संस्कृत सूची|संस्कृत साहित्य|पुराण|हरिवंशपुराणम्|हरिवंश पर्व| अष्टाविंशोऽध्यायः हरिवंश पर्व प्रथमोऽध्यायः द्वितीयोऽध्यायः तृतीयोऽध्यायः चतुर्थोऽध्यायः पञ्चमोऽध्यायः षष्ठोऽध्यायः सप्तमोऽध्यायः अष्टमोऽध्यायः नवमोऽध्यायः दशमोऽध्यायः एकादशोऽध्यायः द्वादशोऽध्यायः त्रयोदशोऽध्यायः चतुर्दशोऽध्यायः पञ्चदशोऽध्यायः षोडशोऽध्यायः सप्तदशोऽध्यायः अष्टादशोऽध्यायः एकोनविंशोऽध्यायः विंशोऽध्यायः एकविंशोऽध्यायः त्रयोविंशतितमोऽध्यायः चतुर्विशतितमोऽध्यायः पञ्चविंशतितमोऽध्यायः षडविंशोऽध्यायः सप्तविंशोऽध्यायः अष्टाविंशोऽध्यायः एकोनत्रिंशोऽध्यायः त्रिंशोऽध्यायः एकत्रिंशोऽध्यायः द्वात्रिंशोऽध्यायः त्रयस्त्रिंशोऽध्यायः चतुस्त्रिंशोऽध्यायः पञ्चत्रिंशोऽध्यायः षट्त्रिंशोऽध्यायः सप्तत्रिंशोऽध्यायः अष्टत्रिंशोऽध्यायः एकोनचत्वारिंशोऽध्यायः चत्वारिंशोऽध्यायः एकचत्वारिंशोऽध्यायः द्विचत्वारिंशोऽध्यायः त्रिचत्वारिंशोऽध्यायः चतुश्चत्वारिंशोऽध्यायः पञ्चचत्वारिंशोऽध्यायः षट्चत्वारिंशोऽध्यायः सप्तचत्वारिंशोऽध्यायः अष्टचत्वारिंशोऽध्यायः एकोनपञ्चाशत्तमोऽध्यायः पञ्चाशत्तमोऽध्यायः एकपञ्चाशत्तमोऽध्यायः द्विपञ्चाशत्तमोऽध्यायः त्रिपञ्चाशत्तमोऽध्यायः चतुष्पञ्चाशत्तमोऽध्यायः पञ्चपञ्चाशत्तमोऽध्याय हरिवंश पर्व - अष्टाविंशोऽध्यायः महर्षी व्यासांनी रचलेला हा महाभारताचा पुरवणी ग्रंथ आहे. Tags : harivansha puranpuransanskritपुराणसंस्कृतहरिवंश पुराण अष्टाविंशोऽध्यायः Translation - भाषांतर राज्ञा रजेः एवं तस्य पुत्राणां चरित्रं, इन्द्रस्य स्वस्थानात् च्युतिः एवं पुनः प्रतिष्ठापनम्वैशम्पायन उवाचआयोः पुत्रास्तथा पञ्च सर्वे वीरा महारथाः ।स्वर्भानुतनयायां च प्रभायां जज्ञिरे नृप ॥१॥नहुषः प्रथमं जज्ञे वृद्धशर्मा ततः परम् ।रम्भो रजिरनेनाश्च त्रिषु लोकेषु विश्रुताः ॥२॥रजिः पुत्रशतानीह जनयामास पञ्च वै ।राजेयमिति विख्यातं क्षत्रमिन्द्रभयावहम् ॥३॥यत्र देवासुरे युद्धे समुत्पन्ने सुदारुणे ।देवाश्चैवासुराश्चैव पितामहमथाब्रुवन् ॥४॥आवयोर्भगवन् युद्धे को विजेता भविष्यति ।ब्रूहि नः सर्वभूतेश श्रोतुमिच्छामि ते वचः ॥५॥ब्रह्मोवाचयेषामर्थाय संग्रामे रजिरात्तायुधः प्रभुः ।योत्स्यते ते जयिष्यन्ति त्रींल्लोकान्नात्र संशयः ॥६॥यतो रजिर्धृतिस्तत्र श्रीश्च तत्र यतो धृतिः ।यतो धृतिश्च श्रीश्चैव धर्मस्तत्र जयस्तथा ॥७॥ते देवदानवाः प्रीता देवेनोक्ता रजेर्जये ।अभ्ययुर्जयमिच्छन्तो वृण्वाना भरतर्षभ ॥८॥स हि स्वर्भानुदौहित्रः प्रभायां समपद्यत ।राजा परमतेजस्वी सोमवंशप्रवर्धनः ॥९॥ते हृष्टमनसः सर्वे रजिं देवाश्च दानवाः ।ऊचुरस्मज्जयाय त्वं गृहाण वरकार्मुकम् ॥१०॥अथोवाच रजिस्तत्र तयोर्वै देवदैत्ययोः ।स्वार्थज्ञः स्वार्थमुद्दिश्य यशः स्वं च प्रकाशयन् ॥११॥रजिरुवाचयदि दैत्यगणान् सर्वाञ्जित्वा शक्रपुरोगमाः ।इन्द्रो भवामि धर्मेण ततो योत्स्यामि संयुगे ॥१२॥देवाः प्रथमतो भूयः प्रत्यूचुर्दृष्टमानसाः ।एवं यथेष्टं नृपते कामः सम्पद्यतां तव ॥१३॥श्रुत्वा सुरगणानां तु वाक्यं राजा रजिस्तदा ।पप्रच्छासुरमुख्यांस्तु यथा देवानपृच्छत ॥१४॥दानवा दर्पपूर्णास्तु स्वार्थमेवानुगम्य ह ।प्रत्यूचुस्ते नृपवरं साभिमानमिदं वचः ॥१५॥अस्मिंस्तु समये राजंस्तिष्ठेथा राजसत्तम ॥१६॥तथेति ब्रुवन्नेव देवैरप्यभिचोदितः ।भविष्यसीन्द्रो जित्वैवं देवैरुक्तस्तु पार्थिवः ।जघान दानवान् सर्वान् ये वध्या वज्रपाणिनः ॥१७॥स विप्रणष्टां देवानां परमश्रीः श्रियं वशी ।निहत्य दानवान् सर्वानाजहार रजिः प्रभुः ॥१८॥ततो रजिं महावीर्यं देवैः सह शतक्रतुः ।रजेः पुत्रोऽहमित्युक्त्वा पुनरेवाब्रवीद्वचः ॥१९॥इन्द्रोऽसि तात देवानां सर्वेषां नात्र संशयः ।यस्याहमिन्द्रः पुत्रस्ते ख्यातिं यास्यामि कर्मभिः ॥२०॥स तु शक्रवचः श्रुत्वा वञ्चितस्तेन मायया ।तथेत्येवाब्रवीद् राजा प्रीयमाणः शतक्रतुम् ॥२१॥तस्मिंस्तु देवसदृशे दिवं प्रान्ते महीपतौ ।दायाद्यमिन्द्रादाजह्रुराचारात् तनया रजेः ॥२२॥पञ्चपुत्रशतान्यस्य तद्वै स्थानं शतक्रतोः ।समाक्रमन्त बहुधा स्वर्गलोकं त्रिविष्टपम् ॥२३॥ततो बहुतिथे काले समतीते महाबलः ।हृतराज्योऽब्रवीच्छक्रो हृतभागो बृहस्पतिम् ॥२४॥इन्द्र उवाचबदरीफलमात्रं वै पुरोडाशं विधत्स्व मे ।ब्रह्मर्षे येन तिष्ठेयं तेजसाऽऽप्यायितः सदा ॥२५॥ब्रह्मन् कृशोऽहं विमना हृतराज्यो हृताशनः ।हृतौजा दुर्बलो मूढो रजिपुत्रैः कृतः प्रभो ॥२६॥बृहस्पतिरुवाचयद्येवं चोदितः शक्र त्वयास्यां पूर्वमेव हि ।नाभविष्यस्यत्प्रियार्थमकर्तव्यं ममानघ ॥२७॥प्रयतिष्यामि देवेन्द्र त्वत्प्रियार्थं न संशयः ।यथा भागं च राज्यं च नचिरात् प्रतिलप्स्यसे ॥२८॥तथा तात करिष्यामि मा भूत्ते विक्लवं मनः ।ततः कर्म चकारास्य तेजसो वर्धनं तदा ॥२९॥तेषां च बुद्धिसम्मोहमकरोद् द्विजसत्तमः ।नास्तिवादार्थशास्त्रं हि धर्मविद्वेषणं परम् ॥३०॥परमं तर्कशास्त्राणामसतां तन्मनोऽनुगम् ।न हि धर्मप्रधानानां रोचते तत्कथान्तरे ॥३१॥ते तद् बृहस्पतिकृतं शास्त्रं श्रुत्वाल्पचेतसः ।पूर्वोक्तधर्मशास्त्राणामभवन् द्वेषिणः सदा ॥३२॥प्रवक्तुर्न्यायरहितं तन्मतं बहु मेनिरे ।तेनाधर्मेण ते पापाः सर्व एव क्षयं गताः ॥३३॥त्रैलोक्यराज्यं शक्रस्तु प्राप्य दुष्प्रापमेव च ।बृहस्पतिप्रसादाद्धि परां निर्वृतिमभ्ययात् ॥३४॥ते यदा तु सुसम्मूढा रागोन्मत्ता विधर्मिणः ।ब्रह्मद्विषश्च संवृत्ता हतवीर्यपराक्रमाः ॥३५॥ततो लेभे सुरैश्वर्यमिन्द्रः स्थानं तथोत्तमम् ।हत्वा रजिसुतान् सर्वान् कामक्रोधपरायणान् ॥३६॥य इदं च्यावनं स्थानात् प्रतिष्ठां च शतक्रतोः ।शृणुयाद् धारयेद्वापि न स दौरात्म्यमाप्नुयात् ॥३७॥इति श्रीगहाभारते खिलभागे हरिवंशे हरिवंशपर्वणि आयोर्वंशकीर्तनं नामाष्टाविंशोऽध्यायः ॥२८॥ N/A References : N/A Last Updated : July 12, 2018 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP