संस्कृत सूची|संस्कृत साहित्य|पुराण|हरिवंशपुराणम्|हरिवंश पर्व| षडविंशोऽध्यायः हरिवंश पर्व प्रथमोऽध्यायः द्वितीयोऽध्यायः तृतीयोऽध्यायः चतुर्थोऽध्यायः पञ्चमोऽध्यायः षष्ठोऽध्यायः सप्तमोऽध्यायः अष्टमोऽध्यायः नवमोऽध्यायः दशमोऽध्यायः एकादशोऽध्यायः द्वादशोऽध्यायः त्रयोदशोऽध्यायः चतुर्दशोऽध्यायः पञ्चदशोऽध्यायः षोडशोऽध्यायः सप्तदशोऽध्यायः अष्टादशोऽध्यायः एकोनविंशोऽध्यायः विंशोऽध्यायः एकविंशोऽध्यायः त्रयोविंशतितमोऽध्यायः चतुर्विशतितमोऽध्यायः पञ्चविंशतितमोऽध्यायः षडविंशोऽध्यायः सप्तविंशोऽध्यायः अष्टाविंशोऽध्यायः एकोनत्रिंशोऽध्यायः त्रिंशोऽध्यायः एकत्रिंशोऽध्यायः द्वात्रिंशोऽध्यायः त्रयस्त्रिंशोऽध्यायः चतुस्त्रिंशोऽध्यायः पञ्चत्रिंशोऽध्यायः षट्त्रिंशोऽध्यायः सप्तत्रिंशोऽध्यायः अष्टत्रिंशोऽध्यायः एकोनचत्वारिंशोऽध्यायः चत्वारिंशोऽध्यायः एकचत्वारिंशोऽध्यायः द्विचत्वारिंशोऽध्यायः त्रिचत्वारिंशोऽध्यायः चतुश्चत्वारिंशोऽध्यायः पञ्चचत्वारिंशोऽध्यायः षट्चत्वारिंशोऽध्यायः सप्तचत्वारिंशोऽध्यायः अष्टचत्वारिंशोऽध्यायः एकोनपञ्चाशत्तमोऽध्यायः पञ्चाशत्तमोऽध्यायः एकपञ्चाशत्तमोऽध्यायः द्विपञ्चाशत्तमोऽध्यायः त्रिपञ्चाशत्तमोऽध्यायः चतुष्पञ्चाशत्तमोऽध्यायः पञ्चपञ्चाशत्तमोऽध्याय हरिवंश पर्व - षडविंशोऽध्यायः महर्षी व्यासांनी रचलेला हा महाभारताचा पुरवणी ग्रंथ आहे. Tags : harivansha puranpuransanskritपुराणसंस्कृतहरिवंश पुराण षडविंशोऽध्यायः Translation - भाषांतर पुरूरवसः चरित्र एवं वंश वर्णनम्, राज्ञा पुरूरवसेन त्रेताग्नेः सर्जनम्, गन्धर्वाणां लोकप्राप्तिः ।वैशम्पायन उवाचबुधस्य तु महाराज विद्वान् पुत्रः पुरूरवाः ।तेजस्वी दानशीलश्च यज्वा विपुलदक्षिणः ॥१॥ब्रह्मवादी पराक्रान्तः शत्रुभिर्युधि दुर्जयः ।आहर्ता चाग्निहोत्रस्य यज्ञानां च महीपतिः ॥२॥सत्यवादी पुण्यमतिः काम्यः संवृतमैथुनः ।अतीव त्रिषु लोकेषु यशसाप्रतिमस्तदा ॥३॥तं ब्रह्मवादिनं क्षान्तं धर्मज्ञं सत्यवादिनम् ।उर्वशी वरयामास हित्वा मानं यशस्विनी ॥४॥तया सहावसद् राजा वर्षाणि दश पञ्च च ।पञ्च षट्सप्त चाष्टौ च दश चाष्टौ च भारत ॥५॥वने चैत्ररथे रम्ये तथा मन्दाकिनीतटे ।अलकायां विशालायां नन्दने च वनोत्तमे ॥६॥उत्तरान् स कुरून् प्राप्य मनोरथफलद्रुमान् ।गन्धमादनपादेषु मेरुपृष्ठे तथोत्तरे ॥७॥एतेषु वनमुख्येषु सुरैराचरितेषु च ।उर्वश्या सहितो राजा रेमे परमया मुदा ॥८॥देशे पुण्यतमे चैव महर्षिभिरभिष्टुते ।राज्यं च कारयामास प्रयागं पृथिवीपतिः ॥९॥तस्य पुत्रा बभूवुस्ते सप्त देवसुतोपमाः ।दिवि जाता महात्मान आयुर्धीमानमावसुः ॥१०॥विश्वायुश्चैव धर्मात्मा श्रुतायुश्च तथापरः ।दृढायुश्च वनायुश्च शतायुश्चोर्वशीसुताः ॥११॥जनमेजय उवाचगान्धर्वी चोर्वशी देवी राजानं मानुषं कथम् ।देवानुत्सृज्य सम्प्राप्ता तन्नो ब्रूहि बहुश्रुत ॥१२॥वैशम्पायन उवाचब्रह्मशापाभिभूता सा मानुषं समपद्यत ।ऐलं तु सा वरारोहा समयात्समुपस्थिता ॥१३॥आत्मनः शापमोक्षार्थं समयं सा चकार ह ।अनग्नदर्शनं चैव सकामायां च मैथुनम् ॥१४॥द्वौ मेषौ शयनाभ्याशे सदा बद्धौ च तिष्ठतः ।घृतमात्रो तथाऽऽहारः कालमेकं तु पार्थिव ॥१५॥यद्येष समयो राजन् यावत्कालं च ते दृढः ।तावत्कालं तु वत्स्यामि त्वत्तः समय एष नः ॥१६॥तस्यास्तं समयं सर्वं स राजा समपालयत् ।एवं सा वसते तत्र पुरूरवसि भामिनी ॥१७॥बर्षाण्येकोनषष्टिस्तु तत्सक्ता शापमोहिता ।उर्वश्यां मानुषस्थायां गन्धर्वाश्चिन्तयान्विताः ॥१८॥गन्धर्वा ऊचुःचिन्तयध्वं महाभागा यथा सा तु वराङ्गना ।समागच्छेत् पुनर्देवानुर्वशी स्वर्गभूषणम् ॥१९॥ततो विश्वावसुर्नाम तत्राह वदतां वरः ।मया तु समयस्ताभ्यां क्रियमाणः श्रुतः पुरा ॥२०॥व्युत्क्रान्तसमयं सा वै राजानं त्यक्ष्यते यथा ।तदहं वेद्म्यशेषेण यथा भेत्स्यत्यसौ नृपः ॥२१॥ससहायो गमिष्यामि युष्माकं कार्यसिद्धये ।एवमुक्त्वा गतस्तत्र प्रतिष्ठानं महायशाः ॥२२॥निशायामथ चागम्य मेषमेकं जहार सः ।मातृवद् वर्तते सा तु मेषयोश्चारुहासिनी ॥२३॥गन्धर्वागमनं श्रुत्वा शापान्तं च यशस्विनी ।राजानमब्रवीत् तत्र पुत्रो मेऽह्रियतेति सा ॥२४॥एवमुक्तो विनिश्चित्य नग्नो नैवोदतिष्ठत ।नग्नं मां द्रक्ष्यते देवी समयो वितथो भवेत् ॥२५॥ततो भूयस्तु गन्धर्वा द्वितीयं मेषमाददुः ।द्वितीये तु हृते मेषे ऐलं देव्यब्रवीदिदम् ॥२६॥पुत्रो मेऽपहृतो राजन्ननाथाया इव प्रभो ।एवमुक्तस्तथोत्थाय नग्नो राजा प्रधावितः ॥२७॥मेषयोः पदमन्विच्छन् गन्धर्वैर्विद्युदप्यथ ।उत्पादिता सुमहती ययौ तद्भवनं महत् ॥२८॥प्रकाशितं वै सहसा ततो नग्नमवैक्षत ।नग्नं दृष्ट्वा तिरोभूता साप्सरा कामरूपिणी ॥२९॥उत्सृष्टावुरणौ दृष्ट्वा राजा गृह्यागतो गृहे ।अपश्यन्नुर्वशीं तत्र विललाप सुदुःखितः ॥३०॥चचार पृथिवीं सर्वां मार्गमाण इतस्ततः ।अथापश्यत् स तां राजा कुरुक्षेत्रे महाबलः ॥३१॥प्लक्षतीर्थे पुष्करिण्यां हैमवत्यां समाप्लुताम् ।क्रीडन्तीमप्सरोभिश्च पञ्चभिः सह शोभनाम् ॥३२॥तां क्रीडन्तीं ततो दृष्ट्वा विललाप सुदुःखितः ।सा चापि तत्र तं दृष्ट्वा राजानमविदूरतः ॥३३॥उर्वशी ताः सखीः प्राह स एष पुरुषोत्तमः ।यस्मिन्नहमवात्सं वै दर्शयामास तं नृपम् ॥३४॥समाविग्नास्तु ताः सर्वाः पुनरेव नराधिपः ।जाये ह तिष्ठ मनसा घोरे वचसि तिष्ठ ह ॥३५॥एवमादीनि सूक्तानि परस्परमभाषत ।उर्वशी चाब्रवीदैलं सगर्भाहं त्वया प्रभो ॥३६॥संवत्सरात् कुमारास्ते भविष्यन्ति न संशयः ।निशामेकां च नृपते निवत्स्यसि मया सह ॥३७॥हृष्टो जगाम राजाथ स्वपुरं तु महायशाः ।गते संवत्सरे भूय उर्वशी पुनरागमत् ॥३८॥उषितश्च तया सार्द्धमेकरात्रं महायशाः ।उर्वश्यथाब्रवीदैलं गन्धर्वा वरदास्तव ॥३९॥तान् वृणीष्व महाराज ब्रूहि चैनांस्त्वमेव हि ।वृणीष्व समतां राजन् गन्धर्वाणां महात्मनाम् ॥४०॥तथेत्युक्त्वा वरं वव्रे गन्धर्वाश्च तथास्त्विति ।पूरयित्वाग्निना स्थालीं गन्धर्वाश्च तमब्रुवन् ॥४१॥अनेनेष्ट्वा च लोकान्नः प्राप्स्यसि त्वं नराधिप ।तानादाय कुमारांस्तु नगरायोपचक्रमे ॥४२॥निक्षिप्याग्निमरण्ये तु सपुत्रस्तु गृहं ययौ ।स त्रेताग्निं तु नापश्यदश्वत्थं तत्र दृष्टवान् ॥४३॥शमीजातं तु तं दृष्ट्वा अश्वत्थं विस्मितस्तदा ।गन्धर्वेभ्यस्तदाशंसदग्निनाशं ततस्तु सः ॥४४॥श्रुत्वा तमर्थमखिलमरणीं तु समादिशन् ।अश्वत्थादरणीं कृत्वा मथित्वाग्निं यथाविधि ॥४५॥मथित्वाग्निं त्रिधा कृत्वा अयजत्स नराधिपः ।इष्ट्वा यज्ञैर्बहुविधैर्गतस्तेषां सलोकताम् ॥४६॥गन्धर्वेभ्यो वरं लब्ध्वा त्रेताग्निं समकारयत् ।एकोऽग्निः पूर्वमेवासीदैलस्त्रेतामकारयत् ॥४७॥एवंप्रभावो राजासीदैलस्तु नरसत्तम ।देशे पुण्यतमे चैव महर्षिभिरभिष्टुते ॥४८॥राज्यं स कारयामास प्रयागे पृथिवीपतिः ।उत्तरे जाह्नवीतीरे प्रतिष्ठाने महायशाः ॥४९॥इति श्रीमहाभारते खिलभागे हरिवंशे हरिवंशपर्वणि ऐलोत्पत्तिर्नाम षड्विंशोऽध्यायः ॥२६॥ N/A References : N/A Last Updated : July 12, 2018 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP