संस्कृत सूची|संस्कृत साहित्य|पुराण|हरिवंशपुराणम्|हरिवंश पर्व| सप्तचत्वारिंशोऽध्यायः हरिवंश पर्व प्रथमोऽध्यायः द्वितीयोऽध्यायः तृतीयोऽध्यायः चतुर्थोऽध्यायः पञ्चमोऽध्यायः षष्ठोऽध्यायः सप्तमोऽध्यायः अष्टमोऽध्यायः नवमोऽध्यायः दशमोऽध्यायः एकादशोऽध्यायः द्वादशोऽध्यायः त्रयोदशोऽध्यायः चतुर्दशोऽध्यायः पञ्चदशोऽध्यायः षोडशोऽध्यायः सप्तदशोऽध्यायः अष्टादशोऽध्यायः एकोनविंशोऽध्यायः विंशोऽध्यायः एकविंशोऽध्यायः त्रयोविंशतितमोऽध्यायः चतुर्विशतितमोऽध्यायः पञ्चविंशतितमोऽध्यायः षडविंशोऽध्यायः सप्तविंशोऽध्यायः अष्टाविंशोऽध्यायः एकोनत्रिंशोऽध्यायः त्रिंशोऽध्यायः एकत्रिंशोऽध्यायः द्वात्रिंशोऽध्यायः त्रयस्त्रिंशोऽध्यायः चतुस्त्रिंशोऽध्यायः पञ्चत्रिंशोऽध्यायः षट्त्रिंशोऽध्यायः सप्तत्रिंशोऽध्यायः अष्टत्रिंशोऽध्यायः एकोनचत्वारिंशोऽध्यायः चत्वारिंशोऽध्यायः एकचत्वारिंशोऽध्यायः द्विचत्वारिंशोऽध्यायः त्रिचत्वारिंशोऽध्यायः चतुश्चत्वारिंशोऽध्यायः पञ्चचत्वारिंशोऽध्यायः षट्चत्वारिंशोऽध्यायः सप्तचत्वारिंशोऽध्यायः अष्टचत्वारिंशोऽध्यायः एकोनपञ्चाशत्तमोऽध्यायः पञ्चाशत्तमोऽध्यायः एकपञ्चाशत्तमोऽध्यायः द्विपञ्चाशत्तमोऽध्यायः त्रिपञ्चाशत्तमोऽध्यायः चतुष्पञ्चाशत्तमोऽध्यायः पञ्चपञ्चाशत्तमोऽध्याय हरिवंश पर्व - सप्तचत्वारिंशोऽध्यायः महर्षी व्यासांनी रचलेला हा महाभारताचा पुरवणी ग्रंथ आहे. Tags : harivansha puranpuransanskritपुराणसंस्कृतहरिवंश पुराण सप्तचत्वारिंशोऽध्यायः Translation - भाषांतर कालनेमिनः युद्धं एवं प्रभावम्वैशम्पायन उवाचदानवांश्चापि पिप्रीषुः कालनेमिर्महासुरः ।व्यवर्धत महातेजास्तपान्ते जलदो यथा ॥१॥त्रैलोक्यान्तर्गतं तं तु दृष्ट्वा तै दानवेश्वराः ।उत्तस्थुरपरिश्रान्ताः प्राप्येवामृतमुत्तमम् ॥२॥ते वीतभयसंत्रासा मयतारपुरोगमाः ।तारकामयसंग्रामे सततं जयकाङ्क्षिणः ।रेजुरायोधनगता दानवा युद्धकाङ्क्षिणः ॥३॥अस्त्रमभ्यस्यतां तेषां व्यूहं च .परिधावताम् ।प्रेक्षतां चाभवत् प्रीतिर्दानवं कालनेमिनम् ॥४॥ये तु तत्र मयस्यासन् मुख्या युद्धपुरस्सराः ।तेऽपि सर्वे भयं त्यक्त्वा हृष्टा योद्धुमुपस्थिताः ॥५॥मयस्तारो वराहश्च हयग्रीवश्च वीर्यवान् ।विप्रचित्तिसुतः श्वेतः खरलम्बावुभावपि ॥६॥अरिष्टो बलिपुत्रस्तु किशोरोष्ट्रौ तथैव च ।स्वर्भानुश्चामरप्रख्यो वक्रयोधी महासुरः ॥७॥एतेऽस्त्रविदुषः सर्वे सर्वे तपसि सुव्रताः ।दानवाः कृतिनो जग्मुः कालनेमिनमुत्तमम् ॥८॥ते गदाभिश्च गुर्वीभिञ्चक्रैश्च सपरश्वधैः ।अश्मभिश्चाद्रिसदृशैर्गण्डशैलैश्च दंशितैः ॥९॥पट्टिशैर्भिन्दिपालैश्च परिघैश्चोत्तमायुधैः ।घातनीभिश्च गुर्वीभिः शतघ्नीभिस्तथैव च ॥१०॥कालकल्पैश्च मुसलैः क्षेपणीयैश्च मुद्गरैः ।युगैर्यन्त्रैश्च निर्मुक्तैरर्गलैश्चाग्रताडितैः ॥११॥दोर्भिश्चायतपीनांसैः पाशैः प्रासैश्च मूर्च्छितैः ।सर्पैर्लेलिह्यमानैश्च विसर्पद्भिश्च सायकैः ॥१२॥वज्रैः प्रहरणीयैश्च दीप्यमानैश्च तोमरैः ।विकोशैश्चासिभिस्तीक्ष्णैः शूलैश्च शितनिर्मलैः ॥१३॥ते वै संदीप्तमनसः प्रगृहीतोत्तमायुधाः ।कालनेमिं पुरस्कृत्य तस्थुः संग्राममूर्धनि ॥१४॥सा दीप्तशस्त्रप्रवरा दैत्यानां शुशुभे चमूः ।द्यौर्निमीलितनक्षत्रा सघनेवाम्बुदागमे ॥१५॥देवतानामपि चमू रुरुचे शक्रपालिता ।दीप्ता शीतोष्णतेजोभ्यां चन्द्रभास्करवर्चसा ॥१६॥वायुवेगवती सौम्या तारागणपताकिनी ।तोयदाविद्धवसना ग्रहनक्षत्रहासिनी ॥१७॥यमेन्द्रधनदैर्गुप्ता वरुणेन च धीमता ।सम्प्रदीप्ताग्निपवना नारायणपरायणा ॥१८॥सा समुद्रौघसदृशी दिव्या देवमहाचमूः ।रराजास्त्रवती भीमा यक्षगन्धर्वशालिनी ॥१९॥तयोश्चम्वोस्तदा तत्र बभूव स समागमः ।द्यावापृथिव्योः संयोगो यथा स्याद् युगपर्यये ॥२०॥तद् युद्धमभवद् घोरं देवदानवसंकुलम् ।क्षमापराक्रममयं दर्पस्य विनयस्य च ॥२१॥निश्चक्रमुर्बलाभ्यां तु ताभ्यां भीमाः सुरासुराः ।पूर्वापराभ्यां संरब्धाः सागराभ्यामिवाम्बुदाः ॥२२॥ताभ्यां बलाभ्यां संहृष्टाश्चेरुस्ते देवदानवाः ।वनाभ्यां पर्वतीयाभ्यां पुष्पिताभ्यां यथा गजाः ॥२३॥समाजघ्नुस्ततो भेरीः शङ्खान् दध्मुश्च नैकशः ।स शब्दो द्यां भुवं चैव दिशश्च समपूरयत् ॥२४॥ज्याघाततलनिर्घोषो धनुषां कूजितानि च ।दुन्दुभीनां निनदतां दैत्यानां निर्दधुः स्वनान् ॥२५॥तेऽन्योन्यमभिसम्पेतुः पातयन्तः परस्परम् ।बभञ्जुर्बाहुभिर्बाहून् द्वन्द्वमन्ये युयुत्सवः ॥२६॥देवतास्त्वशनीर्घोराः परिघांश्चोत्तमायसान् ।ससर्जुराजौ निस्त्रिंशान् गदा गुर्वीश्च दानवाः ॥२७॥गदानिपातैर्भग्नाङ्गा बाणैश्च शकलीकृताः ।परिपेतुर्भृशं केचिन्द्रब्जाः केचित् ससर्जिरे ॥२८॥ततो रथैः सतुरगैर्विमानैश्चाशुगामिभिः ।समीयुस्ते नु संरब्धा रोषादन्योन्यमाहवे ॥२९॥संवर्तमानाः समरे विवर्तन्तस्तथापरे ।रथा रथैर्निरुध्यन्ते पदाताश्च पदातिभिः ॥३०॥तेषां रथानां तुमुलः स शब्दः शब्दवाहिनाम् ।बभूवाथ प्रसक्तानां नभसीव पयोमुचाम् ॥३१॥बभञ्जिरे रथान् केचित् केचित् सम्मृदिता रथैः ।सम्बाधमेके सम्प्राप्य न शेकुश्चलितुं रथाः ॥३२॥अन्योन्यस्याभिसमरे दोर्भ्यामुत्क्षिप्य दर्पिताः ।संह्रादमानाभरणा जघ्नुस्तत्रासिचर्मिणः ॥३३॥अस्त्रैरन्ये विनिर्भिन्ना रक्तं वेमुर्हता युधि ।क्षरज्जलानां सदृशा जलदानां समागमे ॥३४॥तदस्त्रशस्त्रग्रथितं क्षिप्तोत्क्षिप्तगदाविलम् ।देवदानवसंक्षुब्ध सकुलं युद्धमाबभौ ॥३५॥तद् दानवमहामेघं देवायुधतडित्प्रभम् ।अन्योन्यबाणवर्ष तद् युद्धं दुर्दिनमाबभौ ॥३६॥एतस्मिन्नन्तरे क्रुद्धः कालनेमिर्महासुरः ।व्यवर्द्धत समुद्रौघैः पूर्यमाण इवास्तुदः ॥३७॥तस्य विद्युच्यला पीडाः प्रदीप्ताशनिवर्षिणः ।गात्रे नगशिरः प्रख्या विनिष्पेषुर्बलाहकाः ॥३८॥क्रोधान्निःश्वररतस्तस्य भ्रूभेदस्वेदवर्षिणः ।साग्निनिष्पेषपवना मुखान्निश्चेरुरर्चिषः ॥३९॥तिर्यगूर्ध्वं च गगने ववृधुस्तस्य बाहवः ।पञ्चास्याः कृष्णवपुषो लेलिहाना इवोरगाः ॥४०॥सोऽस्त्रजालैर्बहुविधैर्धनुर्भिः परिघैरपि ।दिव्यैराकाशमावव्रे पर्वतैरुच्छ्रितैरिव ॥४१॥सोऽनिलोद्धूतवसनस्तस्थौ संग्राममूर्धनि ।संध्यातपग्रस्तशिखः सार्चिर्मेरुरिवापरः ॥४२॥ऊरुवेगप्रतिक्षिप्तैः शैलशृङ्गाग्रपादपैः ।अपातयद् देवगणान् वज्रेणेव महागिरीन् ॥४३॥बाहुभिः शस्त्रनिस्त्रिंशैश्छिन्नभिन्नशिरोरसः ।न शेकुश्चलितुं देवाः कालनेमिहता युधि ॥४४॥मुष्टिभिर्निहताः केचित् केचिच्च विदलीकृताः ।यक्षगन्धर्वपतयः पेतुः सह महोरगैः ॥४५॥तेन वित्रासिता देवाः समरे कालनेमिना ।न शेकुर्यत्नवन्तोऽपि प्रतिकर्तुं विचेतसः ॥४६॥तेन शक्रः सहस्राक्षः स्तम्भितः शरबन्धनैः ।ऐरावतगतः संख्ये चलितुं न शशाक ह ॥४७॥निर्जलाम्भोदसदृशो निर्जलार्णवसप्रभः ।निर्व्यापारः कृतस्तेन विपाशो वरुणो मृधे ॥४८॥रणे वैश्रवणस्तेन परिघैः कालरूपिभिः ।व्यलपल्लोकपालेशस्त्याजितो धनदक्रियाम् ॥४९॥यमः सर्वहरस्तेन दण्डप्रहरणो रणे ।याम्यामवस्थां समरे नीतः स्वां दिशमाविशत् ॥५०॥स लोकपालानुत्साद्य कृत्वा तेषां च कर्म तत् ।दिक्षु सर्वासु देहं स्वं चतुर्धा विदधे तदा ॥५१॥स नक्षत्रपथे गत्वा दिव्यं स्वर्भानुदर्शितम् ।जहार लक्ष्मीं सोमस्य तं चास्य विषयं महत् ॥५२॥चालयामासदीप्तांशुं स्वर्गद्वारात्स भास्करम् ।सायनं चास्य विषयं जहार दिनकर्म च ॥५३॥सोऽग्निं देवमुखे दृष्ट्वा चकारात्ममुखे स्वयम् ।वायुं च तरसा जित्वा चकारात्मवशानुगम् ॥५४॥ससमुद्राः समानीय सर्वाश्च सरितो बलात् ।चकारात्मवशे वीर्याद् देहभूताश्च सिन्धवः ॥५५॥अपः स्ववशगाः कृत्वा दिविजा याश्च भूमिजाः ।स्थापयामास जगतीं सुगुप्तां धरणीधरैः ॥५६॥स स्वयम्भूरिवाभाति महाभूतपतिर्महान् ।सर्वलोकमयो दैत्यः सर्वलोकभयावहः ॥५७॥स लोकपालैकवपुश्चन्द्रसूर्यग्रहात्मवान् ।पावकानिलसंघातो रराज युधि दानवः ॥५८॥पारमेष्ठ्ये स्थितः स्थाने लोकानां प्रभवाप्यये ।तुष्टुवुस्तं दैत्यगणा देवा इव पितामहम् ॥५९॥इति श्रीमहाभारते खिलभागे हरिवंशे हरिवंशपर्वणि आश्चर्यतारकामये सप्तचत्वारिंशोऽध्यायः॥४७॥ N/A References : N/A Last Updated : July 12, 2018 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP