संस्कृत सूची|संस्कृत साहित्य|पुराण|हरिवंशपुराणम्|हरिवंश पर्व| पञ्चविंशतितमोऽध्यायः हरिवंश पर्व प्रथमोऽध्यायः द्वितीयोऽध्यायः तृतीयोऽध्यायः चतुर्थोऽध्यायः पञ्चमोऽध्यायः षष्ठोऽध्यायः सप्तमोऽध्यायः अष्टमोऽध्यायः नवमोऽध्यायः दशमोऽध्यायः एकादशोऽध्यायः द्वादशोऽध्यायः त्रयोदशोऽध्यायः चतुर्दशोऽध्यायः पञ्चदशोऽध्यायः षोडशोऽध्यायः सप्तदशोऽध्यायः अष्टादशोऽध्यायः एकोनविंशोऽध्यायः विंशोऽध्यायः एकविंशोऽध्यायः त्रयोविंशतितमोऽध्यायः चतुर्विशतितमोऽध्यायः पञ्चविंशतितमोऽध्यायः षडविंशोऽध्यायः सप्तविंशोऽध्यायः अष्टाविंशोऽध्यायः एकोनत्रिंशोऽध्यायः त्रिंशोऽध्यायः एकत्रिंशोऽध्यायः द्वात्रिंशोऽध्यायः त्रयस्त्रिंशोऽध्यायः चतुस्त्रिंशोऽध्यायः पञ्चत्रिंशोऽध्यायः षट्त्रिंशोऽध्यायः सप्तत्रिंशोऽध्यायः अष्टत्रिंशोऽध्यायः एकोनचत्वारिंशोऽध्यायः चत्वारिंशोऽध्यायः एकचत्वारिंशोऽध्यायः द्विचत्वारिंशोऽध्यायः त्रिचत्वारिंशोऽध्यायः चतुश्चत्वारिंशोऽध्यायः पञ्चचत्वारिंशोऽध्यायः षट्चत्वारिंशोऽध्यायः सप्तचत्वारिंशोऽध्यायः अष्टचत्वारिंशोऽध्यायः एकोनपञ्चाशत्तमोऽध्यायः पञ्चाशत्तमोऽध्यायः एकपञ्चाशत्तमोऽध्यायः द्विपञ्चाशत्तमोऽध्यायः त्रिपञ्चाशत्तमोऽध्यायः चतुष्पञ्चाशत्तमोऽध्यायः पञ्चपञ्चाशत्तमोऽध्याय हरिवंश पर्व - पञ्चविंशतितमोऽध्यायः महर्षी व्यासांनी रचलेला हा महाभारताचा पुरवणी ग्रंथ आहे. Tags : harivansha puranpuransanskritपुराणसंस्कृतहरिवंश पुराण पञ्चविंशतितमोऽध्यायः Translation - भाषांतर चन्द्रमसः उत्पत्तिः एवं राजसूयानुष्ठानम्, देवासुरसंग्रामः एवं बुधस्योत्पत्तिवैशम्पायन उवाचपिता सोमस्य वै राजन् जज्ञेऽत्रिर्भगवानृषिः ।ब्रह्मणो मानसात् पूर्वं प्रजासर्गं विधित्सतः ॥१॥तत्रात्रिः सर्वभूतानां तस्थौ स्वतनयैर्युतः ।कर्मणा मनसा वाचा शुभान्येव चचार सः ॥२॥अहिंस्रः सर्वभूतेषु धर्मात्मा संशितव्रतः ।काष्ठकुड्यशिलाभूत ऊर्ध्वबाहुर्महाद्युतिः ॥३॥अनुत्तरं नाम तपो येन तप्तं महत् पुरा ।त्रीणि वर्षसहस्त्राणि दिव्यानीति हि नः श्रुतम् ॥४॥तत्रोर्ध्वरेतसस्तस्य स्थितस्यानिमिषस्य ह ।सोमत्वं तनुरापेदे महासत्त्वस्य भारत ॥५॥ऊर्ध्वमाचक्रमे तस्य सोमत्वं भावितात्मनः ।नेत्राभ्यां वारि सुस्राव दशधा द्योतयद् दिशः ॥६॥तं गर्भं विधिना हृष्टा दश देव्यो दधुस्तदा ।समेत्य धारयामासुर्न च ताः समशक्नुवन् ॥७॥स ताभ्यः सहसैवाथ दिग्भ्यो गर्भः प्रभान्वितः ।पपात भासयँल्लोकाञ्छीतांशुः सर्वभावनः ॥८॥यदा न धारणे शक्तास्तस्य गर्भस्य ता दिशः ।ततस्ताभिः सहैवाशु निपपात वसुंधराम् ॥९॥पतितं सोममालोक्य ब्रह्मा लोकपितामहः ।रथमारोपयामास लोकानां हितकाम्यया ॥१०॥स हि वेदमयस्तात धर्मात्मा सत्यसंग्रहः ।युक्तो वाजिसहस्रेण सितेनेति हि नः श्रुतम् ॥११॥तस्मिन् निपतिते देवाः पुत्रेऽत्रेः परमात्मनि ।तुष्टवुर्ब्रह्मणः पुत्रा मानसाः सप्त ये श्रुताः ॥१२॥तथैवाङ्गिरसस्तत्र भृगुरेवात्मजैः सह ।ऋग्भिर्यजुर्भिर्बहुलैरथर्वाङ्गिरसैरपि ॥१३॥तस्य संस्तूयमानस्य तेजः सोमस्य भास्वतः ।आप्यायमानं लोकांस्त्रीन् भासयामास सर्वशः ॥१४॥स तेन रथमुख्येन सागरान्तां वसुंधराम् ।त्रिःसप्तकत्वोऽतियशाश्चकाराभिप्रदक्षिणम् ॥१५॥तस्य यच्च्यावितं तेजः पृथिवीमन्वपद्यत ।ओषध्यस्ताः समुद्भूतास्तेजसा प्रज्वलन्त्युत ॥१६॥ताभिर्धार्यास्त्रयो लोकाः प्रजाश्चैव चतुर्विधाः ।पोष्टा हि भगवान् सोमो जगतो जगतीपते ॥१७॥स लब्धतेजा भगवान् संस्तवैस्तैश्च कर्मभिः ।तपस्तेपे महाभाग पद्मानां दशतीर्दश ॥१८॥हिरण्यवर्णा या देव्यो धारयन्त्यात्मना जगत् ।निधिस्तासामभूद्देवः प्रख्यातः स्वेन कर्मणा ॥१९॥ततस्तस्मै ददौ राज्यं ब्रह्मा ब्रह्मविदां वरः ।बीजौषधीनां विप्राणामपां च जनमेजय ॥२०॥सोऽभिषिक्तो महाराज राजराज्येन राजराट् ।लोकांस्त्रीन् भासयामास स्वभासा भास्वतां वरः ॥२१॥सप्तविंशतिमिन्दोस्तु दाक्षायण्यो महाव्रताः ।ददौ प्राचेतसो दक्षो नक्षत्राणीति या विदुः ॥२२॥स तत् प्राप्य महद्राज्यं सोमः सोमवतां वरः ।समाजह्रे राजसूयं सहस्रशतदक्षिणम् ॥२३॥होतास्य भगवानत्रिरध्वर्युर्भगवान् भृगुः ।हिरण्यगर्भश्चोद्गाता ब्रह्मा ब्रह्मत्वमेयिवान् ॥२४॥सदस्यस्तत्र भगवान् हरिर्नारायणः स्वयम् ।सनत्कुमारप्रमुखैराद्यैर्ब्रह्मर्षिभिर्वृतः ॥२५॥दक्षिणामददात्सोमस्त्रील्लोकानिति नः श्रुतम् ।तेभ्यो ब्रह्मर्षिमुख्येम्यः सदस्येभ्यश्च भारत ॥२६॥तं सिनिश्च कुहूश्चैव द्युतिः पुष्टिः प्रभा वसुः ।कीर्तिर्धृतिश्च लक्ष्मीश्च नव देव्यः सिषेविरे ॥२७॥प्राप्यावभृथमव्यग्रः सर्वदेवर्षिपूजितः ।विरराजाधिराजेन्द्रो दशधा भासयन् दिशः ॥२८॥तस्य तत्प्राप्य दुष्प्राप्यमैश्वर्यं मुनिसत्कृतम् ।विबभ्राम मतिस्तात विनयादनयाऽऽहता ॥२९॥बृहस्पतेः स वै भार्या तारां नाम यशस्विनीम् ।जहार तरसा सर्वानवमत्याङ्गिरःसुतान् ॥३०॥स याच्यमानो देवैश्च तथा देवर्षिभिः सह ।नैव व्यसर्जयत् तारां तस्मा आङ्गिरसे तदा ।स संरब्धस्ततस्तस्मिन् देवाचार्यो बृहस्पतिः ॥३१॥उशना तस्य जग्राह पार्ष्णिमाङ्गिरसस्तदा ।स हि शिष्यो महातेजाः पितुः पूर्वो बृहस्पतेः ॥३२॥तेन स्नेहेन भगवान् रुद्रस्तस्य बृहस्पतेः ।पार्ष्णिग्राहोऽभवद् देवः प्रगृह्याजगवं धनुः ॥३३॥तेन ब्रह्मशिरो नाम परमास्त्रं महात्मना ।उद्दिश्य दैत्यानुत्सृष्टं येनैषां नाशितं यशः ॥३४॥तत्र तद् युद्धमभवत् प्रख्यातं तारकामयम् ।देवानां दानवानां च लोकक्षयकरं महत् ॥३५॥तत्र शिष्टास्तु ये देवास्तुषिताश्चैव भारत ।ब्रह्माणं शरणं जग्मुरादिदेवं सनातनम् ॥३६॥ततो निवार्योशनसं रुद्रं ज्येष्ठं च शङ्करम् ।ददावङ्गिरसे तारां स्वयमेव पितामहः ॥३७॥तामन्तःप्रसवां दृष्ट्वा तारां प्राह बृहस्पतिः ।मदीयायां न ते योनौ गर्भो धार्यः कथंचन ॥३८॥अयोनावुत्सृजत् तं सा कुमारं दस्युहन्तमम् ।इषीकास्तम्बमासाद्य ज्वलन्तमिव पावकम् ॥३९॥जातमात्रः स भगवान् देवानामक्षिपद् वपुः ।ततः संशयमापन्ना इमामकथयन् सुराः ॥४०॥सत्यं ब्रूहि सुतः कस्य सोमस्याथ बृहस्पतेः ।पृच्छ्यमाना यदा देवैर्नाह सा साध्वसाधु वा ॥४१॥तदा तां शप्तुमारब्धः कुमारो दस्युहन्तमः ।तं निवार्य ततो ब्रह्मा तारां पप्रच्छ संशयम् ॥४२॥यदत्र तथ्यं तद् ब्रूहि तारे कस्य सुतस्त्वयम् ।सा प्राञ्जलिरुवाचेदं ब्रह्माणं वरदं प्रभुम् ॥४३॥सोमस्येति महात्मानं कुमारं दस्युहन्तमम् ।ततस्तं मूर्ध्न्युपाघ्राय सोमो धाता प्रजापतिः ॥४४॥बुध इत्यकरोन्नाम तस्य पुत्रस्य धीमतः ।प्रतिकूलं च गगने समभ्युत्तिष्ठते बुधः ॥४५॥उत्पादयामास ततः पुत्रं वै राजपुत्रिका ।तस्यापत्यं महाराजो बभूवैलः पुरूरवाः ॥४६॥उर्वश्यां जज्ञिरे यस्य पुत्राः सप्त महात्मनः ।प्रसह्य धर्षितस्तत्र सोमो वै राजयक्ष्मणा ॥४७॥ततो यक्ष्माभिभूतस्तु सोमः प्रक्षीणमण्डलः ।जगाम शरणार्थाय पितरं सोऽत्रिमेव तु ॥४८॥तस्य तत्तापशमनं चकारात्रिर्महातपाः ।स राजयक्ष्मणा मुक्तः श्रिया जज्वाल सर्वतः ॥४९॥एवं सोमस्य वै जन्म कीर्तितं कीर्तिवर्धनम् ।वंशमस्य महाराज कीर्त्यमानं च मे शृणु ॥५०॥धन्यमारोग्यमायुष्यं पुण्यं संकल्पसाधनम् ।सोमस्य जन्म श्रुत्वैव पापेभ्यो विप्रमुच्यते ॥५१॥इति श्रीमहाभारते खिलभागे हरिवंशे हरिवंशपर्वणि सोमोत्पत्तिकथने पञ्चविंशोऽध्यायः ॥२५॥ N/A References : N/A Last Updated : July 12, 2018 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP