संस्कृत सूची|संस्कृत साहित्य|पुराण|हरिवंशपुराणम्|हरिवंश पर्व| द्विचत्वारिंशोऽध्यायः हरिवंश पर्व प्रथमोऽध्यायः द्वितीयोऽध्यायः तृतीयोऽध्यायः चतुर्थोऽध्यायः पञ्चमोऽध्यायः षष्ठोऽध्यायः सप्तमोऽध्यायः अष्टमोऽध्यायः नवमोऽध्यायः दशमोऽध्यायः एकादशोऽध्यायः द्वादशोऽध्यायः त्रयोदशोऽध्यायः चतुर्दशोऽध्यायः पञ्चदशोऽध्यायः षोडशोऽध्यायः सप्तदशोऽध्यायः अष्टादशोऽध्यायः एकोनविंशोऽध्यायः विंशोऽध्यायः एकविंशोऽध्यायः त्रयोविंशतितमोऽध्यायः चतुर्विशतितमोऽध्यायः पञ्चविंशतितमोऽध्यायः षडविंशोऽध्यायः सप्तविंशोऽध्यायः अष्टाविंशोऽध्यायः एकोनत्रिंशोऽध्यायः त्रिंशोऽध्यायः एकत्रिंशोऽध्यायः द्वात्रिंशोऽध्यायः त्रयस्त्रिंशोऽध्यायः चतुस्त्रिंशोऽध्यायः पञ्चत्रिंशोऽध्यायः षट्त्रिंशोऽध्यायः सप्तत्रिंशोऽध्यायः अष्टत्रिंशोऽध्यायः एकोनचत्वारिंशोऽध्यायः चत्वारिंशोऽध्यायः एकचत्वारिंशोऽध्यायः द्विचत्वारिंशोऽध्यायः त्रिचत्वारिंशोऽध्यायः चतुश्चत्वारिंशोऽध्यायः पञ्चचत्वारिंशोऽध्यायः षट्चत्वारिंशोऽध्यायः सप्तचत्वारिंशोऽध्यायः अष्टचत्वारिंशोऽध्यायः एकोनपञ्चाशत्तमोऽध्यायः पञ्चाशत्तमोऽध्यायः एकपञ्चाशत्तमोऽध्यायः द्विपञ्चाशत्तमोऽध्यायः त्रिपञ्चाशत्तमोऽध्यायः चतुष्पञ्चाशत्तमोऽध्यायः पञ्चपञ्चाशत्तमोऽध्याय हरिवंश पर्व - द्विचत्वारिंशोऽध्यायः महर्षी व्यासांनी रचलेला हा महाभारताचा पुरवणी ग्रंथ आहे. Tags : harivansha puranpuransanskritपुराणसंस्कृतहरिवंश पुराण द्विचत्वारिंशोऽध्यायः Translation - भाषांतर भगवतः विष्णोः ईशित्वस्य वर्णनम्, अद्भुततारकामयस्य संग्रामस्य कथावैशम्पायन उवाचविश्वत्वं शृणु मे विष्णोर्हरित्वं च कृते युगे ।वैकुण्ठत्वं च देवेषु कृप्णत्वं मानुषेषु च ॥१॥ईश्वरत्वं च तस्येदं गहनां कर्मणां गतिम् ॥२॥अव्यक्तो व्यक्तलिङ्गस्थो यत्रैव भगवान् प्रभुः ।नारायणो ह्यनन्तात्मा प्रभवोऽव्यय एव च ॥३॥एष नारायणो भूत्वा हरिरासीत्कृते युगे ।ब्रह्मा शक्रश्च सोमश्च धर्मः शुक्रो बृहस्पतिः ॥४॥अदितेरपि पुत्रत्वमेत्य यादवनन्दनः ।एष विष्णुरिति ख्यात इन्द्रादवरजोऽभवत् ॥५॥प्रसादजं ह्यस्य विभोरदित्याः पुत्रजन्म तत् ।वधार्थं सुरशत्रूणां दैत्यदानवरक्षसाम् ॥६॥प्रधानात्मा पुरा ह्येष ब्रह्माणमसृजत् प्रभुः ।सोऽसृजत् पूर्वपुरुषः पुरा कल्पे प्रजापतीन् ॥७॥ते तन्वानास्तनूस्तत्र ब्रह्मवंशाननुत्तमान् ।तेभ्योऽभवन्महात्मभ्यो बहुधा ब्रह्म शाश्वतम् ॥८॥एतदाश्चर्यभूतस्य विष्णोर्नामानुकीर्तनम् ।कीर्तनीयस्य लोकेषु कीर्त्यमानं निबोध मे ॥९॥वृत्ते वृत्रवधे तात वर्तमाने कृते युगे ।आसीत् त्रैलोक्यविख्यातः संग्रामस्तारकामयः ॥१०॥तत्रासन् दानवा घोराः सर्वे संग्रामदर्पिताः ।घ्नन्ति देवगणान्सर्वान् सयक्षोरगराक्षसान् ॥११॥ते वध्यमाना विमुखाः क्षीणप्रहरणा रणे ।त्रातारं मनसा जग्मुर्देवं नारायणं हरिम् ॥१२॥एतस्मिन्नन्तरे मेघा निर्वाणाङ्गारवर्षिणः ।सार्कचन्द्रग्रहगणं छादयन्तो नभस्तलम् ॥१३॥चञ्चद्विद्युद्गणाविद्धा घोरा निर्ह्रादकारिणः ।अन्योन्यवेगाभिहताः प्रववुः सप्त मारुताः ॥१४॥दीप्ततोयाशनीपातैर्वज्रवेगानिलाकुलैः ।ररास घोरैरुत्पातैर्दह्यमानमिवाम्बरम् ॥१५॥पेतुरुलेकैसहस्राणि मुहुराकाशगान्यपि ।न्युब्जानि च विमानानि प्रपतन्त्युत्पतन्ति च ॥१६॥चतुर्युगान्तपर्याये लोकानां यद् भयं भवेत् ।तादृशान्येव रूपाणि तस्मिन्नुत्पातलक्षणे ॥१७॥तमसा निष्प्रभं सर्वं न प्राज्ञायत किंचन ।तिमिरौघपरिक्षिप्ता न रेजुश्च दिशो दश ॥१८॥निशेव रूपिणी काली कालमेघावगुण्ठिता ।द्यौर्न भात्यभिभूतार्का घोरेण तमसा वृता ॥१९॥तान्घनौघान्सतिमिरान्दोर्भ्यामुत्क्षिप्य स प्रभुः ।वपुः संदर्शयामास दिव्यं कृष्णवपुर्हरिः ॥२०॥बलाहकाञ्जननिभं बलाहकतनूरुहम् ।तेजसा वपुषा चैव कृष्णं कृष्णमिवाचलम् ॥२१॥दीप्तपीताम्बरधरं तप्तकाञ्चनभूषणम् ।धूमान्धकारवपुषा युगान्ताग्निमिवोत्थितम् ॥२२॥चतुर्द्विगुणपीनांसं बलाकापङ्क्तिभूषणम् ।चामीकरकराकारैरायुधैरुपशोभितम् ॥२३॥चन्द्रार्ककिरणोद्द्योतं गिरिकूटं शिलोच्चयम् ।नन्दकानन्दितकरं शराशीविषधारिणम् ॥२४॥शक्तिचित्रं हलोदग्रं शङ्खचक्रगदाधरम् ।विष्णुशैलं क्षमामूलं श्रीवृक्षं शार्ङ्गधन्विनम् ॥२५॥हर्यश्वरथसंयुक्ते सुपर्णध्वजशोभिते ।चन्द्रार्कचक्ररुचिरे मन्दराक्षधृतान्तरे ॥२६॥अनन्तरश्मिसंयुक्ते ददृशे मेरुकूबरे ।तारकाचित्रकुसुमे ग्रहनक्षत्रबन्धुरे ॥२७॥भयेष्वभयदं व्योम्नि देवा दैत्यपराजिताः ।ददृशुस्ते स्थितं देवं दिव्यलोकमये रथे ॥२८॥ते कृताञ्जलयः सर्वे देवाः शक्रपुरोगमाः ।जयशब्दं पुरस्कृत्य शरण्यं शरणं गताः ॥२९॥स तेषां ता गिरः श्रुत्वा विष्णुर्दयितदेवतः ।मनश्चक्रे विनाशाय दानवानां महामृधे ॥३०॥आकाशे तु स्थितो विष्णुः सोत्तमे पुरुषोत्तमः ।उवाच देवताः सर्वाः सप्रतिज्ञमिदं वचः ॥३१॥शान्तिं भजत भद्रं वो मा भैष्ट मरुतां गणाः ।जिता मे दानवाः सर्वे त्रैलोक्यं प्रतिगृह्यताम् ॥३२॥ते तस्य सत्यसंधस्य विष्णोर्वाक्ये न तोषिताः ।देवाः प्रीतिं परां जग्मुः प्राप्येवामृतमुत्थितम् ॥३३॥ततस्तमः संह्रियते विनेशुश्च बलाहका ।प्रववुश्च शिवा वाताः प्रसन्नाश्च दिशो दश ॥३४॥सुप्रभाणि च ज्योतींषि चन्द्रं चक्रुः प्रदक्षिणम् ।दीप्तिमन्ति च तेजांसि चक्रुरर्के प्रदक्षिणम् ॥३५॥न विग्रहं ग्रहाश्चक्रुः प्रसन्नाश्चापि सिन्धवः ।नीरजस्का बभुर्मार्गा नाकमार्गादयस्त्रयः ॥३६॥यथार्थमूहुः सरितो नापि चुक्षुभिरेऽर्णवाः ।आसञ्छुभानीन्द्रियाणि नराणामन्तरात्मसु ॥३७॥महर्षयो वीतशोका वेदानुच्चैरधीयते ।यज्ञेषु च हविः स्वादु शिवमश्नाति पावकः॥३८॥प्रवृत्तधर्माः संवृत्ता लोका मुदितमानसाः ।प्रीत्या परमया युक्ता देवदेवस्य भूपते ।विष्णोः सत्यप्रतिज्ञस्य श्रुत्वारिनिधने गिरम् ॥३९॥इति श्रीमहाभारते खिलभागे हरिवंशे हरिवंशपर्वणि द्विचत्वारिंशोऽध्यायः ॥४२॥ N/A References : N/A Last Updated : July 12, 2018 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP