संस्कृत सूची|संस्कृत साहित्य|पुराण|हरिवंशपुराणम्|हरिवंश पर्व| नवमोऽध्यायः हरिवंश पर्व प्रथमोऽध्यायः द्वितीयोऽध्यायः तृतीयोऽध्यायः चतुर्थोऽध्यायः पञ्चमोऽध्यायः षष्ठोऽध्यायः सप्तमोऽध्यायः अष्टमोऽध्यायः नवमोऽध्यायः दशमोऽध्यायः एकादशोऽध्यायः द्वादशोऽध्यायः त्रयोदशोऽध्यायः चतुर्दशोऽध्यायः पञ्चदशोऽध्यायः षोडशोऽध्यायः सप्तदशोऽध्यायः अष्टादशोऽध्यायः एकोनविंशोऽध्यायः विंशोऽध्यायः एकविंशोऽध्यायः त्रयोविंशतितमोऽध्यायः चतुर्विशतितमोऽध्यायः पञ्चविंशतितमोऽध्यायः षडविंशोऽध्यायः सप्तविंशोऽध्यायः अष्टाविंशोऽध्यायः एकोनत्रिंशोऽध्यायः त्रिंशोऽध्यायः एकत्रिंशोऽध्यायः द्वात्रिंशोऽध्यायः त्रयस्त्रिंशोऽध्यायः चतुस्त्रिंशोऽध्यायः पञ्चत्रिंशोऽध्यायः षट्त्रिंशोऽध्यायः सप्तत्रिंशोऽध्यायः अष्टत्रिंशोऽध्यायः एकोनचत्वारिंशोऽध्यायः चत्वारिंशोऽध्यायः एकचत्वारिंशोऽध्यायः द्विचत्वारिंशोऽध्यायः त्रिचत्वारिंशोऽध्यायः चतुश्चत्वारिंशोऽध्यायः पञ्चचत्वारिंशोऽध्यायः षट्चत्वारिंशोऽध्यायः सप्तचत्वारिंशोऽध्यायः अष्टचत्वारिंशोऽध्यायः एकोनपञ्चाशत्तमोऽध्यायः पञ्चाशत्तमोऽध्यायः एकपञ्चाशत्तमोऽध्यायः द्विपञ्चाशत्तमोऽध्यायः त्रिपञ्चाशत्तमोऽध्यायः चतुष्पञ्चाशत्तमोऽध्यायः पञ्चपञ्चाशत्तमोऽध्याय हरिवंश पर्व - नवमोऽध्यायः महर्षी व्यासांनी रचलेला हा महाभारताचा पुरवणी ग्रंथ आहे. Tags : harivansha puranpuransanskritपुराणसंस्कृतहरिवंश पुराण नवमोऽध्यायः Translation - भाषांतर वैवस्वत मनोः, यमयम्योः, अश्विनोः एवं शनैश्चरस्य उत्पत्तिःवैशम्पायन उवाचविवस्वान् कश्यपाज्जज्ञे दाक्षायण्यामरिंदम ।तस्य भार्याभवत् संज्ञा त्वाष्ट्री देवी विवस्वतः ॥१॥सुरेणुरिति विख्याता त्रिषु लोकेषु भाविनी ।सा वै भार्या भगवती मार्तण्डस्य महात्मनः ॥२॥भर्तृरूपेण नातुष्यद् रूपयौवनशालिनी ।संज्ञा नाम सुतपसा दीप्तेनेह समन्विता ॥३॥आदित्यस्य हि तद्रूपं मण्डलस्य सुतेजसा ।गात्रेषु परिदग्धं वै नातिकान्तमिवाभवत् ॥४॥न खल्वयं मृतोऽण्डस्य इति स्नेहादभाषत ।अज्ञानात् कश्यपस्तस्मान्मार्तण्ड इति चोच्यते ॥५॥तेजस्त्वभ्यधिकं तात नित्यमेव विवस्वतः ।येनातितापयामास त्रीँल्लोकान्कश्यपात्मजः ॥६॥त्रीण्यपत्यानि कौरव्य संज्ञायां तपतां वरः ।आदित्यो जनयामास कन्यां द्वौ च प्रजापती ॥७॥मनुर्वैवस्वतः पूर्वं श्राद्धदेवः प्रजापतिः ।यमश्च यमुना चैव यमजौ सम्बभूवतुः ॥८॥सा विवर्णं तु तद्रूपं दृष्ट्वा संज्ञा विवस्वतः ।असहन्ती च स्वां छायां सवर्णा निर्ममे ततः ॥९॥मायामयी तु सा संज्ञा तस्याश्छाया समुत्थिता ।प्राञ्जलिः प्रणता भूत्वा छाया संज्ञां नरेश्वर ॥१०॥उवाच किं मया कार्यं कथयस्व शुचिस्मिते ।स्थितास्मि तव निर्देशे शाधि मां वरवर्णिनि ॥११॥संज्ञोवाचअहं यास्यामि भद्रं ते स्वमेव भवनं पितुः ।त्वयेह भवने मह्यं वस्तव्यं निर्विकारया ॥१२॥इमौ च बालकौ मह्यं कन्या चेयं सुमध्यमा ।सम्भाव्यास्ते न चाख्येयमिदं भगवते क्वचित् ॥१३॥छायोवाचआ कचग्रहणाद् देवि आ शापान्नैव कर्हिचित् ।आख्यास्यामि मतं तुभ्यं गच्छ देवि यथासुखम् ॥१४॥वैशम्पायन उवाचसमादिश्य सवर्णां तां तथेत्युक्ता च सा तया ।त्वष्टुः समीपमगमद् व्रीडितेव तपस्विनी ॥१५॥पितुः समीपगा सा तु पित्रा निर्भर्त्सिता तदा ।भर्तुः समीपं गच्छेति नियुक्ता च पुनः पुनः ॥१६॥अगच्छद्वडवा भूत्वा ऽऽच्छाद्य रूपमनिन्दिता ।कुरूनथोत्तरान् गत्वा तृणान्येव चचार ह ॥१७॥द्वितीयायां तु संज्ञायां संज्ञेयमिति चिन्तयन् ।आदित्यो जनयामास पुत्रमात्मसमं तदा ॥१८॥पूर्वजस्य मनोस्तात सदृशोऽयमिति प्रभुः ।सवर्णत्वान्मनोर्भूयः सावर्ण इति चोक्तवान् ॥१९॥मनुरेवाभवन्नाम्ना सावर्ण इति चोच्यते ।द्वितीयो यः सुतस्तस्याः स विज्ञेयः शनैश्चरः ॥२०॥संज्ञा तु पार्थिवी तात स्वस्य पुत्रस्य वै तदा ।चकाराभ्यधिकं स्नेहं न तथा पूर्वजेषु वै ॥२१॥मनुस्तस्याक्षमत्तत्तु यमस्तस्या न चक्षमे ।तां स रोषाच्च बाल्याच्च भाविनोऽर्थस्य वै बलात् ।पदा संतर्जयामास संज्ञां वैवस्वतो यमः ॥२२॥तं शशाप ततः क्रोधात् सावर्णजननी नृप ।चरणः पततामेष तवेति भृशदुःखिता ॥२३॥यमस्तु तत् पितुः सर्वं प्राञ्जलिः प्रत्यवेदयत् ।भृशं शापभयोद्विग्नः संज्ञावाक्यप्रतोदितः ॥२४॥शापोऽयं विनिवर्तेत प्रोवाच पितरं तदा ।मात्रा स्नेहेन सर्वेषु वर्तितव्यं सुतेषु वै ॥२५॥सेयमस्मानपाहाय यवीयांसं बुभूषति ।तस्यां मयोद्यतः पादो न तु देहे निपातितः ॥२६॥बाल्याद्वा यदि वा मोहात्तद्भवान्क्षन्तुमर्हति ।यस्मात्ते पूजनीयाहं लङ्घितास्मि त्वया सुत ॥२७॥तस्मात् तवैष चरणः पतिष्यति न संशयः ।अपत्यं दुरपत्यं स्यान्नाम्बा कुजननी भवेत् ॥२८॥शप्तोऽहमस्मि लोकेश जनन्या तपतां वर ।तव प्रसादाच्चरणो न पतेन्मम गोपते ॥२९॥विवस्वानुवाचअसंशयं पुत्र महद् भविष्यत्यत्र कारणम् ।येन त्वामाविशत् क्रोधो धर्मज्ञं सत्यवादिनम् ॥३०॥कृमयो मांसमादाय यास्यन्ति धरणीतलम् ॥३१॥तव पादान्महाप्राज्ञ ततस्त्वं प्राप्स्यसे सुखम् ।कृतमेवं वचस्तथ्यं मातुस्तव भविष्यति ॥३२॥शापस्य परिहारेण त्वं च त्रातो भविष्यसि ।आदित्योऽथाब्रवीत् संज्ञां किमर्थं तनयेषु वै ॥३३॥तुल्येष्वभ्यधिकः स्नेहः क्रियतेऽति पुनः पुनः ।सा तत्परिहसन्ती तु नाचचक्षे विवस्वते ॥३४॥आत्मानं सुसमाधाय योगात् तथ्यमपश्यत ।तां शप्तुकामो भगवान् नाशाय कुरुनन्दन ॥३५॥मूर्धजेषु च जग्राह समयेऽतिगतेऽपि च ।सा तत् सर्वं यथावृत्तमाचचक्षे विवस्वते ॥३६॥विवस्वानथ तच्छ्रुत्वा क्रुद्धस्त्वष्टारमभ्यगात् ।त्वष्टा तु तं यथा न्यायमर्चयित्वा विभावसुम् ।निर्दग्धुकामं रोषेण सान्त्वयामास वै तदा ॥३७॥त्वष्टोवाचतवातितेजसाविष्टमिदं रूपं न शोभते ।असहन्ती च तत् संज्ञा वने चरति शाद्वले ॥३८॥द्रष्टा हि तां भवानद्य स्वां भार्यां शुभचारिणीम् ।नित्यं तपस्यभिरतां वडवारूपधारिणीम् ॥३९॥पर्णाहारां कृशां दीनां जटिलां ब्रह्मचारिणीम् ।हस्तिहस्तपरिक्लिष्टां व्याकुलां पद्मिनीमिव ।श्लाघ्यां योगबलोपेतां योगमास्थाय गोपते ॥४०॥अनुकूलं तु देवेश यदि स्यान्मम तन्मतम् ।रूपं निर्वर्तयाम्यद्य तव कान्तमरिंदम ॥४१॥रूपं विवस्वतश्चासीत् तिर्यगूर्ध्वसमं तु वै ।तेनासौ सम्भृतो देवरूपेण तु विभावसुः ॥४२॥तस्मात् त्वष्टुः स वै वाक्यं वहु मेने प्रजापतिः ।समनुज्ञातवांश्चैव त्वष्टारं रूपसिद्धये ॥४३॥ततोऽभ्युपगमात्त्वष्टा मार्तण्डस्य विवस्वतः ।भ्रमिमारोप्य तत् तेजः शातयामास भारत ॥४४॥ततो निर्भासितं रूपं तेजसा संहृतेन वै ।कान्तात् कान्ततरं द्रष्टुमधिकं शुशुभे तदा ॥४५॥मुखे निर्वर्तितं रूपं तस्य देवस्य गोपतेः ।ततः प्रभृति देवस्य मुखमासीत् तु लोहितम् ।मुखरागं तु यत्पूर्वं मार्तण्डस्य मुखच्युतम् ॥४६॥आदित्या द्वादशैवेह सम्भूता मुखसम्भवाः ।धातार्यमा च मित्रश्च वरुणोंऽशो भगस्तथा ॥४७॥इन्द्रो विवस्वान्पूषा च पर्जन्यो दशमस्तथा ।ततस्त्वष्टा ततो विष्णुरजघन्यो जघन्यजः ॥४८॥हर्षं लेभे ततो देवो दृष्ट्वाऽऽदित्यान् स्वदेहजान् ।गन्धैः पुष्पैरलंकारैर्भास्वता मुकुटेन च ॥४९॥एवं सम्पूजयामास त्वष्टा वाक्यमुवाच ह ।गच्छ देव निजां भार्यां कुरूंश्चरति सोत्तरान् ॥५०॥वडवारूपमास्थाय वने चरति शाद्वले ।स तथा रूपमास्थाय स्वभार्यारूपलीलया ॥५१॥ददर्श योगमास्थाय स्वां भार्यां वडवां ततः ।अधृष्यां सर्वभूतानां तेजसा नियमेन च ॥५२॥वडवावपुषा राजंश्चरन्तीमकुतोभयाम् ।सोऽश्वरूपेण भगवांस्तां मुखे समभावयत् ॥५३॥मैथुनाय विचेष्टन्ती परपुंसोपशङ्कया ।सा तन्निरवमच्छुक्रं नासिकायां विवस्वतः ॥५४॥देवौ तस्यामजायेतामश्विनौ भिषजां वरौ ।नासत्यश्चैव दस्रश्च स्मृतौ द्वावश्विनाविति ॥५५॥मार्तण्डस्यात्मजावेतावष्टमस्य प्रजापतेः ।संज्ञायां जनयामास वडवायां स भारत ।तां तु रूपेण कान्तेन दर्शयामास भास्करः ॥५६॥सा च दृष्ट्वैव भर्तारं तुतोष जनमेजय ।यमस्तु कर्मणा तेन भृशं पीडितमानसः ॥५७॥धर्मेण रञ्जयामास धर्मराज इव प्रजाः ।स लेभे कर्मणा तेन परमेण महाद्युतिः ॥५८॥पितॄणामाधिपत्यं च लोकपालत्वमेव च ।मनुः प्रजापतिस्त्वासीत् सावर्णः स तपोधनः ॥५९॥भाव्यः सोऽनागते काले मनुः सावर्णिकेऽन्तरे ।मेरुपृष्ठे तपो घोरमद्यापि चरति प्रभुः ॥६०॥भ्राता शनैश्चरश्चास्य ग्रहत्वमुपलब्धवान् ।नासत्यौ यौ समाख्यातौ स्वर्वैद्यौ तौ बभूवतुः ॥६१॥सेवतोऽपि तथा राजन्नश्वानां शान्तिदोऽभवत् ।त्वष्टा तु तेजसा तेन विष्णोश्चक्रमकल्पयत् ॥६२॥तदप्रतिहतं युद्धे दानवान्तचिकीर्षया ।यवीयसी तयोर्या तु यमी कन्या यशस्विनी ॥६३॥अभवत् सा सरिच्छ्रेष्ठा यमुना लोकभाविनी ।मनुरित्युच्यते लोके सावर्ण इति चोच्यते ॥६४॥द्वितीयो यः सुतस्तस्य मनोर्भ्राता शनैश्चरः ।ग्रहत्वं स च लेभे वै सर्वलोकाभिपूजितम् ॥६५॥य इदं जन्म देवानां शृणुयाद् वापि धारयेत् ।आपद्भ्यः स विमुच्येत प्राप्नुयाच्च महद्यशः ॥६६॥इति श्रीमहाभारते खिलभागे हरिवंशे हरिवंशपर्वणि वैवस्वतोत्पत्तौ नवमोऽध्यायः ॥९॥ N/A References : N/A Last Updated : July 11, 2018 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP