्मज्ञश्च कृतज्ञश्च दयावान् प्रियभाषणः ।मान्यो मानयिता यज्वा ब्रह्मण्यः सत्यसंगरः ॥४०॥शमः शान्तश्च निरतो व्यवहारस्थितो नृपः ।ततः प्रभृति लोकेषु स्तवेषु जनमेजय ।आशीर्वादाः प्रयुज्यन्ते सूतमागधबन्दिभिः ॥४१॥तयोः स्तवैस्तैः सुप्रीतः पृथुः प्रादात् प्रजेश्वरः ।अनूपदेशं सूताय मगधान् मागधाय च ॥४२॥तं दृष्ट्वा परमप्रीताः प्रजाः प्राहुर्महर्षयः ।वृत्तीनामेष वो दाता भविष्यति जनेश्वरः ॥४३॥ततो वैन्यं महाराज प्रजाः समभिदुद्रुवुः ।त्वं नो वृत्तिविधत्स्वेति महर्षिवचनात् तदा ॥४४॥सोऽभिद्रुतः प्रजाभिस्तु प्रजाहितचिकीर्षया ।धनुर्गृह्य पृषत्कांश्च पृथिवीमाद्रवद् बली ॥४५॥ततो वैन्यभयत्रस्ता गौर्भूत्वा प्राद्रवन्मही ।तां पृथुर्धनुरादाय द्रवन्तीमन्वधावत ॥४६॥सा लोकान् ब्रह्मलोकादीन् गत्वा वैन्यभयात्तदा ।प्रददर्शाग्रतो वैन्यं प्रगृहीतशरासनम् ॥४७॥ज्वलद्भिर्निशितैर्बाणैर्दीप्ततेजसमच्युतम् ।महायोगं महात्मानं दुर्धर्षममरैरपि ॥४८॥अलभन्ती तु सा त्राणं वैन्यमेवान्वपद्यत ।कृताञ्जलिपुटा भूत्वा पूज्या लोकैस्त्रिभिः सदा ॥४९॥उवाच वैन्यं नाधर्म्यं स्त्रीवधं कर्तुमर्हसि ।कथं धारयिता चासि प्रजा राजन् विना मया ॥५०॥मयि लोकाः स्थिता राजन्मयेदं धार्यते जगत् ।मद्विनाशे विनश्येयुः प्रजाः पार्थिव विद्धि तत् ॥५१॥न त्वमर्हसि मां हन्तुं श्रेयश्चेत् त्वं चिकीर्षसि ।प्रजानां पृथिवीपाल शृणु चेदं वचो मम ॥५२॥उपायतः समारब्धाः सर्वे सिध्यन्त्युपक्रमाः ।उपायं पश्य येन त्वं धारयेथाः प्रजा नृप ॥५३॥हत्वापि मां न शक्तस्त्वं प्रजा धारयितुं नृप ।अनुभूता भविष्यामि यच्छ कोपं महाद्युते ॥५४॥अवध्याश्च स्त्रियः प्राहुस्तिर्यग्योनिगतेष्वपि ।सत्त्वेषु पृथिवीपाल न धर्मे त्यक्तुमर्हसि ॥५५ ।एवं बहुविधं वाक्यं श्रुत्वा राजा महामनाः ।कोपं निगृह्य धर्मात्मा वसुधामिदमव्रवीत् ॥५६॥इति श्रीमहाभारते खिलभागे हरिवंशे हरिवंशपर्वणि पृथूपाख्याने पञ्चमोऽध्यायः ॥५॥ N/A References : N/A Last Updated : July 11, 2018 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP