संस्कृत सूची|संस्कृत साहित्य|पुराण|हरिवंशपुराणम्|हरिवंश पर्व| एकपञ्चाशत्तमोऽध्यायः हरिवंश पर्व प्रथमोऽध्यायः द्वितीयोऽध्यायः तृतीयोऽध्यायः चतुर्थोऽध्यायः पञ्चमोऽध्यायः षष्ठोऽध्यायः सप्तमोऽध्यायः अष्टमोऽध्यायः नवमोऽध्यायः दशमोऽध्यायः एकादशोऽध्यायः द्वादशोऽध्यायः त्रयोदशोऽध्यायः चतुर्दशोऽध्यायः पञ्चदशोऽध्यायः षोडशोऽध्यायः सप्तदशोऽध्यायः अष्टादशोऽध्यायः एकोनविंशोऽध्यायः विंशोऽध्यायः एकविंशोऽध्यायः त्रयोविंशतितमोऽध्यायः चतुर्विशतितमोऽध्यायः पञ्चविंशतितमोऽध्यायः षडविंशोऽध्यायः सप्तविंशोऽध्यायः अष्टाविंशोऽध्यायः एकोनत्रिंशोऽध्यायः त्रिंशोऽध्यायः एकत्रिंशोऽध्यायः द्वात्रिंशोऽध्यायः त्रयस्त्रिंशोऽध्यायः चतुस्त्रिंशोऽध्यायः पञ्चत्रिंशोऽध्यायः षट्त्रिंशोऽध्यायः सप्तत्रिंशोऽध्यायः अष्टत्रिंशोऽध्यायः एकोनचत्वारिंशोऽध्यायः चत्वारिंशोऽध्यायः एकचत्वारिंशोऽध्यायः द्विचत्वारिंशोऽध्यायः त्रिचत्वारिंशोऽध्यायः चतुश्चत्वारिंशोऽध्यायः पञ्चचत्वारिंशोऽध्यायः षट्चत्वारिंशोऽध्यायः सप्तचत्वारिंशोऽध्यायः अष्टचत्वारिंशोऽध्यायः एकोनपञ्चाशत्तमोऽध्यायः पञ्चाशत्तमोऽध्यायः एकपञ्चाशत्तमोऽध्यायः द्विपञ्चाशत्तमोऽध्यायः त्रिपञ्चाशत्तमोऽध्यायः चतुष्पञ्चाशत्तमोऽध्यायः पञ्चपञ्चाशत्तमोऽध्याय हरिवंश पर्व - एकपञ्चाशत्तमोऽध्यायः महर्षी व्यासांनी रचलेला हा महाभारताचा पुरवणी ग्रंथ आहे. Tags : harivansha puranpuransanskritपुराणसंस्कृतहरिवंश पुराण एकपञ्चाशत्तमोऽध्यायः Translation - भाषांतर ब्रह्मणा भगवन्तं विष्णुं जगतः वर्तमानायाः अवस्थायाः वर्णनं कृत्वा पृथिव्याः भारं उद्धरणाय मन्त्रणम्वैशम्पायन उवाचतच्छ्रुत्वा विष्णुगदितं ब्रह्मा लोकपितामहः ।उवाच परमं वाक्यं हितं सर्वदिवौकसाम् ॥१॥नास्ति किंचिद्भयं विष्णो सुराणामसुरान्तक ।येषां भवानभयदः कर्णधारो रणे रणे ॥२॥शक्रे जयति देवेशे त्वयि चासुरसूदने ।धर्मे प्रयतमानानां मानवानां कुतो भयम् ॥३॥सत्ये धर्मे च निरतान् मानवान् विगतज्वरान् ।नाकाले धर्मिणो मृत्युः शक्नोति प्रसमीक्षितुम् ॥४॥मानवानां च पतयः पार्थिवाश्च परस्परम् ।षड्भागमुपभुञ्जाना न भयं कुर्वते मिथः ॥५॥ते प्रजानां शुभकराः करदैरविगर्हिताः ।सुकरैर्विप्रयुक्तार्थाः कोशमापूरयन्त्युत ॥६॥स्फीताञ्जनपदान् सर्वान् पालयन्तः क्षमापराः ।अतीक्ष्णदण्डांश्चतुरो वर्णाञ्जुगुपुरञ्जसा ॥७॥नोद्वेजनीया भूतानां सचिवैः साधुपूजिताः ।चतुरङ्गबलैर्गुप्ताः षड्गुणानुपयुञ्जते ॥८॥धनुर्वेदपराः सर्वे सर्वे वेदेषु निष्ठिताः ।यजन्ते च यथाकालं यज्ञैर्विपुलदक्षिणैः ॥९॥वेदानधीत्य दीक्षाभिर्महर्षीन् ब्रह्मचर्यया ।श्राद्धैश्च मेध्यैः शतशस्तर्पयन्ति पितामहान् ॥१०॥नैषामविदितं किंचित्त्रिविधं भुवि दृश्यते ।वैदिकं लौकिकं चैव धर्मशास्त्रोक्तमेव च ॥११॥ते परावरदृष्टार्था महर्षिसमतेजसः ।भूयः कृतयुगं कर्तुमुत्सहन्ते नराधिपाः ॥१२॥तेषामेव प्रभावेण शिवं वर्षति वासवः ।यथार्थं च ववुर्वाता विरजस्का दिशो दश ॥१३॥निरुत्पाता च वसुधा सुप्रचाराश्च खे ग्रहाः ।चन्द्रमाश्च सनक्षत्रः सौम्यं चरति योगतः ॥१४॥अनुलोमकरः सूर्यस्त्वयने द्वे चचार ह ।हव्यैश्च विविधैस्तप्तः शुभगन्धो हुताशनः ॥१५॥एवं सम्यक् प्रवृत्तेषु विवृद्धेषु मखादिषु ।तर्पयत्सु महीं कृत्स्नां नृणां कालभयं कुतः ॥१६॥तेषां ज्वलितकीर्तीनामन्योन्यवशवर्तिनाम् ।राज्ञां बलैर्बलवता पीड्यते वसुधातलम् ॥१७॥सेयं भारपरिश्रान्ता पीड्यमाना नराधिपैः ।पृथिवी समनुप्राप्ता नौरिवासन्नविप्लवा ॥१८॥युगान्तसदृशै रूपैः शैलोच्चलितबन्धना ।जलोत्पीडाकुला स्वेदं धारयन्ती मुहुर्मुहुः ॥१९॥क्षत्रियाणां वपुर्भिश्च तेजसा च बलेन च ।नृणां च राष्ट्रैर्विस्तीर्णैः श्राम्यतीव वसुन्धरा ॥२०॥पुरे पुरे नरपतिः कोटिसंख्यैर्बलैर्वृतः ।राष्ट्रे राष्ट्रे च बहवो ग्रामाः शतसहस्रशः ॥२१॥भूमिपानां सहस्रैश्च तेषां च बलिनां बलैः ।ग्रामायुताढ्यै राष्ट्रैश्च भूमिर्निर्विवराकृता ॥२२॥सेयं निरामयं कृत्वा निश्चेष्टा कालमग्रतः ।प्राप्ता ममालयं विष्णो भवांश्चास्याः परा गतिः ॥२३॥कर्मभूमिर्मनुष्याणां भूमिरेषा व्यथां गता ।यथा न सीदेत् तत् कार्यं जगत्येषा हि शाश्वती ॥२४॥अस्या हि पीडने दोषो महान् स्यान्मधुसूदन ।क्रियालोपश्च लोकानां पीडितं च जगद् भवेत् ॥२५॥श्राम्यते व्यक्तमेवेयं पार्थिवौघप्रपीडिता ।सहजां या क्षमां त्यक्त्वा चलत्वमचला गता ॥२६॥तदस्याः श्रुतवन्तः स्म तच्चापि भवता श्रुतम् ।भारावतरणार्थं हि मन्त्रयाम सह त्वया ॥२७॥सत्पथे हि स्थिताः सर्वे राजानो राष्ट्रवर्धनाः ।नराणां च त्रयो वर्णा ब्राह्मणाननुयायिनः ॥२८॥सर्वं सत्यपरं वाक्यं वर्णा धर्मपरास्तथा ।सर्वे वेदपरा विप्राः सर्वे विप्रपरा नराः ॥२९॥एवं जगति वर्तन्ते मनुष्या धर्मकारणात् ।यथा धर्मवधो न स्यात् तथा मन्त्रः प्रवर्त्यताम् ॥३०॥सतां गतिरियं नान्या धर्मश्चास्याः सुसाधनम् ।राज्ञां चैव वधः कार्यो धरण्या भारनिर्णये ॥३१॥तदागच्छ महाभाग सह वै मन्त्रकारणात् ।व्रजामो मेरुशिखरं पुरस्कृत्य वसुंधराम् ॥३२॥एतावदुक्त्वा राजेन्द्र ब्रह्मा लोकपितामहः ।इति श्रीमहाभारते खिलभागे हरिवंशे हरिवंशपर्वणि भारावतरणे एकपञ्चाशत्तमोऽध्यायः ॥५१॥ N/A References : N/A Last Updated : July 12, 2018 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP