TransLiteral Foundation
संस्कृत सूची|संस्कृत साहित्य|पुराण|हरिवंशपुराणम्|हरिवंश पर्व|
विंशोऽध्यायः

हरिवंश पर्व - विंशोऽध्यायः

महर्षी व्यासांनी रचलेला हा महाभारताचा पुरवणी ग्रंथ आहे.


विंशोऽध्यायः
पितृकल्पः - ब्रह्मदत्त एवं उग्रायुधस्य वंशाः, पूजनीया चटकया शुक्रनीतिवर्णनम्

मार्कण्डेय उवाच
तस्मिन्नन्तर्हिते देवे वचनात् तस्य वै प्रभोः ।
चक्षुर्दिव्यं सविज्ञानं प्रादुरासीत् तदा मम ॥१॥
ततोऽहं तानपश्यं वै ब्राह्मणान् कौशिकात्मजान् ।
आपगेय कुरुक्षेत्रे यानुवाच विभुर्मम ॥२॥
ब्रह्मदत्तोऽभवद् राजा यस्तेषां सप्तमो द्विजः ।
पितृवर्तीति विख्यातो नाम्ना शीलेन कर्मणा ॥३॥
शुकस्य कन्या कृत्वी तं जनयामास पार्थिवम् ।
अणुहात् पार्थिवश्रेष्ठात् काम्पिल्ये नगरोत्तमे ॥४॥
भीष्म उवाच
यथोवाच महाभागो मार्कण्डेयो महातपाः ।
तस्य वंशमहं राजन् कीर्तयिष्यामि तच्छृणु ॥५॥
युधिष्ठिर उवाच
अणुहः कस्य वै पुत्रः कस्मिन्काले बभूव ह ।
राजा धर्मभृतां श्रेष्ठो यस्य पुत्रो महायशाः ॥६॥
ब्रह्मदत्तो नरपतिः किंवीर्यः स बभूव ह ।
कथं च सप्तमस्तेषां स बभूव नराधिपः ॥७॥
न ह्यल्पवीर्याय शुको भगवाँल्लोकपूजितः ।
कन्याप्रदद्याद्योगात्मा कृर्त्वी कीर्तिमतीं प्रभुः ॥८॥
एतदिच्छाम्यहं श्रोतुं विस्तरेण महाद्युते ।
ब्रह्मदत्तस्य चरितं तद् भवान् वक्तुमर्हति ॥९॥
यथा च वर्तमानास्ते संसारे च द्विजातयः ।
मार्कण्डेयेन कथितास्तद् भवान् प्रब्रवीतु मे ॥१०॥
भीष्म उवाच
प्रतीपस्य तु राजर्षेस्तुल्यकालो नराधिपः ।
पितामहस्य मे राजन् बभूवेति मया श्रुतम् ॥११॥
ब्रह्मदत्तो महाभागो योगी राजर्षिसत्तमः ।
रुतज्ञः सर्वभूतानां सर्वभूतहिते रतः ॥१२॥
सखाऽऽस गालवो यस्य योगाचार्यो महायशाः ।
शिक्षामुत्पाद्य तपसा क्रमो येन प्रवर्तितः ।
कण्डरीकश्च योगात्मा तस्यैव सचिवो महान् ॥१३॥
जात्यन्तरेषु सर्वेषु सखायः सर्व एव ते ।
सप्तजातिषु सप्तैव बभूवुरमितौजसः ।
यथोवाच महाभागो मार्कण्डेयो महातपाः ॥१४॥
तस्य वंशमहं राजन् कीर्तयिष्यामि तच्छृणु ।
ब्रह्मदत्तस्य पौराणां पौरवस्य महात्मनः ॥१५॥
बृहत्क्षत्रस्य दायादः सुहोत्रो नाम धार्मिकः ।
सुहोत्रस्यापि दायादो हस्ती नाम बभूव ह ॥१६॥
तेनेदं निर्मितं पूर्वं हस्तिनापुरमुत्तमम् ।
हस्तिनश्चापि दायादास्त्रयः परमधार्मिकाः ॥१७॥
अजमीढो द्विमीढश्च पुरुमीढस्तथैव च ।
अजमीढस्य धूमिन्यां जज्ञे बृहदिषुर्नृप ।
बृहद्धनुर्बृहदिषोः पुत्रस्तस्य महायशाः ॥१८॥
बृहद्धर्मेति विख्यातो राजा परमधार्मिकः ।
सत्यजित्तनयस्तस्य विश्वजित्तस्य चात्मजः ॥१९॥
पुत्रो विश्वजितश्चापि सेनजित्पृथिवीपतिः ।
पुत्राः सेनजितश्चासंश्चत्वारो लोकविश्रुताः ॥२०॥
रुचिरः श्वेतकेतुश्च महिम्नारस्तथैव च ।
वत्सश्चावन्तको राजा यस्यैते परिवत्सकाः ॥२१॥
रुचिरस्य तु दायादः पृथुसेनो महायशाः ।
पृथुसेनस्य पारस्तु पारान्नीपस्तु जज्ञिवान् ॥२२॥
नीपस्यैकशतं तात पुत्राणाममितौजसाम् ।
महारथानां राजेन्द्र शूराणां बाहुशालिनाम् ।
नीपा इति समाख्याता राजानः सर्व एव ते ॥२३॥
तेषां वंशकरो राजा नीपानां कीर्तिवर्द्धनः ।
काम्पिल्ये समरो नाम सचेष्टसमरोऽभवत् ॥२४॥
समरस्य परः पारः सदश्व इति ते त्रयः ।
पुत्राः परमधर्मज्ञाः परपुत्रः पृथुर्बभौ ॥२५॥
पृथोस्तु सुकृतो नाम सुकृतेनेह कर्मणा ।
जज्ञे सर्वगुणोपेतो विभ्राजस्तस्य चात्मजः ॥२६॥
विभ्राजस्य तु पुत्रोऽभूदणुहो नाम पार्थिवः ।
बभौ शुकस्य जामाता कृत्वीभर्ता महायशाः ॥२७॥
पुत्रोऽणुहस्य राजर्षिर्ब्रह्मदत्तोऽभवत् प्रभुः ।
योगात्मा तस्य तनयो विष्वक्सेनः परंतपः ॥२८॥
विभ्राजः पुनरायातः स्वकृतेनेह कर्मणा ।
ब्रह्मदत्तस्य पुत्रोऽन्यः सर्वसेन इति श्रुतः ॥२९॥
चक्षुषी तस्य निर्भिन्ने पक्षिण्या पूजनीयया ।
सुचिरोषितया राजन् ब्रक्षदत्तस्य वेश्मनि ॥३०॥
अथास्य पुत्रस्त्वपरो ब्रह्मदत्तस्य जज्ञिवान् ।
विष्वक्सेन इति ख्यातो महाबलपराक्रमः ॥३१
विश्वक्सेनस्य पुत्रोऽभूद् दण्डसेनो महीपतिः ।
भल्लाटोऽस्य कुमारोऽभूद् राधेयेन हतः पुरा ॥३२॥
दण्डसेनात्मजः शूरो महात्मा कुलवर्द्धनः ।
भल्लाटपुत्रो द्रुर्वुद्धिरभवच्च युधिष्ठिर ॥३३॥
स तेषामभवद् राजा नीपानामन्तकृन्नृप ।
तेन उग्रायुधस्यार्थे सर्वे नीपा विनाशिताः ॥३४॥
उग्रायुधो मदोत्सिक्तो मया विनिहतो युधि ।
दर्पान्वितो दर्परुचिः सततं चानये रतः ॥३५॥
युधिष्ठिर उवाच
उग्रायुधः कस्य सुतः कस्मिन्वंशेऽथ जज्ञिवान् ।
किमर्थं चैव भवता निहतस्तद् ब्रवीहि मे ॥३६॥
भीष्म उवाच
अजमीढस्य दायादो विद्वान् राजा यवीनरः ।
धृतिमांस्तस्य पुत्रस्तु तस्य सत्यधृतिः सुतः ॥३७॥
जज्ञे सत्यधृतेः पुत्रो दृढनेमिः प्रतापवान् ।
दृढनेमिसुतश्चापि सुधर्मा नाम पार्थिवः ॥३८॥
आसीत् सुधर्मणः पुत्रः सार्वभौमः प्रजेश्वरः ।
सार्वभौम इति ख्यातः पृथिव्यामेकराड् विभुः ॥३९॥
तस्यान्ववाये महति महान् पौरवनन्दनः ।
महतश्चापि पुत्रस्तु राजा रुक्मरथः स्मृतः ॥४०॥
पुत्रो रुक्मरथस्यापि सुपार्श्वो नाम पार्थिवः ।
सुपार्श्वतनयश्चापि सुमतिर्नाम धार्मिकः ॥४१॥
सुमतेरपि धर्मात्मा संनतिर्नाम वीर्यवान् ।
तस्य वै संनतेः पुत्रः कृतो नाम महाबलः ॥४२॥
शिष्यो हिरण्यनाभस्य कौशलस्य महात्मनः ।
चतुर्विंशतिधा तेन सप्राच्याः सामसंहिताः ॥४३॥
स्मृतास्ते प्राच्यसामानः कार्तयो नाम सामगाः ।
कार्तिरुग्रायुधः सोऽथ वीरः पौरवनन्दनः ॥४४॥
बभूव येन विक्रम्य पृषतस्य पितामहः ।
नीपो नाम महातेजाः पञ्चालाधिपतिर्हतः ॥४५॥
उग्रायुधस्य दायादः क्षेम्यो नाम महायशाः ।
क्षेम्यात् सुवीरो नृपतिः सुवीरात्तु नृपंजयः ॥४६॥
नृपंजयाद् बहुरथ इत्येते पौरवाः स्मृताः ।
स चाप्युग्रायुधस्तात दुर्बुद्धिरभवत् तदा ॥४७॥
प्रवृद्धचक्रो वलवान् नीपान्तकरणो महान् ।
सदर्पपूर्णो हत्वाऽऽजौ नीपानन्यांश्च पार्थिवान् ॥४८॥
पितर्युपरते मह्यं श्रावयामास किल्बिषम् ।
माममात्यैः परिवृतं शयानं धरणीतले ॥४९॥
उग्रायुधस्य राजेन्द्र दूतोऽभ्येत्य वचोऽब्रवीत् ।
अद्य त्वं जननीं भीष्म गन्धकालीं यशस्विनीम् ।
स्त्रीरत्नं मय भार्यार्थे प्रयच्छ कुरुपुङ्गव ॥५०॥
एवं राज्यं च ते स्फीतं धनानि च न संशयः ।
प्रदास्यामि यथाकाममहं वै रत्नभाग् भुवि ॥५१॥
मम प्रज्वलितं चक्रं निशम्येदं सुदुर्जयम् ।
शत्रवो विद्रवन्त्याजौ दर्शनादेव भारत ॥५२॥
राष्ट्रस्येच्छसि चेत्स्वस्ति प्राणानां वा कुलस्य वा ।
शासने मम तिष्ठस्व न हि ते शान्तिरन्यथा ॥५३॥
अधः प्रस्तारशयने शयानस्तेन चोदितः ।
दूतान्तर्हितमेतद् वै वाक्यमग्निशिखोपमम् ॥५४॥
ततोऽहं तस्य दुर्बुद्धेर्विज्ञाय मतमच्युत ।
आज्ञापयं वै संग्रामे सेनाध्यक्षांश्च सर्वशः॥५५॥
विचित्रवीर्यं बालं च मदुपाश्रयमेव च ।
दृष्ट्वा क्रोधपरीतात्मा युद्धायैव मनो दधे ॥५६॥
निगृहीतस्तदाहं तैः सचिवैर्मन्त्रकोविदैः ।
ऋत्विग्भिर्वेदकल्पैश्च सुहृद्भिश्चार्थदर्शिभिः ॥५७ ।
स्निग्धैश्च शास्त्रविद्भिश्च संयुगस्य निवर्तने ।
कारणं भावितश्चास्मि युक्तरूपं तदानघ ॥५८॥
मन्त्रिण ऊचुः
प्रवृत्तचक्रः पापोऽसौ त्वं चाशौचगतः प्रभो ।
न चैष प्रथमः कल्पो युद्धं नाम कदाचन ॥५९॥
ते वयं सामपूर्वं वै दानं भेदं तथैव च ।
प्रयोक्ष्यामस्ततः शुद्धो दैवतान्यभिवाद्य च ॥६०॥
कृतस्वस्त्ययनो विप्रैर्वह्नीन्सम्पूज्य च द्विजान् ।
ब्राह्मणैरभ्यनुज्ञातः प्रयास्यसि जयाय वै ॥६१॥
अस्त्राणि न प्रयोज्यानि न प्रवेश्यश्च संगरः ।
अशौचे वर्तमाने तु वृद्धानामिति शासनम् ॥६२॥
सामदानादिभिः पूर्वमपि भेदेन वा ततः ।
तं हनिष्यसि विक्रम्य शम्बरं मघवानिव ॥६३॥
प्राज्ञानां वचनं काले वृद्धानां च विशेषतः ।
श्रोतव्यमिति तच्छ्रुत्वा निवृत्तोऽस्मि नराधिप ॥६४॥
ततस्तैः संक्रमः सर्वैः प्रयुक्तः शास्त्रकोविदैः ।
तस्मिन् काले कुरुश्रेष्ठ कर्म चारब्धमुत्तमम् ॥६५॥
स सामादिभिरेवादावुपायैः प्राप्तचिन्तितैः ।
अनुनीयमानो दुर्बुद्धिरनुनेतुं न शक्यते ॥६६॥
प्रवृत्तं तस्य तच्चक्रमधर्मनिरतस्य वै ।
परदाराभिलाषेण सद्यस्तात निवर्तितम् ॥६७॥
न त्वहं तस्य जाने तन्निवृत्तं चक्रमुत्तमम् ।
हतं स्वकर्मणा तं तु पूर्वं सद्भिश्च निन्दितम् ॥६८॥
कृतशौचः शरी चापी रथौ निष्क्रम्य वै पुरात् ।
कृतस्वस्त्ययनो विप्रैः प्रायोधयमहं रिपुम् ॥६९॥
ततः संसर्गमागम्य बलेनास्त्रबलेन च ।
त्र्यहमुन्मत्तवद् युद्धं देवासुरमिवाभवत् ॥७०॥
स मयास्त्रप्रतापेन निर्दग्धो रणमूर्धनि ।
पपाताभिमुखः शूरस्त्यक्त्वा प्राणानरिंदम ॥७१॥
एतस्मिन्नन्तरे तात काम्पिल्ये पृषतोऽभ्ययात् ।
हते नीपेष्वरे चैव हते चोग्रायुधे नृपे ॥७२॥
आहिच्छत्रं स्वकं राज्यं पित्र्यं प्राप महाद्युतिः ।
द्रुपदस्य पिता राजन् ममैवानुमते तदा ॥७३॥
ततोऽर्जुनेन तरसा निर्जित्य द्रुपदं रणे ।
आहिच्छत्रं सकाम्पिल्यं द्रोणायाथापवर्जितम् ॥७४॥
प्रतिगृह्य ततो द्रोण उभयं जयतां वरः ।
काम्पिल्यं द्रुपदायैव प्रायच्छद् विदितं तव ॥७५॥
एष ते द्रुपदस्यादौ ब्रह्मदत्तस्य चैव ह ।
वंशः कार्त्स्न्येन वै प्रोक्तो नीपस्योग्रायुधस्य च ॥७६॥
युधिष्ठिर उवाच
किमर्थं ब्रह्मदत्तस्य पूजनीया शकुन्तिका ।
अन्धं चकार गाङ्गेय ज्येष्ठं पुत्रं पुरा विभो ॥७७॥
चिरोषिता गृहे चापि किमर्थं चैव यस्य सा ।
चकार विप्रियमिदं तस्य राज्ञो महात्मनः ॥७८॥
पूजनीया चकारासौ किं सख्यं तेन चैव ह ।
एतन्मे संशयं छिन्धि सर्वमुक्त्वा यथातथम् ॥७९॥
भीष्म् उवाच
शृणु सर्वं महाराज यथावृत्तमभूत् पुरा ।
ब्रह्मदत्तस्य भवने तन्निबोध युधिष्ठिर ॥८०॥
काचिच्छकुन्तिका राजन् ब्रह्मदत्तस्य वै सखी ।
शितिपक्षा शोणशिराः शितिपृष्ठा शितोदरी ॥८१॥
सखी सा ब्रह्मदत्तस्य सुदृढं बद्धसौहृदा ।
तस्याः कुलायमभवद् गेहे तस्य नरोत्तम ॥८२॥
सा सदाहनि निर्गत्य तस्य राज्ञो गृहोत्तमात् ।
चचाराम्भोधितीरेषु पल्लवेषु सरस्सु च ॥८३॥
नदीपर्वतकुञ्जेषु वनेषूपवनेषु च ।
प्रफुल्लेषु तडागेषु कह्लारेषु सुगन्धिषु ॥८४॥
कुमुदोत्पलकिञ्जल्कसुरभीकृतवायुषु ।
हंससारसघुष्टेषु कारण्डवरुतेषु च ॥८५॥
चरित्वा तेषु सा राजन् निशि काम्पिल्यमागमत् ।
नृपतेर्भवनं प्राप्य ब्रह्मदत्तस्य धीमतः ॥८६॥
राज्ञा तेन सदा राजन् कथायोगं चकार सा ।
आश्चर्याणि च दृष्टानि यानि वृत्तानि कानिचित् ॥८७॥
चरित्वा विविधान् देशान् कथयामास सा निशि ।
कदाचित् तस्य नृपतेर्ब्रह्मदत्तस्य कौरव ॥८८॥
पुत्रोऽभूद् राजशार्दूल सर्वसेनेति विश्रुतः ।
पूजनीयाथ सा तस्मिन्प्रासूताण्डमथापि च ॥८९॥
तस्मिन्नीडे पुरा ह्येकं तत्किल प्रास्फुटत् तदा ।
स्फुटितो मांसपिण्डस्तु बाहुपादास्यसंयुतः ॥९०॥
बभ्रुवक्त्रश्चक्षुहीनो बभूव पृथिवीपते ।
चक्षुष्मानप्यभूत् पश्चादीषत्पक्षोत्थितश्च ह ॥९१॥
अथ सा पूजनीया वै राजपुत्रस्वपुत्रयोः ।
मुख्यस्नेहात्प्रीतिमती दिवसे दिवसेऽभवत् ॥९२॥
आजहार सदा सायं चञ्च्वामृतफलद्वयम् ।
अमृतास्वादसदृशं सर्वसेनतनूजयोः ॥९३॥
स बालो ब्रह्मदत्तस्य पूजनीयासुतश्च ह ।
ते फले भक्षयित्वा च पृथुकौ प्रीतमानसौ ॥९४॥
अभूतां नित्यमेवेह खादेतां तौ च ते फले ।
तस्यां गतायामथ च पूजन्यां वै सदाहनि ॥९५॥
शिशुना चटकेनाथ धात्री तं तु शिशुं नृप ।
तेन प्रक्रीडयामास ब्रह्मदत्तात्मजं सदा ॥९६॥
नीडात्तमाकृष्य तदा पूजनीयाकृतात्ततः ।
क्रीडता राजपुत्रेण कदाच्चिच्चटकः स तु ॥९७॥
निगृहीतः कन्धरायां शिशुना दृढमुष्टिना ।
दुर्भङ्गमुष्टिना राजन्नसून् सद्यस्त्वजीजहत् ॥९८॥
तं तु पञ्चत्वमापन्नं व्यात्तास्यं बालघातितम् ।
कथंचिन्मोचितं दृष्ट्वा नृपतिर्दुःखितोऽभवत् ॥९९॥
धात्रीं तस्य जगर्हे तां तदाश्रुपरमो नृपः ।
तस्थौ शोकान्वितो राजञ्छोचंस्तं चटकं तदा ॥१००॥
पूजनीयापि तत्काले गृहीत्वा तु फलद्वयम् ।
ब्रह्मदत्तस्य भवनमाजगाम वनेचरी ॥१०१॥
अथापश्यत्तमागम्य गृहे तस्मिन् नराधिप ।
पञ्चभूतपरित्यक्तं शावं तं स्वतनूद्भवम् ॥१०२॥
मुमोह दृष्ट्वा तं पुत्रं पुनः संज्ञामथालभत् ।
लब्धसंज्ञा च सा राजन् विललाप तपस्विनी ॥१०३॥
पूजनीयोवाच
न तु त्वमागतां पुत्र वाशन्ती परिसर्पसि ।
कुर्वंश्चाटुसहस्राणि अव्यक्तकलया गिरा ॥१०४॥
व्यादितास्यः क्षुधार्तश्च पीतेनास्येन पुत्रक ।
शोणेन तालुना पुत्र कथमद्य न सर्पसि ॥१०५॥
पक्षाभ्यां त्वां परिष्वज्य ननु वाशामि चाप्यहम् ।
चीचीकूचीति वाशन्तं त्वामद्य न शृणोमि किम् ॥१०६॥
मनोरथो यस्तु मम पश्येयं पुत्रकं कदा ।
व्यात्तास्यं वारि याचन्तं स्फुरत्पक्षं ममाग्रतः ॥१०७॥
स मे मनोरथो भग्नस्त्वयि पञ्चत्वमागते ।
विलप्यैवं बहुविधं राजानमथ साब्रवीत् ॥१०८॥
ननु मूर्धाभिषिक्तस्त्वं धर्मं वेत्सि सनातनम् ।
अथ कस्मान्मम सुतं धात्र्या घातितवानसि ॥१०९॥
तव पुत्रेण चाकृष्य क्षत्रियाधम शंस मे ।
न च नूनं श्रुता तेऽभूदियमाङ्गिरसी श्रुतिः ॥११०॥
शरणागतः क्षुधार्तश्च शत्रुभिश्चाप्युपद्रुतः ।
चिरोषितश्च स्वगृहे पातव्यः सर्वदा भवेत् ॥१११॥
अपालयन्नरो याति कुम्भीपाकमसंशयम् ।
कथमस्य हविर्देवा गृह्णन्ति पितरः स्वधाम् ॥११२॥
एवमुक्त्वा महाराज दशधर्मगता सती ॥
शोकार्ता तस्य बालस्य चक्षुषी निर्बिभेद सा ॥११३॥
कराभ्यां राजपुत्रस्य ततस्तच्चक्षुरस्फुटत् ।
कृत्वा चान्धं चृपसुतमुत्पपात ततोऽम्बरम् ॥११४॥
अथ राजा सुतं दृष्ट्वा पूजनीयामुवाच ह ।
विशोका भव कल्याणि कृतं ते भीरु शोभनम् ॥११५॥
गतशोका निवर्तस्व अजर्यं सख्यमस्तु ते ।
पुरेव वस भद्रं ते निवर्तस्व रमस्व च ॥११६॥
पुत्रपीडोद्भवश्चापि न कोपः परमस्त्वयि ।
ममास्ति सखि भद्रं ते कर्तव्यं च कृतं त्वया ॥११७॥
पूजनीयोवाच
आत्मौपम्येन जानामि पुत्रस्नेहं तवाप्यहम् ।
न चाहं वस्तुमिच्छामि तव पुत्रमचक्षुषम् ।
कृत्वा वै राजशार्दूल त्वद् गृहे कृतकिल्बिषा ॥११८॥
गाथाश्चाप्युशनोगीता इमाः शृणु मयेरिताः ।
कुमित्रं च कुदेशं च कुराजानं कुसौहृदम् ।
कुपुत्रं च कुभार्यां च दूरतः परिवर्जयेत् ॥११९॥
कुमित्रे सौहृदं नास्ति कुभार्यायां कुतो रतिः ।
कुतः पिण्डः कुपुत्रे वै नास्ति सत्यं कुराजनि ॥१२०॥
कुसौहृदे क विश्वासः कुदेशे न तु जीव्यते ।
कुराजनि भयं नित्यं कुपुत्रे सर्वतोऽसुखम् ॥१२१॥
अपकारिणि विस्रम्भं यः करोति नराधमः ।
अनाथो दुर्बलो यद्वन्न चिरं स तु जीवति ॥१२२॥
न विश्वसेदविश्वस्ते विश्वस्ते नातिविश्वसेत् ।
विश्वासाद् भयमुत्पन्नं मूलान्यपि निकृन्तति ॥१२३॥
राजसेविषु विश्वासं गर्भसंकरितेषु च ।
यः करोति नरो मूढो न चिरं स तु जीवति ॥१२४॥
अप्युन्नतिं प्राप्य नरः प्रावारः कीटको यथा ।
स विनश्यत्यसंदेहमाहैवमुशना नृप ॥१२५॥
अपि मार्दवभावेन गात्रं संलीय बुद्धिमान् ।
अरिं नाशयते नित्यं यथा वल्लिर्महाद्रुमम् ॥१२६॥
मृदुरार्द्रः कृशो भूत्वा शनैः संलीयते रिपुः ।
वल्मीक इव वृक्षस्य पश्चान्मूलानि कृन्तति ॥१२७॥
अद्रोहसमयं कृत्वा मुनीनामग्रतो हरिः ।
जघान नमुचिं पश्चादपां फेनेन पार्थिव ॥१२८॥
सुप्तं मत्तं प्रमत्तं वा घातयन्ति रिपुं नराः ।
विषेण वह्निना वापि शस्त्रेणाप्यथ मायया ॥१२९॥
न च शेषं प्रकुर्वन्ति पुनर्वैरभयान्नरा ।
घातयन्ति समूलं हि श्रुत्वेमामुपमां नृप ॥१३०॥
शत्रुशेषमृणाच्छेषं शेषमग्नेश्च भूमिप ।
पुनर्वर्धेत सम्भूय तस्माच्छेषं न शेषयेत् ॥१३१॥
हसते जल्पते वैरी एकपात्रे भुनक्ति च ।
एकासनं चारोहति स्मरते तच्च किल्बिषम् ॥१३२॥
कृत्वा सम्बन्धकं चापि विश्वसेच्छत्रुणा न हि ।
पुलोमानं जघानाजौ जामाता सञ्शतक्रतुः ॥१३३॥
निधाय मनसा वैरं प्रियं वक्तीह यो नरः ।
उपसर्पेन्न तं प्राज्ञः कुरङ्ग इव लुब्धकम् ॥१३४॥
न चासन्ने निवस्तव्यं सवैरे वर्धिते रिपौ ।
पातयेत् तं समूलं हि नदीरय इव द्रुमम् ॥१३५॥
अमित्रादुन्नतिं प्राप्य नोन्नतोऽस्मीति विश्वसेत् ।
तस्मात् प्राप्योन्नतिं नश्येत्प्रावार इव कीटकः ॥१३६॥
इत्येता ह्युशनोगीता गाथा धार्या विपश्चिता ।
कुर्वता चात्मरक्षां वै नरेण पृथिवीपते ॥१३७॥
मया सकिल्बिषं तुभ्यं प्रयुक्तमतिदारुणम् ।
पुत्रमन्धं प्रकुर्वन्त्या तस्मान्नो विश्वसे त्वयि ॥१३८॥
एवमुक्त्वा प्रदुद्राव तदाऽऽकाशं पतङ्गिनी ।
इत्येतत् ते मयाख्यातं पुराभूतमिदं नृप ॥१३९॥
ब्रह्मदत्तस्य राजेन्द्र यद् वृत्तं पूजनीयया ।
श्राद्धं च पृच्छसे यन्मां युधिष्ठिर महामते ॥१४०॥
अतस्ते वर्तयिष्येऽहमितिहासं पुरातनम् ।
गीतं सनत्कुमारेण मार्कण्डेयाय पृच्छते ॥१४१॥
श्राद्धस्य फलमुद्दिश्य नियतं सुकृतस्य च ।
तन्निबोध महाराज सप्तजातिषु भारत ॥१४२॥
सगालवस्य चरितं कण्डरीकस्य चैव हि ।
ब्रह्मदत्ततृतीयानां योगिनां ब्रह्मचारिणाम् ॥१४३॥
इति श्रीमहाभारते खिलभागे हरिवंशे हरिवंशपर्वणि पूजनीयोपाख्याने चटकाख्यानं नाम विंशोऽध्यायः ॥२०॥

Translation - भाषांतर
N/A

References : N/A
Last Updated : 2018-07-11T13:53:19.2800000

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.

थकबाकी

  • स्त्री. कुळाकडे मुदतीबाहेर राहिलेली कर्जाची बाकी . ( थकणें + बाकीं ) 
  • ना. अदत्त रक्कम , न फेडलेली रक्कम ( कर्जाची ), वसूक करावयाची रक्कम , शिल्लक रक्कम . 
RANDOM WORD

Did you know?

भीमा माहात्म्य हा ग्रंथ उपलब्ध होइल का?
Category : Puranic Literature
RANDOM QUESTION
Don't follow traditions blindly or ignore them. Don't assume a superstition either. Don't be intentionally ignorant. Ask us!!
Hindu customs are all about Symbolism. Let us tell you the thought behind those traditions.
Make Informed Religious decisions.