संस्कृत सूची|संस्कृत स्तोत्र साहित्य|पुराण|हरिवंशपुराणम्|हरिवंश पर्व| त्रिपञ्चाशत्तमोऽध्यायः हरिवंश पर्व प्रथमोऽध्यायः द्वितीयोऽध्यायः तृतीयोऽध्यायः चतुर्थोऽध्यायः पञ्चमोऽध्यायः षष्ठोऽध्यायः सप्तमोऽध्यायः अष्टमोऽध्यायः नवमोऽध्यायः दशमोऽध्यायः एकादशोऽध्यायः द्वादशोऽध्यायः त्रयोदशोऽध्यायः चतुर्दशोऽध्यायः पञ्चदशोऽध्यायः षोडशोऽध्यायः सप्तदशोऽध्यायः अष्टादशोऽध्यायः एकोनविंशोऽध्यायः विंशोऽध्यायः एकविंशोऽध्यायः त्रयोविंशतितमोऽध्यायः चतुर्विशतितमोऽध्यायः पञ्चविंशतितमोऽध्यायः षडविंशोऽध्यायः सप्तविंशोऽध्यायः अष्टाविंशोऽध्यायः एकोनत्रिंशोऽध्यायः त्रिंशोऽध्यायः एकत्रिंशोऽध्यायः द्वात्रिंशोऽध्यायः त्रयस्त्रिंशोऽध्यायः चतुस्त्रिंशोऽध्यायः पञ्चत्रिंशोऽध्यायः षट्त्रिंशोऽध्यायः सप्तत्रिंशोऽध्यायः अष्टत्रिंशोऽध्यायः एकोनचत्वारिंशोऽध्यायः चत्वारिंशोऽध्यायः एकचत्वारिंशोऽध्यायः द्विचत्वारिंशोऽध्यायः त्रिचत्वारिंशोऽध्यायः चतुश्चत्वारिंशोऽध्यायः पञ्चचत्वारिंशोऽध्यायः षट्चत्वारिंशोऽध्यायः सप्तचत्वारिंशोऽध्यायः अष्टचत्वारिंशोऽध्यायः एकोनपञ्चाशत्तमोऽध्यायः पञ्चाशत्तमोऽध्यायः एकपञ्चाशत्तमोऽध्यायः द्विपञ्चाशत्तमोऽध्यायः त्रिपञ्चाशत्तमोऽध्यायः चतुष्पञ्चाशत्तमोऽध्यायः पञ्चपञ्चाशत्तमोऽध्याय हरिवंश पर्व - त्रिपञ्चाशत्तमोऽध्यायः महर्षी व्यासांनी रचलेला हा महाभारताचा पुरवणी ग्रंथ आहे. Tags : harivansha puranpuransanskritपुराणसंस्कृतहरिवंश पुराण त्रिपञ्चाशत्तमोऽध्यायः Translation - भाषांतर ब्रह्मणः आज्ञया देवानां अंशावतरणम्वैशम्पायन उवाचते श्रुत्वा पृथिवीवाक्यं सर्व एव दिवौकसः ।तदर्थकृत्यं संचिन्त्य पितामहमथाब्रुवन् ॥१॥भगवन् ह्रियतामस्या धरण्या भारसंततिः ।शरीरकर्ता लोकानां त्वं हि लोकस्य चेश्वरः ॥२॥यत् कर्तव्यं महेन्द्रेण यमेन वरुणेन च ।यद् वा कार्यं धनेशेन स्वयं नारायणेन वा ॥३॥यद् वा चन्द्रमसा कार्यं भास्करेणानिलेन वा ।आदित्यैर्वसुभिर्वापि रुद्रैर्वा लोकभावनैः ॥४॥अश्विभ्यां देववैद्याभ्यां साध्यैर्वा त्रिदशालयैः ।बृहस्पत्युशनोभ्यां वा कालेन कलिनापि वा ॥५॥महेश्वरेण वा ब्रह्मन् विशाखेन गुहेन वा ।यक्षराक्षसगन्धर्वैश्चारणैर्वा महोरगैः ॥६॥पतङ्गैः पर्वतैश्चापि सागरैर्वा महोर्मिभिः ।गङ्गामुखाभिर्दिव्याभिः सरिद्भिर्वा सुरेश्वर ॥७॥शीघ्रमाज्ञापय विभो कथमंशः प्रयुज्यताम् ।यदि ते पार्थिवं कार्यं कार्यं पार्थिवविग्रहे ॥८॥कथमंशावतरणं कुर्मः सर्वे पितामह ।अन्तरिक्षगता ये च पृथिव्यां पार्थिवाश्च ये ॥९॥सदस्यानां च विप्राणां पार्थिवानां कुलेषु च ।अयोनिजाश्चैव तनूः सृजामो जगतीतले ॥१०॥सुराणामेककार्याणां श्रुत्वैतन्तिश्चितं मतम् ।देवैः परिवृतः प्राह वाक्यं लोकपितामहः ॥११॥रोचते मे सुरश्रेष्ठा युष्माकमपि निश्चयः ।सृजध्वं स्वशरीरांशांस्तेजसाऽऽत्मसमान्भुवि ॥१२॥सर्व एव सुरश्रेष्ठास्तेजोभिरवरोहत ।भावयन्तो भुवं देवीं लब्ध्वा त्रिभुवनश्रियम् ॥१३॥पार्थिवे भारते वंशे पूर्वमेव विजानता ।पृथिव्यां सम्भ्रममिमं श्रूयतां यन्मया कृतम् ॥१४॥समुद्रेऽहं पुरा पूर्वे वेलामासाद्य पश्चिमाम् ।आसं सार्धं तनूजेन कश्यपेन महात्मना ॥१५॥कथाभिः पूर्ववृत्ताभिर्लोकवेदानुगामिभिः ।इतिवृत्तैश्च बहुभिः पुराणप्रभवैर्गुणैः ॥१६॥कुर्वतस्तु कथास्तास्ताः समुद्रः सह गङ्गया ।समीपमाजगामाशु युक्तस्तोयदमारुतैः ॥१७॥स वीचिविषमा कुर्वन् गतिं वेगतरङ्गिणीम् ।यादोगणविचित्रेण सच्छन्नस्तोयवाससा ॥१८॥शङ्खमुक्तामलतनुः प्रवालमणिभूषणः ।युक्तश्चन्द्रमसा पूर्णः साभ्रगम्भीरनिःस्वनः ॥१९॥स मां परिभवन्नेव स्वां वेलां समतिक्रमन् ।क्लेदयामास चपलैर्लावणैरम्बुविस्रवैः ॥२०॥तं च देशं व्यवसितः समुद्रोऽद्भिर्विमर्दितुम् ।उक्तः संरब्धया वाचा शान्तोऽसीति मया तदा ॥२१॥शान्तोऽसीत्युक्तमात्रस्तु तनुत्वं सागरो गतः ।संहतोर्मितरङ्गौघः स्थितो राजश्रिया ज्वलन् ॥२२॥भूयश्चैव मया शप्तः समुद्रः सह गङ्गया ।सकारणां मतिं कृत्वा युष्माकं हितकाम्यया ॥२३॥यस्मात् त्वं राजतुल्येन वपुषा समुपस्थितः ।गच्छार्णव महीपालो राजेव त्वं भविष्यसि ॥२४॥तत्रापि सहजां लीलां धारयन् स्वेन तेजसा ।भविष्यसि नृणां भर्ता भारतानां कुलोद्वहः ॥२५॥शान्तोऽसीति मयोक्तस्त्वं यच्चासि तनुतां गतः ।सुतनुर्यशसा लोके शान्तनुस्त्वं भविष्यसि ॥२६॥इयमप्यायतापाङ्गी गङ्गा सर्वाङ्गशोभना ।रूपिणी च सरिच्छ्रेष्ठा तत्र त्वामुपयास्यति ॥२७॥एवमुक्तस्तु मां क्षुब्धः सोऽभिवीक्ष्यार्णवोऽब्रवीत् ।मां प्रभो देवदेवानां किमर्थं शप्तवानसि ॥२८॥अहं तव विधेयात्मा त्वत्कृतस्त्वत्परायणः ।अशपोऽसदृशैर्वाक्यैरात्मजं मां किमात्मना ॥२९॥भगवंस्त्वत्प्रसादेन वेगात् पर्वणि वर्धितः ।यद्यहं चलितो ब्रह्मन् कोऽत्र दोषो ममात्मनः ॥३०॥क्षिप्ताभिः पवनैरद्भिः स्पृष्टो यद्यसि पर्वणि ।अत्र मे किं नु भगवन् विद्यते शापकारणम् ॥३१॥उद्धतैश्च महावातैः प्रवृद्धैश्च बलाहकैः ।पर्वणा चेन्दुयुक्तेन त्रिभिः क्षुब्धोऽस्मि कारणैः ॥३२॥एवं यद्यपराद्धोऽहं कारणैस्त्वत्प्रकल्पितैः ।क्षन्तुमर्हसि मे ब्रह्मञ्छापोऽयं विनिवर्त्यताम् ॥३३॥एवं मयि निरालम्बे शापाच्छिथिलतां गते ।कारुण्यं कुरु देवेश प्रमाणं यद्यवेक्षसे ॥३४॥अस्यास्तु देवगङ्गाया गां गतायास्त्वदाज्ञया ।मम दोषात् सदोषायाः प्रसादं कर्तुमर्हसि ॥३५॥तमहं श्लक्ष्णया वाचा महार्णवमथाब्रवम् ।अकारणज्ञं देवानां त्रस्तं शापानलेन तम् ॥३६॥शान्तिं व्रज न भेतव्यं प्रसन्नो ऽस्मि महोदधे ।शापेऽस्मिन् सरितां नाथ भविष्यं शृणु कारणम् ॥३७॥त्वं गच्छ भारते वंशे स्वं देहं स्वेन तेजसा ।आधत्स्व सरितां नाथ त्यक्त्वेमां सागरीं तनुम् ॥३८॥महोदधे महीपालस्तत्र राजश्रिया वृतः ।पालयंश्चतुरो वर्णान् रंस्यसे सलिलेश्वर ॥३९॥इयं च ते सरिच्छ्रेष्ठा बिभ्रती रूपमुत्तमम् ।तत्कालं रमणीयाङ्गी गङ्गा परिचरिष्यति ॥४०॥अनया सह जाह्नव्या मोदमानो ममाऽऽज्ञया ।इमं सलिलसंक्लंदं विस्मरिष्यसि सागर ॥४१॥त्वरता चैव कर्तव्यं त्वयेदं मम शासनम् ।प्राजापत्येन विधिना गङ्गया सह सागर ॥४२॥वसवः प्रच्युताः स्वर्गात् प्रविष्टाश्च रसातलम् ।तेषामुत्पादनार्थाय त्वं मया विनियोजितः ॥४३॥अष्टौ ताञ्जाह्नवी गर्भानपत्यार्थं दधात्वियम् ।विभावसोस्तुल्यगुणान्सुराणां प्रीतिवर्धनान् ॥४४॥उत्पाद्य त्वं वसूञ्छीघ्रं कृत्वा कुरुकुलं महत् ।प्रवेष्टासि तनुं त्यक्त्वा पुनः सागर सागरीम् ॥४५॥एवमेतन्मया पूर्वं हितार्थं वः सुरोत्तमाः ।भविष्यं पश्यता भारं पृथिव्याः पार्थिवात्मकम् ॥४६॥तदेष शान्तनोर्वंशः पृथिव्यां रोपितो मया ।वसवो ये च गङ्गायामुत्पन्नास्त्रिदिवौकसः ॥४७॥अद्यापि भुवि गाङ्गेयस्तत्रैव वसुरष्टमः ।सप्तेमे वसवः प्राप्ताः स एकः परिलम्बते ॥४८॥द्वितीयायां स सृष्टायां द्वितीया शान्तनोस्तनुः ।विचित्रवीर्यो द्युतिमानासीद् राजा प्रतापवान् ॥४९॥वैचित्रवीर्यौ द्वावेव पार्थिवौ भुवि साम्प्रतम् ।धृतराष्ट्रश्च पाण्डुश्च विख्यातौ पुरुषर्षभौ ॥५०॥तत्र पाण्डोः श्रिया जुष्टे द्वे भार्ये सम्बभूवतुः ।शुभे कुन्ती च माद्री च देवयोषोपमे तु ते ॥५१॥धृतराष्ट्रस्य राज्ञस्तु भार्यैका तुल्यचारिणी ।गान्धारी भुवि विख्याता भर्तुर्नित्यं व्रते स्थिता ॥५२॥तत्र वंशा विभज्यन्तां विपक्षाः पक्ष एव च ।पुत्राणां हि तयो राज्ञोर्भविता विग्रहो महान् ॥५३॥तेषां विमर्दे दायाद्ये नृपाणां भविता क्षयः ।युगान्तप्रतिमं चैव भविष्यति महद् भयम् ॥५४॥सबलेषु नरेन्द्रेषु शान्तयत्स्वितरेतरम् ।विविक्तपुरराष्ट्रौघा क्षितिः शैथिल्यमेष्यति ॥५५॥द्वापरस्य युगस्यान्ते मया दृष्टं पुरातनम् ।क्षयं यास्यन्ति शस्त्रेण मानवैः सह पार्थिवाः ॥५६॥तत्रावशिष्टान् मनुजान् सुप्तान् निशि विचेतसः ।धक्ष्यते शङ्करस्यांशः पावकेनास्त्रतेजसा ॥५७॥अन्तकप्रतिमे तस्मिन् निवृत्ते क्रूरकर्मणि ।समाप्तमिदमाख्यास्ये तृतीयं द्वापरं युगम् ॥५८॥महेश्वरांशेऽपसृते ततो माहेश्वरं युगम् ।शिष्यं प्रवर्तते पश्चाद् युगं दारुणदर्शनम् ॥५९॥अधर्मप्रायपुरुषं स्वल्पधर्मप्रतिग्रहम् ।उत्सन्नसत्यसंयोगं वर्धितानृतसंचयम् ॥६०॥महेश्वरं कुमारं च द्वौ च देवौ समाश्रिताः ।भविष्यन्ति नराः सर्वे लोके न स्थविरायुषः ॥६१॥तदेष निर्णयः श्रेष्ठः पृथिव्यां पार्थिवान्तकः ।अंशावतरणं सर्वे सुराः कुरुत मा चिरम् ॥६२॥धर्मस्यांशस्तु कुन्त्यां वै माद्रयां च विनियुज्यताम् ।विग्रहस्य कलिर्मूलं गान्धार्यां विनियुज्यताम् ॥६३॥एतौ पक्षौ भविष्यन्ति राजानः कालचोदिताः ।जातरागाः पृथिव्यर्थे सर्वे संग्रामलालसाः ॥६४॥गच्छत्वियं वसुमती स्वां योनिं लोकधारिणी ।सृष्टोऽयं नैष्ठिको राज्ञामुपायो लोकविश्रुतः ॥६५॥श्रुत्वा पितामहवचः सा जगाम यथागतम् ।पृथिवी सह कालेन वधाय पृथिवीक्षिताम् ॥६६॥देवानचोदयद् ब्रह्मा निग्रहार्थे सुरद्विषाम् ।नरं चैव पुराणर्षि शेषं च धरणीधरम् ॥६७॥सनत्कुमारं साध्यांश्च सुरांश्चाग्निपुरोगमान् ।वरुणं च यमं चैव सूर्याचन्द्रमसौ तदा ॥६८॥गन्धर्वाप्सरसश्चैव रुद्रादित्यांस्तथाश्विनौ ।ततोंऽशानवनिं देवाः सर्व एवावतारयन् ॥६९॥यथा ते कथितं पूर्वमंशावतरणं मया ।अयोनिजा योनिजाश्च ते देवाः पृथिवीतले ॥७०॥दैत्यदानवहन्तारः सम्भूताः पुरुषेश्वराः ।क्षीरिकावृक्षसंकाशा वज्रसंहननास्तथा ॥७१॥नागायुतबलाः केचित्केचिदोघबलान्विताः ।गदापरिघशक्तीनां सहाः परिघबाहवः ॥७२॥गिरिशृङ्गप्रहर्तारः सर्वे परिघयोधिनः ।वृष्णिवंशसमुत्पन्नाः शतशोऽथ सहस्रशः ॥७३॥कुरुवंशे च ते देवाः पञ्चालेषु च पार्थिवाः ।याज्ञिकानां समृद्धानां ब्राह्मणानां च योनिषु ॥७४॥सर्वास्त्रज्ञा महेष्वासा वेदव्रतपरायणाः ।सर्वर्द्धिगुणसम्पन्ना यज्वानः पुण्यकर्मिणः ॥७५॥आचालयेयुर्ये शैलान् क्रुद्धा भिन्द्युर्महीतलम् ।उत्पतेयुरथाकाशं क्षोभयेयुर्महोदधिम् ॥७६॥एवमादिश्य तान् सर्वान् भूतभव्यभवत्प्रभुः ।नारायणे समावेश्य लोकाञ्छान्तिमुपागमत् ॥७७॥भूयः शृणु यथा विष्णुरवतीर्णो महीतले ।प्रजानां वै हितार्थाय प्रभुः प्राणिहितेश्वरः ॥७८॥ययातिवंशजस्याथ वसुदेवस्य धीमतः ।कुले पूज्ये यशस्कर्मा जज्ञे नारायणः प्रभुः ॥७९॥इति श्रीमहाभारते खिलभागे हरिवंशे हरिवंशपर्वणि देवानामंशावतरणे त्रिपञ्चाशत्तमोऽध्यायः ॥५३॥ N/A References : N/A Last Updated : July 12, 2018 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP