TransLiteral Foundation
संस्कृत सूची|संस्कृत साहित्य|पुराण|हरिवंशपुराणम्|हरिवंश पर्व|
अष्टादशोऽध्यायः

हरिवंश पर्व - अष्टादशोऽध्यायः

महर्षी व्यासांनी रचलेला हा महाभारताचा पुरवणी ग्रंथ आहे.


अष्टादशोऽध्यायः
पितृकल्पः-मार्कण्डेयसनत्कुमारसंवादे पितृणां गणः, लोकः, शक्ति एवं कन्यकानां वर्णनम्, पितृणां प्रभावस्य दर्शनार्थं मार्कण्डेयेन दिव्यदृष्टिप्राप्तिः ।

मार्कण्डेय उवाच
इत्युक्तोऽहं भगवता देवदेवेन भास्वता ।
सनत्कुमारेण पुनः पृष्टवान् देवमव्ययम् ॥१॥
संदेहममरश्रेष्ठं भगवन्तमरिंदमम् ।
निबोध तन्मे गाङ्गेय निखिलं सर्वमादितः ॥२॥
कियन्तो वै पितृगणाः कस्मिंल्लोके प्रतिष्ठिताः ।
वर्तन्ते देवप्रवरा देवानां सोमवर्द्धनाः ॥३॥
सनत्कुमार उवाच
सप्तैते यजतां श्रेष्ठ स्वर्गे पितृगणाः स्मृताः ।
चत्वारो मूर्तिमन्तश्च त्रयस्तेषाममूर्तयः ॥४॥
तेषां लोकं विसर्गं च कीर्तयिष्यामि तच्छृणु ।
प्रभावं च महत्त्वं च विस्तरेण तपोधन ॥५॥
धर्ममूर्तिधरास्तेषां त्रयो ये परमा गणाः ।
तेषां नामानि लोकांश्च कथयिष्यामि तच्छृणु ॥६॥
लोकाः सनातना नाम यत्र तिष्ठन्ति भास्वराः ।
अमूर्तयः पितृगणास्ते वै पुत्राः प्रजापतेः ॥७॥
विराजस्य द्विजश्रेष्ठ वैराजा इति विश्रुताः ।
यजन्ति तान् देवगणा विधिदृष्टेन कर्मणा ॥८॥
एते वै योगविभ्रष्टा लोकान् प्राप्य सनातनान् ।
पुनर्युगसहस्रान्ते जायन्ते ब्रह्मवादिनः ॥९॥
ते तु प्राप्य स्मृतिं भूयः साङ्ख्यं योगमनुत्तमम् ।
यान्ति योगगतिं सिद्धाः पुनरावृत्तिदुर्लभाम् ॥१०॥
एते स्युः पितरस्तात योगिनां योगवर्द्धनाः ।
आप्याययन्ति ये पूर्वं सोमं योगबलेन च ॥११॥
तस्माच्छ्राद्धानि देयानि योगिनां तु विशेषतः ।
एष वै प्रथमः सर्गः सोमपानां महात्मनाम् ॥१२॥
एतेषां मानसी कन्या मेना नाम महागिरेः ।
पत्नी हिमवतः श्रेष्ठा यस्या मैनाक उच्यते ॥१३॥
मैनाकस्य सुतः श्रीमान् क्रौञ्चो नाम महागिरिः ।
पर्वतप्रवरः पुत्रो नानारत्नसमन्वितः ॥१४॥
तिस्रः कन्यास्तु मेनायां जनयामास शैलराट् ।
अपर्णामेकपर्णां च तृतीयामेकपाटलाम् ॥१५॥
तपश्चरन्त्यः सुमहद् दुश्चरं देवदानवैः ।
लोकान् संतापयामासुस्तास्तिस्रः स्थाणुजङ्गमान् ॥१६॥
आहारमेकपर्णेन एकपर्णा समाचरत् ।
पाटलापुष्पमेकं च आदधावेकपाटला ॥१७॥
एका तत्र निराहारा तां माता प्रत्यषेधयत् ।
'उ 'मा' इति निषेधन्ती मातृस्नेहेन दुःखिता ॥१८॥
सा तथोक्ता तया मात्रा देवी दुश्चरचारिणी ।
उमेत्येवाभवत् ख्याता त्रिषु लोकेषु सुन्दरी ॥१९॥
तथैव नाम्ना तेनेह विश्रुता योगधर्मिणी ।
एतत्तु त्रिकुमारीकं जगत्स्थास्यति भार्गव ॥२०॥
तपःशरीरास्ताः सर्वास्तिस्रो योगबलान्विताः ।
सर्वाश्च ब्रह्मवादिन्यः सर्वाश्चैवोर्ध्वरेतसः ॥२१॥
उमा तासां वरिष्ठा च ज्येष्ठा च वरवर्णिनी ।
महायोगबलोपेता महादेवमुपस्थिता ॥२२॥
असितस्यैकपर्णा तु देवलस्य महात्मनः ।
पत्नी दत्ता महाब्रह्मन् योगाचार्याय धीमते ॥२३॥
जैगीषव्याय तु तथा विद्धि तामेकपाटलाम् ।
एते चापि महाभागे योगाचार्यावुपस्थिते ॥२४॥
लोकाः सोमपदा नाम मरीचेर्यत्र वै सुताः ।
पितरो यत्र वर्तन्ते देवास्तान् भावयन्त्युत ॥२५॥
अग्निष्वात्ता इति ख्याताः सर्व एवामितौजसः ।
एतेषां मानसी कन्या अच्छोदा नाम निम्नगा ॥२६॥
अच्छोदं नाम विख्यातं सरो यस्याः समुत्थितम् ।
तया न दृष्टपूर्वास्ते पितरस्तु कदाचन ॥२७॥
अप्यमूर्तानथ पितॄन् सा ददर्श शुचिस्मिता ।
सम्भूता मनसा तेषां पितॄन् स्वान् नाभिजानती ॥२८॥
व्रीडिता तेन दुःखेन बभूव वरवर्णिनी ।
सा दृष्ट्वा पितरं वव्रे वसुं नामान्तरिक्षगम् ॥२९॥
अमावसुरिति ख्यातमायोः पुत्रं यशस्विनम् ।
अद्रिकाप्सरसायुक्तं विमानेऽधिष्ठितं दिवि ॥३०॥
सा तेन व्यभिचारेण मनसः कामरूपिणी ।
पितरं प्रार्थयित्वान्यं योगभ्रष्टा पपात ह ॥३१॥
त्रीण्यपश्यद् विमानानि पतमाना दिवश्च्युता ।
त्रसरेणुप्रमाणानि सापश्यत्तेषु तान् पितॄन् ॥३२॥
सुसूक्ष्मानपरिव्यक्तानग्नीनग्नीष्विवाहितान् ।
त्रायध्वमित्युवाचार्ता पतन्ती तानवाक्शिराः ॥३३॥
तैरुक्ता सा तु मा भैषीरिति व्योम्नि व्यवस्थिता ।
ततः प्रसादयामास तान् पितॄन् दीनया गिरा ॥३४॥
ऊचुस्ते पितरः कन्यां भ्रष्टैश्वर्यो व्यतिक्रमात् ।
भ्रष्टश्वर्या स्वदोषेण पतसि त्वं शुचिस्मिते ॥३५॥
यैः क्रियन्ते हि कर्माणि शरीरैर्दिवि दैवतैः ।
तैरेव तत्कर्मफलं प्राप्नुवन्तीह देवताः ॥३६॥
सद्यः फलन्ति कर्माणि देवत्वे प्रेत्य मानुषे ।
तस्मात्त्वं तपसः पुत्रि प्रेत्येदं प्राप्स्यसे फलम् ॥३७॥
इत्युक्ता पितृभिः सा तु पितॄन्प्रासादयत्स्वकान् ।
ध्यात्वा प्रसादं ते चक्रुस्तस्याः सर्वेऽनुकम्पया ॥३८॥
अवश्यं भाविनं ज्ञात्वा तेऽर्थमूचुस्ततस्तु ताम् ।
अस्य राज्ञो वसोः कन्या त्वमपत्यं भविष्यसि ॥३९॥
उत्पन्नस्य पृथिव्यां तु मानुषेषु महात्मनः ।
कन्या च भूत्वा लोकान्स्वान्पुनः प्राप्स्यसि दुर्लभान् ॥४०॥
पराशरस्य दायादं त्वं पुत्रं जनयिष्यसि ।
स वेदमेकं ब्रह्मर्षिश्चतुर्धा विभजिष्यति ॥४१॥
महाभिषस्य पुत्रौ द्वौ शन्तनोः कीर्तिवर्द्धनौ ।
विचित्रवीर्यं धर्मज्ञं तथा चित्राङ्गदं शुभम् ॥४२॥
एतानुत्पाद्य पुत्रांस्त्वं पुनर्लोकानवाप्स्यसि ।
व्यतिक्रमात्पितॄणां च जन्म प्राप्स्यसि कुत्सितम् ॥४३॥
अस्यैव राज्ञः कन्या त्वमद्रिकाया भविष्यसि ।
अष्टाविंशे भवित्री त्वं द्वापरे मत्स्ययोनिजा ॥४४॥
एवमुक्ता तु दाशेयी जाता सत्यवती तदा ।
मत्स्ययोनौ समुत्पन्ना राज्ञस्तस्य वसोः सुता ॥४५॥
वैभ्राजा नाम ते लोका दिवि सन्ति सुदर्शनाः ।
यत्र बर्हिषदो नाम पितरो दिवि विश्रुताः ॥४६॥
तान् वै देवगणाः सर्वे यक्षगन्धर्वराक्षसाः ।
नागाः सर्पाः सुपर्णाश्च भावयन्त्यमितौजसः ॥४७॥
एते पुत्रा महात्मानः पुलस्त्यस्य प्रजापतेः ।
महात्मनो महाभागास्तेजोयुक्तास्तपस्विनः ॥४८॥
एतेषां मानसी कन्या पीवरी नाम विश्रुता ।
योगा च योगिपत्नी च योगिमाता तथैव च ॥४९॥
भवित्री द्वापरं प्राप्य युगं धर्मभृतां वरा ।
पराशरकुलोद्भूतः शुको नाम महातपाः ॥५०॥
भविष्यति युगे तस्मिन् महायोगी द्विजर्षभः ।
व्यासादरण्यां सम्भूतो विधूमोऽग्निरिव ज्वलन् ॥५१॥
स तस्यां पितृकन्यायां पीवर्यां जनयिष्यति ।
कन्यां पुत्रांश्च चतुरो योगाचार्यान्महाबलान् ॥५२॥
कृष्णं गौरं प्रभुं शम्भुं कृत्वीं कन्यां तथैव च ।
ब्रह्मदत्तस्य जननीं महिषीं त्वणुहस्य च ॥५३॥
एतानुत्पाद्य धर्मात्त्मा योगाचार्यान्महाव्रतान् ।
श्रुत्वा स्वजनकाद् धर्मान्व्यासादमितबुद्धिमान् ॥५४॥
महायोगी ततो गन्ता पुनरावर्तिनीं गतिम् ।
यत्तत्पदमनुद्विग्नमव्ययं ब्रह्म शाश्वतम् ॥५५॥
अमूर्तिमन्तः पितरो धर्ममूर्तिधरा मुने ।
कथा यत्रेयमुत्पन्ना वृष्ण्यन्धककुलान्वया ॥५६॥
सुकाला नाम पितरो वसिष्ठस्य प्रजापतेः ।
निरता दिवि लोकेषु ज्योतिर्भासिषु भासुराः ।
सर्वकामसमृद्धेषु द्विजास्तान् भावयन्त्युत ॥५७॥
तेषां वै मानसी कन्या गौर्नाम्ना दिवि विश्रुता ।
तवैव वंशे या दत्ता शुकस्य महिषी प्रिया ।
एकशृङ्गेति विख्याता साध्यानां कीर्तिवर्द्धिनी ॥५८॥
मरीचिगर्भांस्ताँल्लोकान् समाश्रित्य व्यवस्थिताः ।
ये त्वथाङ्गिरसः पुत्राः साध्यैः संवर्द्धिताः पुरा ॥५९॥
तान् क्षत्रियगणास्तात भावयन्ति फलार्थिनः ।
तेषां तु मानसी कन्या यशोदा नाम विश्रुता ॥६०॥
पत्नी सा विश्वमहतः स्नुषा वै वृद्धशर्मणः ।
राजर्षेर्जननी चापि दिलीपस्य महात्मनः ॥६१॥
तस्य यज्ञे पुरा गीता गाथाः प्रीतैर्महर्षिभिः ।
तदा देवयुगे तात वाजिमेधे महामखे ॥६२॥
अग्नेर्जन्म तथा श्रुत्वा शाण्डिल्यस्य महात्मनः ॥।
दिलीपं यजमानं ये पश्यन्ति सुसमाहिताः ।
सत्यवन्तं महात्मानं तेऽपि स्वर्गजितो नराः ॥६३॥
सुस्वधा नाम पितरः कर्दमस्य प्रजापतेः ।
समुत्पन्नास्तु पुलहान्महात्मानो द्विजर्षभाः ॥६४॥
लोकेषु दिवि वर्तन्ते कामगेषु विहङ्गमाः ।
तांश्च वैश्यगणास्तात भावयन्ति फलार्थिनः ॥६५॥
तेषां वै मानसी कन्या विरजा नाम विश्रुता ।
ययातेर्जननी ब्रह्मन् महिषी नहुषस्य च ॥६६॥
त्रय एते गणाः प्रोक्ताश्चतुर्थं तु निबोध मे ।
उत्पन्ना ये स्वधायां ते सोमपा वै कवेः सुताः ।
हिरण्यगर्भस्य सुताः शूद्रास्तान्भावयन्त्युत ॥६७॥
मानसा नाम ते लोका यत्र तिष्ठन्ति ते दिवि ।
तेषां वै मानसी कन्या नर्मदा सरितां वरा ॥६८॥
या भावयति भूतानि दक्षिणापथगामिनी ।
पुरुकुत्सस्य या पत्नी त्रसद्दस्योर्जनन्यपि ॥६९॥
तेषामथाभ्युपगमान्मनुस्तात युगे युगे ।
प्रवर्तयति श्राद्धानि नष्टे धर्मे प्रजापतिः ॥७०॥
पितॄणामादिसर्गेण सर्वेषां द्विजसत्तम ।
तस्मादेनं स्वधर्मेण श्राद्धदेवं वदन्ति वै ॥७१॥
सर्वेषां राजतं पात्रमथ वा रजसान्वितम् ।
दत्तं स्वधां पुरोधाय श्राद्धं प्रीणाति वै पितॄन् ॥७२॥
सोमस्याप्यायनं कृत्वा अग्नेर्वैवस्वतस्य च ।
उदगायनमप्यग्नावग्न्यभावेऽप्सु वा पुनः ॥७३॥
पितॄन् प्रीणाति यो भक्त्या पितरः प्रीणयन्ति तम् ।
यच्छन्ति पितरः पुष्टिं प्रजाश्च विपुलास्तथा ॥७४॥
स्वर्गमारोग्यमेवाथ यदन्यदपि चेप्सितम् ।
देवकार्यादपि मुने पितृकार्यं विशिष्यते ॥७५॥
देवतानां हि पितरः पूर्वमाप्यायनं स्मृतम् ।
शीघ्रप्रसादा ह्यक्रोधा लोकस्याप्यायनं परम् ॥७६॥
स्थिरप्रसादाश्च सदा तान् नमस्यस्व भार्गव ।
पितृभक्तोऽसि विप्रर्षे मद्भक्तश्च विशेषतः ॥७७॥
श्रेयस्तेऽद्य विधास्यामि प्रत्यक्षं कुरु तत्स्वयम् ।
दिव्यं चक्षुः सविज्ञानं प्रदिशामि च तेऽनघ ॥७८॥
गतिमेतामप्रमत्तो मार्कण्डेय निशामय ।
न हि योगगतिर्दिव्या पितॄणां च परा गतिः ॥७९॥
त्वद्विधेनापि सिद्धेन दृश्यते मांसचक्षुषा ।
स एवमुक्त्वा देवेशो मामुपस्थितमग्रतः ॥८०॥
चक्षुर्दत्त्वा सविज्ञानं देवानामपि दुर्लभम् ।
जगाम गतिमिष्टां वै द्धितीयोऽग्निरिव ज्वलन् ॥८१॥
तन्निबोध कुरुश्रेष्ठ यन्मयासीन्निशामितम् ।
प्रसादात्तस्य देवस्य दुर्ज्ञेयं भुवि मानुषैः ॥८२॥
इति श्रीमहाभारते खिलभागे हरिवंशे हरिवंशपर्वणि पितृकल्पे अष्टादशोऽध्यायः ॥१८॥

Translation - भाषांतर
N/A

References : N/A
Last Updated : 2018-07-11T13:51:10.7800000

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.

equivalents method

  • समीकरण पद्धति 
RANDOM WORD

Did you know?

’ श्रीदुर्गासप्तशती’ ग्रंथातील कांही मंत्र जीवनातील संकटे दूर करतात काय? असे कोणते मंत्र आहेत?
Category : Hindu - Traditions
RANDOM QUESTION
Don't follow traditions blindly or ignore them. Don't assume a superstition either. Don't be intentionally ignorant. Ask us!!
Hindu customs are all about Symbolism. Let us tell you the thought behind those traditions.
Make Informed Religious decisions.