संस्कृत सूची|संस्कृत साहित्य|पुराण|हरिवंशपुराणम्|हरिवंश पर्व| अष्टमोऽध्यायः हरिवंश पर्व प्रथमोऽध्यायः द्वितीयोऽध्यायः तृतीयोऽध्यायः चतुर्थोऽध्यायः पञ्चमोऽध्यायः षष्ठोऽध्यायः सप्तमोऽध्यायः अष्टमोऽध्यायः नवमोऽध्यायः दशमोऽध्यायः एकादशोऽध्यायः द्वादशोऽध्यायः त्रयोदशोऽध्यायः चतुर्दशोऽध्यायः पञ्चदशोऽध्यायः षोडशोऽध्यायः सप्तदशोऽध्यायः अष्टादशोऽध्यायः एकोनविंशोऽध्यायः विंशोऽध्यायः एकविंशोऽध्यायः त्रयोविंशतितमोऽध्यायः चतुर्विशतितमोऽध्यायः पञ्चविंशतितमोऽध्यायः षडविंशोऽध्यायः सप्तविंशोऽध्यायः अष्टाविंशोऽध्यायः एकोनत्रिंशोऽध्यायः त्रिंशोऽध्यायः एकत्रिंशोऽध्यायः द्वात्रिंशोऽध्यायः त्रयस्त्रिंशोऽध्यायः चतुस्त्रिंशोऽध्यायः पञ्चत्रिंशोऽध्यायः षट्त्रिंशोऽध्यायः सप्तत्रिंशोऽध्यायः अष्टत्रिंशोऽध्यायः एकोनचत्वारिंशोऽध्यायः चत्वारिंशोऽध्यायः एकचत्वारिंशोऽध्यायः द्विचत्वारिंशोऽध्यायः त्रिचत्वारिंशोऽध्यायः चतुश्चत्वारिंशोऽध्यायः पञ्चचत्वारिंशोऽध्यायः षट्चत्वारिंशोऽध्यायः सप्तचत्वारिंशोऽध्यायः अष्टचत्वारिंशोऽध्यायः एकोनपञ्चाशत्तमोऽध्यायः पञ्चाशत्तमोऽध्यायः एकपञ्चाशत्तमोऽध्यायः द्विपञ्चाशत्तमोऽध्यायः त्रिपञ्चाशत्तमोऽध्यायः चतुष्पञ्चाशत्तमोऽध्यायः पञ्चपञ्चाशत्तमोऽध्याय हरिवंश पर्व - अष्टमोऽध्यायः महर्षी व्यासांनी रचलेला हा महाभारताचा पुरवणी ग्रंथ आहे. Tags : harivansha puranpuransanskritपुराणसंस्कृतहरिवंश पुराण अष्टमोऽध्यायः Translation - भाषांतर चतुर्युगानां, मन्वन्तराणां एवं ब्रह्मणः अहः वर्षस्य च मानाःजनमेजय उवाचमन्वन्तरस्य संख्यानं युगानां च महामते ।ब्रह्मणोऽह्नः प्रमाणं च वक्तुमर्हसि मे द्विज ॥१॥वैशम्पायन उवाचअहोरात्रं भजेत् सूर्यो मानवं लौकिकं परम् ।तामुपादाय गणनां शृणु संख्यामरिंदम ॥२॥निमेषैः पञ्चदशभिः काष्ठा त्रिंशत् तु ताः कलाः ।त्रिंशत्कलो मुहूर्तस्तु त्रिंशता तैर्मनीषिणः ॥३॥अहोरात्रमिति प्राहुश्चन्द्रसूर्यगतिं नृप ।विशेषेण तु सर्वेषु अहोरात्रे च नित्यशः ॥४॥अहोरात्राः पञ्चदश पक्ष इत्यभिशब्दितः ।द्वौ पक्षौ तु स्मृतो मासो मासौ द्वावृतुरुच्यते ॥५॥अब्दं द्व्ययनमुक्तं च अयनं त्वृतुभिस्त्रिभिः ।दक्षिणं चोत्तरं चैव संख्यातत्त्वविशारदैः ॥६॥मानेनानेन यो मासः पक्षद्वयसमन्वितः ।पितॄणां तदहोरात्रमिति कालविदो विदुः ॥७॥कृष्णपक्षस्त्वहस्तेषां शुक्लपक्षस्तु शर्वरी ।कृष्णपक्षं त्वहः श्राद्धं पितॄणां वर्तते नृप ॥८॥मानुषेण तु मानेन यो वै संवत्सरः स्मृतः ।देवानां तदहोरात्रं दिवा चैवोत्तरायणम् ।दक्षिणायनं स्मृता रात्रिः प्राज्ञैस्तत्त्वार्थकोविदैः ॥९॥दिव्यमब्दं दशगुणमहोरात्रं मनोः स्मृतम् ।अहोरात्रं दशगुणं मानवः पक्ष उच्यते ॥१०॥पक्षो दशगुणो मासो मासैर्द्वादशभिर्गुणैः ।ऋतुर्मनूनां संप्रोक्तः प्राज्ञैस्तत्त्वार्थदर्शिभिः ।ऋतुत्रयेण त्वयनं तद्द्वयेनैव वत्सरः ॥११॥चत्वार्येव सहस्राणि वर्षाणां तु कृतं युगम् ।तावच्छती भवेत् संध्या संध्यांशश्च तथा नृप ॥१२॥त्रीणि वर्षसहस्राणि त्रेता स्यात्परिमाणतः ।तस्याश्च त्रिशती संध्या संध्यांशश्च तथाविधः ॥१३॥तथा वर्षसहस्रे द्वे द्वापरं परिकीर्तितम् ।तस्यापि द्विशती संध्या संध्यांशश्च तथाविधः ॥१४॥कलिर्वर्षसहस्रं च संख्यातोऽत्र मनीषिभिः ।तस्यापि शतिका संध्या संध्यांशश्चैव तद्विधः ॥१५॥एषा द्वादशसाहस्री युगसंख्या प्रकीर्तिता ।दिव्येनानेन मानेन युगसंख्यां निबोध मे ॥१६॥कृतं त्रेता द्वापरं च कलिश्चैव चतुर्युगी ।युगं तदेकसप्तत्या गणितं नृपसत्तम ॥१७॥मन्वन्तरमिति प्रोक्तं संख्यानार्थविशारदैः ।अयनं चापि तत्प्रोक्तं द्वेऽयने दक्षिणोत्तरे ॥१८॥मनुः प्रलीयते यत्र समाप्ते चायने प्रभोः ।ततोऽपरो मनुः कालमेतावन्तं भवत्युत ॥१९॥समतीतेषु राजेन्द्र प्रोक्तः संवत्सरः स वै ।तदेव चायुतं प्रोक्तं मुनिना तत्त्वदर्शिना ॥२०॥ब्रह्मणस्तदहः प्रोक्तं कल्पश्चेति स कथ्यते ।सहस्रयुगपर्यन्ता या निशा प्रोच्यते बुधैः ॥२१॥निमज्जत्यप्सु यत्रोर्वी सशैलवनकानना ।तस्मिन् युगसहस्रे तु पूर्णे भरतसत्तम ॥२२॥ब्राह्मे दिवसपर्यन्ते कल्पो निःशेष उच्यते ।युगानि सप्ततिस्तानि साग्राणि कथितानि ते ॥२३॥कृतत्रेतानिबद्धानि मनोरन्तरमुच्यते ।चतुर्दशैते मनवः कीर्तिताः कीर्तिवर्द्धनाः ॥२४॥वेदेषु सपुराणेषु सर्वेषु प्रभविष्णवः ।प्रजानां पतयो राजन् धन्यमेषां प्रकीर्तनम् ॥२५॥मन्वन्तरेषु संहाराः संहारान्तेषु सम्भवाः ।न शक्यमन्तरं तेषां वक्तुं वर्षशतैरपि ॥२६॥विसर्गस्य प्रजानां वै संहारस्य च भारत ।मन्वन्तरेषु संहाराः श्रूयन्ते भरतर्षभ ॥२७॥सशेषास्तत्र तिष्ठन्ति देवाः सप्तर्षिभिः सह ।तपसा ब्रह्मचर्येण श्रुतेन च समाहिताः ॥२८॥पूर्णे युगसहस्रे तु कल्पो निःशेष उच्यते ।तत्र सर्वाणि भूतानि दग्धान्यादित्यतेजसा ॥२९॥ब्रह्माणमग्रतः कृत्वा सहादित्यगणैर्विभुम् ।योगं योगीश्वरं देवमजं क्षेत्रज्ञमच्युतम् ।प्रविशन्ति सुरश्रेष्ठं हरिं नारायणं प्रभुम् ॥३०॥यः स्रष्टा सर्वभूतानां कल्पान्तेषु पुनः पुनः ।अव्यक्तः शाश्वतो देवस्तस्य सर्वमिदं जगत् ॥३१॥तत्र संवर्तते रात्रिः सकलैकार्णवे तदा ।नारायणो दधे निद्रां ब्राह्मं वर्षसहस्रकम् ॥३२॥तावन्तमिति कालस्य रात्रिरित्यभिशब्दिता ।निद्रायोगमनुप्राप्तो यस्यां शेते पितामहः ॥३३॥सा च रात्रिरपक्रान्ता सहस्रयुगपर्यया ।तदा प्रबुद्धो भगवान् ब्रह्मा लोकपितामहः ॥३४॥पुनः सिसृक्षया युक्तः सर्गाय विदधे मनः ।सैव स्मृतिः पुराणेयं तद्वृत्तं तद्विचेष्टितम् ॥३५॥देवस्थानानि तान्येव केवलं च विपर्ययः ।ततो दग्धानि भूतानि सर्वाण्यादित्यरश्मिभिः ॥३६॥देवर्षियक्षगन्धर्वाः पिशाचोरगराक्षसाः ।जायन्ते च पुनस्तात युगे भरतसत्तम ॥३७॥यथर्तावृतुलिङ्गानि नानारूपाणि पर्यये ।दृश्यन्ते तानि तान्येव तथा ब्राह्मीषु रात्रिषु ॥३८॥निष्क्रमित्वा प्रजाकारः प्रजापतिरसंशयम् ।ये च वै मानवा देवाः सर्वे चैव महर्षयः ॥३९॥ते सङ्गताः शुद्धसङ्गाः शश्वद्धर्मविसर्गतः ।न भवन्ति पुनस्तात युगं भरतसत्तम ॥४०॥तत्सर्वं क्रमयोगेन कालसंख्याविभागवित् ।सहस्रयुगसंख्यानं कृत्वा दिवसमीश्वरः ॥४१॥रात्रिं युगसहस्रान्तां कृत्वा च भगवान् विभुः ।संहरत्यथ भूतानि सृजते च पुनः पुनः ॥४२॥व्यक्ताव्यक्तो महादेवो हरिर्नारायणः प्रभुः ।तस्य ते कीर्तयिष्यामि मनोर्वैवस्वतस्य ह ॥४३॥विसर्गं भरतश्रेष्ठ साम्प्रतस्य महाद्युते ।वृष्णिवंशप्रसङ्गेन कथ्यमानं पुरातनम् ॥४४॥यत्रोत्पन्नो महात्मा स हरिर्वृष्णिकुले प्रभुः ।सर्वासुरविनाशाय सर्वलोकहिताय च ॥४५॥इति श्रीमहाभारते खिलभागे हरिवंशे हरिवंशपर्वणि मन्वन्तरगणनायामष्टमोऽध्यायः ॥८॥ N/A References : N/A Last Updated : July 11, 2018 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP