TransLiteral Foundation
संस्कृत सूची|संस्कृत साहित्य|पुराण|हरिवंशपुराणम्|हरिवंश पर्व|
चतुश्चत्वारिंशोऽध्यायः

हरिवंश पर्व - चतुश्चत्वारिंशोऽध्यायः

महर्षी व्यासांनी रचलेला हा महाभारताचा पुरवणी ग्रंथ आहे.


चतुश्चत्वारिंशोऽध्यायः
आश्चर्यमये तारकामयसंग्रामे देवसेनायाः युद्धाय उद्यमम्

वैशम्पायन उवाच
श्रुतस्ते दैत्यसैन्यस्य विस्तरस्तात विग्रहे ।
सुराणां सर्वसैन्यस्य विस्तरं वैष्णवं शृणु ॥१॥
आदित्या वसवो रुद्रा अश्विनौ च महाबलौ ।
सबलाः सानुगाश्चैव संनह्यन्त यथाबलम् ॥२॥
पुरुहूतस्तु पुरतो लोकपालः सहस्रदृक् ।
ग्रामणीः सर्वदेवानामारुरोह सुरद्विपम् ॥३॥
सव्ये चास्य रथः पार्श्वे पक्षिप्रवरवेगवान् ।
सुचारुचक्रचरणो हेमवज्रपरिष्कृतः ॥४॥
देवगन्धर्वयक्षौघैरनुयातः सहस्रशः ।
दीप्तिमद्भिः सदस्यैश्च ब्रह्मर्षिभिरभिष्टुतः ॥५॥
वज्रविस्फूर्जितोद्धूतैर्विद्युदिन्द्रायुधान्वितैः ।
गुप्तो बलाहकगणैः कामगैरिव पर्वतैः ॥६॥
समारूढः स भगवान् पर्येति मघवा गजम् ।
हविर्धानेषु गायन्ति विप्राः सोममखे स्थिताः ॥७॥
स्वर्गे शक्रानुयानेषु देवतूर्यनिनादिषु ।
इन्द्रं समुपनृत्यन्ति शतशो ह्यप्सरोगणाः ॥८॥
केतुना वंशजातेन राजमानो यथा रविः ।
युक्तो हरिसहस्रेण मनोमारुतरंहसा ॥९॥
स स्यन्दनवरो भाति युक्तो मातलिना तदा ।
कृत्स्नः परिवृतो मेरुर्भास्करस्येव तेजसा ॥१०॥
यमस्तु दण्डमुद्यम्य कालयुक्तं च मुद्गरम् ।
तस्थौ सुरगणानीके दैत्यान् नादेन भीषयन् ॥११॥
चतुर्भिः सागरैर्गुप्तो लेलिहानैश्च पन्नगैः ।
शङ्खमुक्ताङ्गदधरो बिभ्रत्तोयमयं वपुः ॥१२॥
कालपाशं समाविध्य हयैः शशिकरोपमैः ।
वाय्वीरितजलोद्गारैः कुर्वंल्लीलाः सहस्रशः ॥१३॥
पाण्डुरोद्धूतवसनः प्रवालरुचिराधरः ।
मणिश्यामोत्तमवपुर्हारभारार्पितोदरः ॥१४॥
वरुणः पाशभृन्मध्ये देवानीकस्य तस्थिवान् ।
युद्धवेलामभिलषत् भिन्नवेल इवार्णवः ॥१५॥
यक्षराक्षससैन्येन गुह्यकानां गणैरपि ।
मणिश्यामोत्तमवपुः कुबेरो नरवाहनः ॥१६॥
युक्तश्च शङ्खपद्माभ्यां निधीनामधिपः प्रभुः ।
राजराजेश्वरः श्रीमान् गदापाणिरदृश्यत ॥१७॥
विमानयोधी धनदो विमाने पुष्पके स्थितः ।
स राजराजः शुशुभे युद्धार्थी नरवाहनः ।
प्रेक्ष्यमाणः शिवसखः साक्षादिव शिवः स्वयम् ॥१८॥
पूर्वं पक्षं सहस्राक्षः पितृराजस्तु दक्षिणम् ।
वरुणः पश्चिमं पक्षमुत्तरं नरवाहनः ॥१९॥
चतुर्षु युक्ताश्चत्वारो लोकपाला बलोत्कटाः ।
स्वासु दिक्ष्वभ्यरक्षन् वै तस्य देवबलस्य ह ॥२०॥
सूर्यः सप्ताश्वयुक्तेन रथेनाम्बरगामिना ।
श्रिया जाज्वल्यमानेन दीप्यमानैश्च रश्मिभिः ॥२१॥
उदयास्तमयं चक्रे मेरुपर्यन्तगामिना ।
त्रिदिवद्वारचक्रेण तपता लोकमव्ययम् ॥२२॥
सहस्ररश्मियुक्तेन भ्राजमानः स्वतेजसा ।
चचार मध्ये देवानां द्वादशात्मा दिनेश्वरः ॥२३॥
सोमः श्वेतहयैर्भाति स्यन्दने शीतरश्मिवान् ।
हिमतोयप्रपूर्णाभिर्भाभिराह्लादयञ्जगत् ॥२४॥
तमृक्षयोगानुगतं शिशिरांशुं द्विजेश्वरम् ।
जगच्छायाङ्किततनुं नैशस्य तमसः क्षयम् ॥२५॥
ज्योतिषामीश्वरं व्योम्नि रसानां रसनं प्रभुम् ।
ओषधीनां परित्राणं निधानममृतस्य च ॥२६॥
जगतः प्रथमं भागं सौम्यं शीतमयं रसम ।
ददृशुर्दानवाः सोमं हिमप्रहरणस्थितम् ॥२७
यः प्राणः सर्वभूतानां पञ्चधा भिद्यते नृषु ।
सप्तस्कन्धगतो लोकांस्त्रीन्दधार चराचरान् ॥२८॥
यमाहुरग्नेर्यन्तारं सर्वप्रभवमीश्वरम् ।
सप्तस्वरगता यस्य योनिर्गीतिरुदीर्यते ॥२९॥
यं वदन्त्युत्तमं भूतं यं वदन्त्यशरीरिणम् ।
यमाहुराकाशगमं शीघ्रगं शब्दयोनिजम् ॥३०॥
स वायुः सर्वभूतायुरुद्भूतः स्वेन तेजसा ।
ववौ प्रव्यथयन् दैत्यान् प्रतिलोमः सतोयदः ॥३१॥
मरुतो देवगन्धर्वा विद्याधरगणैः सह ।
चिक्रीडुरसिभिः शुभ्रैर्निर्मुक्तैरिव पन्नगैः ॥३२॥
सृजन्तः सर्पपतयस्तीव्रं रोषमयं विषम् ।
शरभूताः सुरेन्द्राणां चेरुर्व्यात्तमुखा दिवि ॥३३॥
पर्वतास्तु शिलाशृङ्गैः शतशाखैश्च पादपैः ।
उपतस्थुः सुरगणान् प्रहर्तुं दानवं बलम् ॥३४॥
यः स देवो इषीकेशः पद्मनाभस्त्रिविक्रमः ।
कृष्णवर्त्मा युगान्ताभो विश्वस्य जगतः प्रभुः ॥३५॥
समुद्रयोनिर्मधुहा हव्यभुक्क्रतुसत्कृतः ।
भूरापोव्योमभूतात्मा समः शान्तिकरोऽरिहा ॥३६॥
जगद्योनिर्जगद्बीजो जगद्गुरुरुदारधीः ।
सोऽर्कमग्निमिवोद्यन्तमुद्यम्योत्तमतेजसम् ॥३७॥
अरिघ्नममरानीके चक्रं चक्रगदाधरः ।
सपरीवेषमुद्यन्तं सवितुर्मण्डलं यथा ॥३८॥
सव्येनालम्ब्य महतीं सर्वासुरविनाशिनीम् ।
करेण कालीं वपुषा शत्रुकालप्रदां गदाम् ॥३९॥
शेषैर्भुजैः प्रदीप्तानि भुजगारिध्वजः प्रभुः ।
दधारायुधजालानि शार्ङ्गादीनि महायशाः ॥४०॥
स कश्यपस्यात्मभवं द्विजं भुजगभोजनम् ।
पवनाधिकसम्पातं गगनक्षोभणं खगम् ।
भुजगेन्द्रेण वदने निविष्टेन विराजितम् ॥४१॥
अमृतारम्भनिर्मुक्तं मन्दराद्रिमिवोच्छ्रितम् ।
देवासुरविमर्देषु शतशो दृष्टविक्रमम् ॥४२॥
महेन्द्रेणामृतस्यार्थे वज्रेण कृतलक्षणम् ।
शिखिनं चूडिनं चैव तप्तकुण्डलभूषणम् ।
विचित्रपक्षवसनं धातुमन्तमिवाचलम् ॥४३॥
स्फीतक्रोडावलम्बेन शीतांशुसमतेजसा ।
भोगिभोगावसक्तेन मणिरत्नेन भास्वता ॥४४॥
पक्षाभ्यां चारुचित्राभ्यामावृत्य दिवि लीलया ।
युगान्ते सेन्द्रचापाभ्यां तोयदाभ्यामिवाम्बरम् ॥४५॥
नीललोहितपीताभिः पताकाभिरलंकृतम् ।
केतुवेषप्रतिच्छन्नं महाकायनिकेतनम् ॥४६॥
अरुणावरजं श्रीमानारुह्य समरे हरिः ।
सुवर्णं स्वेन वपुषा सुपर्णं खेचरोत्तमम् ॥४७॥
तमन्वयुर्देवगणा मुनयश्च तपोधनाः ।
गीर्भिः परममन्त्राभिस्तुष्टुवुश्च गदाधरम् ॥४८॥
तद्वैश्रवणसंश्लिष्टं वैवस्वतपुरस्सरम् ।
वारिराजपरिक्षिप्तं देवराजविराजितम् ॥४९॥
चन्द्रप्रभाभिर्विमलं युद्धाय समुपस्थितम् ।
पवनाबद्धनिर्घोषं सम्प्रदीप्तहुताशनम् ॥५०॥
विष्णोर्जिष्णोः सहिष्णोश्च भ्राजिष्णोस्तेजसा वृतम् ।
बलं बलवदुद्भूतं युद्धाय समवर्तत ॥५१॥
स्वस्त्यस्तु देवेभ्य इति स्तुत्वा तत्राङ्गिराऽब्रवीत् ।
स्वस्त्यस्तु दैत्येभ्य इति उशना वाक्यमाददे ॥५२॥
इति श्रीमहाभारते खिलभागे हरिवंशे हरिवंशपर्वणि आश्चर्यतारकामये चतुश्चत्वारिंशोऽध्यायः ॥४४॥

Translation - भाषांतर
N/A

References : N/A
Last Updated : 2018-07-12T13:28:07.5030000

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.

instantaneous power

  • तत्क्षणिक शक्ति 
RANDOM WORD

Did you know?

हिंदू धर्मियांत मुलांचे किंवा मुलींचे कान कां टोचतात?
Category : Hindu - Beliefs
RANDOM QUESTION
Don't follow traditions blindly or ignore them. Don't assume a superstition either. Don't be intentionally ignorant. Ask us!!
Hindu customs are all about Symbolism. Let us tell you the thought behind those traditions.
Make Informed Religious decisions.