संस्कृत सूची|संस्कृत साहित्य|पुराण|हरिवंशपुराणम्|हरिवंश पर्व| षोडशोऽध्यायः हरिवंश पर्व प्रथमोऽध्यायः द्वितीयोऽध्यायः तृतीयोऽध्यायः चतुर्थोऽध्यायः पञ्चमोऽध्यायः षष्ठोऽध्यायः सप्तमोऽध्यायः अष्टमोऽध्यायः नवमोऽध्यायः दशमोऽध्यायः एकादशोऽध्यायः द्वादशोऽध्यायः त्रयोदशोऽध्यायः चतुर्दशोऽध्यायः पञ्चदशोऽध्यायः षोडशोऽध्यायः सप्तदशोऽध्यायः अष्टादशोऽध्यायः एकोनविंशोऽध्यायः विंशोऽध्यायः एकविंशोऽध्यायः त्रयोविंशतितमोऽध्यायः चतुर्विशतितमोऽध्यायः पञ्चविंशतितमोऽध्यायः षडविंशोऽध्यायः सप्तविंशोऽध्यायः अष्टाविंशोऽध्यायः एकोनत्रिंशोऽध्यायः त्रिंशोऽध्यायः एकत्रिंशोऽध्यायः द्वात्रिंशोऽध्यायः त्रयस्त्रिंशोऽध्यायः चतुस्त्रिंशोऽध्यायः पञ्चत्रिंशोऽध्यायः षट्त्रिंशोऽध्यायः सप्तत्रिंशोऽध्यायः अष्टत्रिंशोऽध्यायः एकोनचत्वारिंशोऽध्यायः चत्वारिंशोऽध्यायः एकचत्वारिंशोऽध्यायः द्विचत्वारिंशोऽध्यायः त्रिचत्वारिंशोऽध्यायः चतुश्चत्वारिंशोऽध्यायः पञ्चचत्वारिंशोऽध्यायः षट्चत्वारिंशोऽध्यायः सप्तचत्वारिंशोऽध्यायः अष्टचत्वारिंशोऽध्यायः एकोनपञ्चाशत्तमोऽध्यायः पञ्चाशत्तमोऽध्यायः एकपञ्चाशत्तमोऽध्यायः द्विपञ्चाशत्तमोऽध्यायः त्रिपञ्चाशत्तमोऽध्यायः चतुष्पञ्चाशत्तमोऽध्यायः पञ्चपञ्चाशत्तमोऽध्याय हरिवंश पर्व - षोडशोऽध्यायः महर्षी व्यासांनी रचलेला हा महाभारताचा पुरवणी ग्रंथ आहे. Tags : harivansha puranpuransanskritपुराणसंस्कृतहरिवंश पुराण षोडशोऽध्यायः Translation - भाषांतर श्राद्धकल्पः - जनमेजयेन द्वारा पितुः श्राद्धं एवं पितृस्वरूपनिर्णयसम्बन्धी प्रश्नं, शन्तनुना स्वश्राद्धे भीष्मात् पिण्डप्राप्त्यर्थं स्वहस्तप्रसारणम्जनमेजय उवाचकथं वै श्राद्धदेवत्वमादित्यस्य विवस्वतः ।श्रोतुमिच्छामि विप्राग्र्य श्राद्धस्य च परं विधिम् ॥१॥पितॄणामादिसर्गं च क एते पितरः स्मृताः ।एवं च श्रुतमस्माभिः कथ्यमानं द्विजातिभिः ॥२॥स्वर्गस्थाः पितरो ये च देवानामपि देवताः ।इति वेदविदः प्राहुरेतदिच्छामि वेदितुम् ॥३॥ये च तेषां गणाः प्रोक्ता यच्च तेषां बलं परम् ।यथा च कृतमस्माभिः श्राद्धं प्रीणाति वै पितॄन् ॥४॥प्रीताश्च पितरो ये स्म श्रेयसा योजयन्ति हि ।एवं वेदितुमिच्छामि पितॄणां सर्गमुत्तमम् ॥५॥वैशम्पायन उवाचहन्त ते कथयिष्यामि पितॄणां सर्गमुत्तमम् ।यथा च कृतमस्माभिः श्राद्धं प्रीणाति वै पितॄन् ।प्रीताश्च पितरो ये स्म श्रेयसा योजयन्ति हि ॥६॥मार्कण्डेयेन कथितं भीष्माय परिपृच्छते ।अपृच्छद् धर्मराजो हि शरतल्पगतं पुरा ।एवमेव पुरा प्रश्नं यन्मां त्वं परिपृच्छसि ॥७॥तत् तेऽनुपूर्व्या वक्ष्यामि भीष्मेणोदाहृतं यथा ।गीतं सनत्कुमारेण मार्कण्डेयाय पृच्छते ॥८॥युधिष्ठिर उवाचपुष्टिकामेन धर्मज्ञ कथं पुष्टिरवाप्यते ।एतद्वै श्रोतुमिच्छामि किं कुर्वाणो न शोचति ॥९॥भीष्म उवाचश्राद्धैः प्रीणाति हि पितॄन् सर्वकामफलैस्तु यः ।तत्परः प्रयतः श्राद्धी प्रेत्य चेह च मोदते ॥१०॥पितरो धर्मकामस्य प्रजाकामस्य च प्रजाम् ।पुष्टिकामस्य पुष्टिं च प्रयच्छन्ति युधिष्ठिर ॥११॥युधिष्ठिर उवाचवर्तन्ते पितरः स्वर्गे केषांचिन्नरके पुनः ।प्राणिनां नियतं वापि कर्मजं फलमुच्यते ॥१२॥श्राद्धानि चैव कुर्वन्ति फलकामा सदा नराः ।अभिसंधाय पितरं पितुश्च पितरं तथा ॥१३॥पितुः पितामहं चैव त्रिषु पिण्डेषु नित्यशः ।तानि श्राद्धानि दत्तानि कथं गच्छन्ति वै पितॄन् ॥१४॥कथं च शक्तास्ते दातुं नरकस्थाः फलं पुनः ।के वा ते पितरोऽन्ये स्म कान् यजामो वयं पुनः ॥१५॥देवा अपि पितॄन्स्वर्गे यजन्तीति च नः श्रुतम् ।एतदिच्छाम्यहं श्रोतुं विस्तरेण महाद्युते ॥१६॥स भवान् कथयत्वेतां कथाममितबुद्धिमान् ।यथा दत्तं पितॄणां वै तारणायेह कल्पते ॥१७॥भीष्म उवाचअत्र ते कीर्तयिष्यामि यथाश्रुतमरिंदम ।ये च ते पितरोऽन्ये स्म यान्यजामो वयं पुनः ।पित्रा मम पुरा गीतं लोकान्तरगतेन वै ॥१८॥श्राद्धकाले मम पितुर्मया पिण्डः समुद्यतः ।तं पिता मम हस्तेन भित्त्वा भूमिमयाचत ॥१९॥हस्ताभरणपूर्णेन केयूराभरणेन च ।रक्ताङ्गुलितलेनाथ यथा दृष्टः पुरा मया ॥२०॥नैष कल्पे विधिर्दृष्ट इति संचिन्त्य चान्यहम् ।कुशेष्वेव ततः पिण्डं दत्तवानविचारयन् ॥२१॥ततः पिता मे सुप्रीतो वाचा मधुरया तदा ।उवाच भरतश्रेष्ठ प्रीयमाणो मयानघ ॥२२॥त्वया दायादवानस्मि कृतार्थोऽमुत्र चेह च ।सत्पुत्रेण त्वया पुत्र धर्मज्ञेन विपश्चिता ॥२३॥मया तु तव जिज्ञासा प्रयुक्तैषा दृढव्रत ।व्यवस्थानं तु धर्मेषु कर्तुं लोकस्य चानघ ॥२४॥यथा चतुर्थं धर्मस्य रक्षिता लभते फलम् ।पापस्य हि तथा मूढः फलं प्राप्नोत्यरक्षिता ॥२५॥प्रमाणं यद्धि कुरुते धर्माचारेषु पार्थिवः ।प्रजास्तदनुवर्तन्ते प्रमाणाचरितं सदा ॥२६॥त्वया च भरतश्रेष्ठ वेदधर्माश्च शाश्वताः ।कृताः प्रमाणं प्रीतिश्च मम निर्वर्तितातुला ॥२७॥तस्मात् तवाहं सुप्रीतः प्रीत्या च वरमुत्तमम् ।ददामि तं प्रतीच्छ त्वं त्रिषु लोकेषु दुर्लभम् ॥२८॥न ते प्रभविता मृत्युर्यावज्जीवितुमिच्छसि ।त्वत्तोऽभ्यनुज्ञां सम्प्राप्य मृत्युः प्रभविता तव ॥२९॥किं वा ते प्रार्थितं भूयो ददामि वरमुत्तमम् ।तद् ब्रूहि भरतश्रेष्ठ यत् ते मनसि वर्तते ॥३०॥इत्युक्तवन्तं तमहमभिवाद्य कृताञ्जलिः ।अब्रवं कृतकृत्योऽहं प्रसन्ने त्वयि सत्तम ॥३१॥यदि त्वनुग्रहं भूयस्त्वत्तोऽर्हामि महाद्युते ।प्रश्नमिच्छामि वै किंचिद् व्याहृतं भवता स्वयम् ॥३२॥स मामुवाच धर्मात्मा ब्रूहि भीष्म यदिच्छसि ।छेत्तास्मि संशयं सर्वं यन्मां पृच्छसि भारत ॥३३॥अपृच्छं तमहं तातं तत्रान्तर्हितमेव च ।गतं सुकृतिनां लोकं कौतूहलसमन्वितः ॥३४॥भीष्म उवाचश्रूयन्ते पितरो देवा देवानामपि देवताः ।वाश्च पितरोऽन्ये वा कान् यजामो वयं पुनः ॥३५॥कथं च दत्तमस्माभिः श्राद्धं प्रीणात्यथो पितॄन् ।लोकान्तरगतांस्तात किन्नु श्राद्धस्य वा फलम् ॥३६॥न् यजन्ति स्म लोका वै सदेवनरदानवाः ।सयक्षोरगगन्धर्वाः सकिन्नरमहोरगाः ॥३७॥अत्र मे संशयस्तीव्रः कौतूहलमतीव च ।तद् ब्रूहि मम धर्मज्ञ सर्वज्ञौ ह्यसि मे मतः ।एतच्छ्रुत्वा वचस्तस्य भीष्मस्योवाच वै पिता ॥३८॥शन्तनुरुवाचसंक्षेपेणैव ते वक्ष्ये यन्मां पृच्छसि भारत ।पितरश्च यथोद्भूताः फलं दत्तस्य चानघ ॥३९॥पितॄणां कारणं श्राद्धे शृणु सर्वै समाहितः ।दिदेवसुतास्तात पितरो दिवि देवताः ॥४०॥तान् यजन्ति स्म वै लोका सदैवासुरमानुषाः ।सयक्षोरगगन्धर्वाः सकिन्नरमहोरगाः ॥४१॥आप्यायिताश्च ते श्राद्धे पुनराप्याययन्ति च ।जगत् सदेवगन्धर्वमिति ब्रह्मानुशासनम् ॥४२॥तान् यजस्व महाभाग श्राद्धैरग्र्यैरतन्द्रितः ।ते ते श्रेयो विधास्यन्ति सर्वकामफलप्रदाः ॥४३॥त्वया चाराध्यमानास्ते नामगोत्रादिकीर्तनैः ।अस्मानाप्याययिष्यन्ति स्वर्गस्थानपि भारत ॥४४॥मार्कण्डेयस्तु ते शेषमेतत् सर्वं प्रवक्ष्यति ।एष वै पितृभक्तश्च विदितात्मा च भारत ॥४५॥उपस्थितश्च श्राद्धेऽद्य ममैवानुग्रहाय वै ।एनं पृच्छ महाभागमित्युक्त्वान्तरधीयत ॥४६॥इति श्रीमहाभारते खिलभागे हरिवंशे हरिवंशपर्वणि श्राद्धकल्पप्रसङ्गो नाम षोडशोऽध्यायः ॥१६॥ N/A References : N/A Last Updated : July 11, 2018 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP