संस्कृत सूची|संस्कृत साहित्य|पुराण|हरिवंशपुराणम्|हरिवंश पर्व| चतुर्विशतितमोऽध्यायः हरिवंश पर्व प्रथमोऽध्यायः द्वितीयोऽध्यायः तृतीयोऽध्यायः चतुर्थोऽध्यायः पञ्चमोऽध्यायः षष्ठोऽध्यायः सप्तमोऽध्यायः अष्टमोऽध्यायः नवमोऽध्यायः दशमोऽध्यायः एकादशोऽध्यायः द्वादशोऽध्यायः त्रयोदशोऽध्यायः चतुर्दशोऽध्यायः पञ्चदशोऽध्यायः षोडशोऽध्यायः सप्तदशोऽध्यायः अष्टादशोऽध्यायः एकोनविंशोऽध्यायः विंशोऽध्यायः एकविंशोऽध्यायः त्रयोविंशतितमोऽध्यायः चतुर्विशतितमोऽध्यायः पञ्चविंशतितमोऽध्यायः षडविंशोऽध्यायः सप्तविंशोऽध्यायः अष्टाविंशोऽध्यायः एकोनत्रिंशोऽध्यायः त्रिंशोऽध्यायः एकत्रिंशोऽध्यायः द्वात्रिंशोऽध्यायः त्रयस्त्रिंशोऽध्यायः चतुस्त्रिंशोऽध्यायः पञ्चत्रिंशोऽध्यायः षट्त्रिंशोऽध्यायः सप्तत्रिंशोऽध्यायः अष्टत्रिंशोऽध्यायः एकोनचत्वारिंशोऽध्यायः चत्वारिंशोऽध्यायः एकचत्वारिंशोऽध्यायः द्विचत्वारिंशोऽध्यायः त्रिचत्वारिंशोऽध्यायः चतुश्चत्वारिंशोऽध्यायः पञ्चचत्वारिंशोऽध्यायः षट्चत्वारिंशोऽध्यायः सप्तचत्वारिंशोऽध्यायः अष्टचत्वारिंशोऽध्यायः एकोनपञ्चाशत्तमोऽध्यायः पञ्चाशत्तमोऽध्यायः एकपञ्चाशत्तमोऽध्यायः द्विपञ्चाशत्तमोऽध्यायः त्रिपञ्चाशत्तमोऽध्यायः चतुष्पञ्चाशत्तमोऽध्यायः पञ्चपञ्चाशत्तमोऽध्याय हरिवंश पर्व - चतुर्विशतितमोऽध्यायः महर्षी व्यासांनी रचलेला हा महाभारताचा पुरवणी ग्रंथ आहे. Tags : harivansha puranpuransanskritपुराणसंस्कृतहरिवंश पुराण चतुर्विशतितमोऽध्यायः Translation - भाषांतर विभ्राजस्य ब्रह्मदत्तस्य पुत्ररूपेण उत्पत्तिः, राज्ञ्या संनत्याः कोपम्, ब्राह्मणप्रोकत श्लोकेभ्यः ब्रह्मदत्त, पाञ्चाल्य एवं कण्डरीकेभ्यः स्वजातिज्ञानप्राप्तिः एवं ब्रह्मदत्तादीनां तपसा मोक्षप्राप्तिः ।मार्कण्डेय उवाचब्रह्मदत्तस्य तनयः स विभ्राजस्त्वजायत ।योगात्मा तपसा युक्तो विष्वक्सेन इति श्रुतः ॥१॥कदाचिद् ब्रह्मदत्तस्तु भार्यया सहितो वने ।विजहार प्रहृष्टात्मा यथा शच्या शचीपतिः ॥२॥ततः पिपीलिकरुतं स शुश्राव नराधिपः ।कामिनीं कामिनस्तस्य याचतः क्रोशतो भृशम् ॥३॥श्रुत्वा तु याच्यमाना तां क्रुद्धां सूक्ष्मां पिपीलिकाम् ।ब्रह्मदत्तो महाहासमकस्मादेव चाहसत् ॥४॥ततः सा संनतिर्दीना व्रीडितेवाभवत्तदा ।निराहारा बहुतिथं बभूव वरवर्णिनी ॥५॥प्रसाद्यमाना भर्त्रा सा तमुवाच शुचिस्मिता ।त्वया च हसिता राजन् नाहं जीवितुमुत्सहे ॥६॥स तत्कारणमाचख्यौ न च सा श्रद्दधाति तत् ।उवाच चैनं कुपिता नैष भावोऽस्ति मानुषे ॥७॥को वै पिपीलिकरुतं मानुषो वेत्तुमर्हति ।ऋते देवप्रसादाद् वा पूर्वजातिकृतेन वा ॥८॥तपोबलेन वा राजन् विद्यया वा नराधिप ।यद्येष वै प्रभावस्ते सर्वसत्त्वरुतज्ञता ॥९॥यथाहमेतज्जानीयां तथा प्रत्याययस्व माम् ।प्राणान् वापि परित्यक्ष्ये राजन् सत्येन ते शपे ॥१०॥तत् तस्या वचनं श्रुत्वा महिष्याः परुषाक्षरम् ।स राजा परमापन्नो देवश्रेष्ठमगात् ततः ॥११॥शरण्यं सर्वभूतेशं भक्त्या नारायणं हरिम् ।समाहितो निराहारः षड्रात्रेण महायशाः ॥१२॥ददर्श दर्शने राजा देवं नारायणं प्रभुम् ।उवाच चैनं भगवान् सर्वभूतानुकम्पकः ॥१३॥ब्रह्मदत्त प्रभाते त्वं कल्याणं समवाप्स्यसि ।इत्युक्त्वा भगवान् देवस्तत्रैवान्तरधीयत ॥१४॥चतुर्णां तु पिता योऽसौ ब्राह्मणानां महात्मनाम् ।श्लोकं सोऽधीत्य पुत्रेभ्यः कृतकृत्य इवाभवत् ॥१५॥स राजानमथान्विच्छन्सहमन्त्रिणमच्युतम् ।न ददर्शान्तरं किंचिच्छोकं श्रावयितुं तदा ॥१६॥अथ राजा सरःस्नातो लब्ध्वा लब्ध्वा नारायणाद्वरम् ।प्रविवेश पुरीं प्रीतो रथमारुह्य काञ्चनम् ॥१७॥तस्य रश्मीन्प्रत्यगृह्णात्कण्डरीको द्विजर्षभः ।चामरं व्यजनं चापि बाभ्रव्यः समवाक्षिपत् ॥१८॥इदमन्तरमित्येव ततः स ब्राह्मणस्तदा ।श्रावयामास राजानं श्लोकं तं सचिवौ च तौ ॥१९॥सप्त व्याधा दशार्णेषु मृगाः कालञ्जरे गिरौ ।चक्रवाकाः शरद्वी हंसाः सरसि मानसे ॥२०॥तेऽभिजाताः कुरुक्षेत्रे ब्राह्मणा वेदपारगाः ।प्रस्थिता दीर्घमध्वानं यूयं किमवसीदथ ॥२१॥तच्छ्रुत्वा मोहमगमद् ब्रह्मदत्तो नराधिपः ।सचिवश्चास्य पाञ्चाल्यः कण्डरीकश्च भारत ॥२२॥स्रस्तरश्मिप्रतोदौ तौ पतितव्यञ्जनावुभौ ।दृष्ट्वा बभूवुरस्वस्थाः पौराश्च सुहृदस्तथा ॥२३॥मुहूर्तमेव राजा स सह ताभ्यां रथे स्थितः ।प्रतिलभ्य ततः संगं प्रत्यागच्छदरिंदमः ॥२४॥ततस्ते तत्सरः स्मृत्वा योगं तमुपलभ्य च ।ब्राह्मणं विपुलैरर्थैर्भोगैश्च समयोजयन् ॥२५॥अभिषिच्य स्वराज्ये तु विष्वक्सेनमरिंदमम् ।जगाम ब्रह्मदत्तोऽथ सदारो वनमेव ह ॥२६॥अथैनं संनतिर्धीरा देवलस्य सुता तदा ।उवाच परमप्रीता योगाद् वनगतं नृपम् ॥२७॥जानन्त्या ते महाराज पिपीलिकरुतज्ञताम् ।चोदितः क्रोधमुद्दिश्य सक्तः कामेषु वै मया ॥२८॥इतो वयं गमिष्यामो गतिमिष्टामनुत्तमाम् ।तव चान्तर्हितो योगस्ततः संस्मारितो मया ॥२९॥स राजा परमप्रीतः पत्न्याः श्रुत्वा वचस्तदा ।प्राप्य योगं बलादेव गतिं प्राप सुदुर्लभाम् ॥३०॥कण्डरीकोऽपि धर्मात्मा सांख्ययोगमनुत्तमम् ।प्राप्य योगगतिं सिद्धो विशुद्धस्तेन कर्मणा ॥३१॥क्रमं प्रणीय पाञ्चाल्यः शिक्षां चोत्पाद्य केवलाम् ।योगाचार्यगतिं प्राप यशश्चाग्र्यं महातपाः ॥३२॥एवमेतत् पुरावृत्तं मम प्रत्यक्षमच्युत ।तद् धारयस्व गाङ्गेय श्रेयसा योक्ष्यसे ततः ॥३३॥ये चान्ये धारयिष्यन्ति तेषां चरितमुत्तमम् ।तिर्यग्योनिषु ते जातु न गमिष्यन्ति कर्हिचित् ॥३४॥श्रुत्वा चेदमुपाख्यानं महार्थं महतां गतिम् ।योगधर्मो हृदि सदा परिवर्तति भारत ॥३५॥स तेनैवानुबन्धेन कदाचिल्लभते शमम् ।ततो योगगतिं याति शुद्धां तां भुवि दुर्लभाम् ॥३६॥वैशम्पायन उवाचएवमेतत् पुरा गीतं मार्कण्डेयेन धीमता ।श्राद्धस्य फलमुद्दिश्य सोमस्याप्यायनाय वै ॥३७॥सोमो हि भगवान् देवो लोकस्याप्यायनं परम् ।वृष्णिवंशप्रसङ्गेन तस्य वंशं निबोध मे ॥३८॥ति श्रीमहाभारते खिलेषु हरिवंशे हरिवंशपर्वणि पितृकल्पसमाप्तिर्नाम चतुर्विंशोऽध्यायः ॥२४॥ N/A References : N/A Last Updated : July 12, 2018 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP