संस्कृत सूची|संस्कृत साहित्य|पुराण|हरिवंशपुराणम्|हरिवंश पर्व| सप्तविंशोऽध्यायः हरिवंश पर्व प्रथमोऽध्यायः द्वितीयोऽध्यायः तृतीयोऽध्यायः चतुर्थोऽध्यायः पञ्चमोऽध्यायः षष्ठोऽध्यायः सप्तमोऽध्यायः अष्टमोऽध्यायः नवमोऽध्यायः दशमोऽध्यायः एकादशोऽध्यायः द्वादशोऽध्यायः त्रयोदशोऽध्यायः चतुर्दशोऽध्यायः पञ्चदशोऽध्यायः षोडशोऽध्यायः सप्तदशोऽध्यायः अष्टादशोऽध्यायः एकोनविंशोऽध्यायः विंशोऽध्यायः एकविंशोऽध्यायः त्रयोविंशतितमोऽध्यायः चतुर्विशतितमोऽध्यायः पञ्चविंशतितमोऽध्यायः षडविंशोऽध्यायः सप्तविंशोऽध्यायः अष्टाविंशोऽध्यायः एकोनत्रिंशोऽध्यायः त्रिंशोऽध्यायः एकत्रिंशोऽध्यायः द्वात्रिंशोऽध्यायः त्रयस्त्रिंशोऽध्यायः चतुस्त्रिंशोऽध्यायः पञ्चत्रिंशोऽध्यायः षट्त्रिंशोऽध्यायः सप्तत्रिंशोऽध्यायः अष्टत्रिंशोऽध्यायः एकोनचत्वारिंशोऽध्यायः चत्वारिंशोऽध्यायः एकचत्वारिंशोऽध्यायः द्विचत्वारिंशोऽध्यायः त्रिचत्वारिंशोऽध्यायः चतुश्चत्वारिंशोऽध्यायः पञ्चचत्वारिंशोऽध्यायः षट्चत्वारिंशोऽध्यायः सप्तचत्वारिंशोऽध्यायः अष्टचत्वारिंशोऽध्यायः एकोनपञ्चाशत्तमोऽध्यायः पञ्चाशत्तमोऽध्यायः एकपञ्चाशत्तमोऽध्यायः द्विपञ्चाशत्तमोऽध्यायः त्रिपञ्चाशत्तमोऽध्यायः चतुष्पञ्चाशत्तमोऽध्यायः पञ्चपञ्चाशत्तमोऽध्याय हरिवंश पर्व - सप्तविंशोऽध्यायः महर्षी व्यासांनी रचलेला हा महाभारताचा पुरवणी ग्रंथ आहे. Tags : harivansha puranpuransanskritपुराणसंस्कृतहरिवंश पुराण सप्तविंशोऽध्यायः Translation - भाषांतर पुरूरवसः द्वितीयपुत्रस्य अमावसोः वंशवर्णनम्, विश्वामित्रस्य एवं परशुरामस्य उत्पत्तिःवैशम्पायन उवाचऐलपुत्रा बभूवुस्ते सर्वे देवसुतोपमाः ।दिवि जाता महात्मान आयुर्धीमानमावसुः ॥१॥विश्वायुश्चैव धर्मात्मा श्रुतायुश्च तथापरः ।दृढायुश्च वनायुश्च शतायुश्चोर्वशीसुताः ॥२॥अमावसोश्च दायादो भीमो राजाथ नग्नजित् ।श्रीमान्भीमस्य दायादो राजासीत्काञ्चनप्रभः ।विद्वांस्तु काञ्चनस्यापि सुहोत्रोऽभून्महाबलः ॥३॥सौहोत्रिरभवज्जह्नुः केशिन्या गर्भसम्भवः ।आजह्रे यो महत्सत्रं सर्वमेधमहामखम् ॥४॥पतिलोभेन यं गङ्गा पतित्वेऽभिससार ह ।नेच्छतः प्लावयामास तस्य गङ्गां च तत्सदः ।स तया प्लावितं दृष्ट्वा यज्ञवाटं समन्ततः ॥५॥सौहित्रिरब्रवीद् गङ्गां क्रुद्धो भरतसत्तम ॥६॥एष ते विफलं यत्नं पिबन्नम्भः करोम्यहम् ।अस्य गङ्गेऽवलेपस्य सद्यः फलमवाप्नुहि ॥७॥राजर्षिणा ततः पीतां गङ्गां दृष्ट्वा महर्षयः ।उपनिन्युर्महाभागां दुहितृत्वेन जाह्नवीम् ॥८॥युवनाश्वस्य पुत्रीं तु कावेरीं जह्नुरावहत् ।युवनाश्वस्य शापेन गङ्गार्धेन विनिर्ममे ।कावेरीं सरितां श्रेष्ठां जह्नोर्भार्यामनिन्दिताम् ॥९॥जह्नुस्तु दयितं पुत्रं सुनहं नाम धार्मिकम् ।कावेर्यां जनयामास अजकस्तस्य चात्मजः ॥१०॥अजकस्य तु दायादो बलाकाश्वो महीपतिः ।बभूव मृगयाशीलः कुशस्तस्यात्मजोऽभवत् ॥११॥कुशपुत्रा बभूवुर्हि चत्वारो देववर्चसः ।कुशिकः कुशनाभश्च कुशाम्बो मूर्तिमांस्तथा ॥१२॥पह्लवैः सह संवृद्धिं राजा वनचरैस्तदा ।कुशिकस्तु तपस्तेपे पुत्रमिन्द्रसमप्रभम् ।लभेयमिति तं शक्रस्त्रासादभ्येत्य जक्षिवान् ॥१३॥पूर्णे वर्षसहस्रे वै तं तु शक्रो ह्यपश्यत ।अत्युग्रतपसं दृष्ट्वा सहस्राक्षः पुरंदरः ॥१४॥समर्थः पुत्रजनने स्वमेवांशमवासयत् ।पुत्रत्वे कल्पयामास स देवेन्द्रः सुरोत्तमः ॥१५॥स गाधिरभवद्राजा मघवान् कौशिकः स्वयम् ।पौरुकुत्स्यभवद् भार्या गाधिस्तस्यामजायत ॥१६॥गाधेः कन्या महाभागा नाम्ना सत्यवती शुभा ।तां गाधिर्भृगुपुत्राय ऋचीकाय ददौ प्रभुः ॥१७॥तस्याः प्रीतोऽभवद् भर्ता भार्गवो भृगुनन्दनः ।पुत्रार्थं कारयामास चरुं गाधेस्तथैव च ॥१८॥उवाचाहूय तां भर्ता ऋचीको भार्गवस्तदा ।उपयोज्यश्चरुरयं त्वया मात्रा त्वयं तव ॥१९॥तस्यां जनिष्यते पुत्रो दीप्तिमान् क्षत्रियर्षभः ।अजेयः क्षत्रियैर्लोके क्षत्रियर्षभसूदनः ॥२०॥तवापि पुत्रं कल्याणि धृतिमन्तं तपोनिधिम् ।शमात्मकं द्विजश्रेष्ठं चरुरेष विधास्यति ॥२१॥एवमुक्त्वा तु तां भार्यामृचीको भृगुनन्दनः ।तपस्यभिरतो नित्यमरण्यं प्रविवेश ह ॥२२॥गाधिः सदारस्तु तदा ऋचीकावासमभ्यगात् ।तीर्थयात्राप्रसङ्गेन सुतां द्रष्टुं जनेश्वरः ॥२३॥चरुद्वयं गृहीत्वा तद्ऋषेः सत्यवती तदा ।चरुमादाय यत्नेन सा तु मात्रे न्यवेदयत् ॥२४॥माता व्यत्यस्य दैवेन दुहित्रे स्वं चरुं ददौ ।तस्याश्चरुमथाज्ञानादात्मसंस्थं चकार ह ॥२५॥अथ सत्यवती गर्भे क्षत्रियान्तकरं तदा ।धारयामास दीप्तेन वपुषा घोरदर्शनम् ॥२६॥तामृचीकस्ततो दृष्ट्वा योगेनाभ्यनुसृत्य च ।तामब्रवीद् द्विजश्रेष्ठः स्वां भार्यां वरवर्णिनीम् ॥२७॥मात्रासि वञ्चिता भद्रे चरुव्यत्यासहेतुना ।जनिष्यति हि पुत्रस्ते क्रूरकर्मातिदारुणः ॥२८॥भ्राता जनिष्यते चापि ब्रह्मभूतस्तपोधनः ।विश्वं हि ब्रह्म तपसा मया तस्मिन्समर्पितम् ॥२९॥एवमुक्ता महाभागा भर्त्रा सत्यवती तदा ।प्रसादयामास पतिं पुत्रो मे नेदृशो भवेत् ।ब्राह्मणापसदस्तत्र इत्युक्तो मुनिरब्रवीत् ॥३०॥नैष संकल्पितः कामो मया भद्रे तथास्त्विति ।उग्रकर्मा भवेत् पुत्रः पितुर्मातुश्च कारणात् ।पुनः सत्यवती वाक्यमेवमुक्ताब्रवीदिदम् ॥३१॥इच्छँलोकानपि मुने सृजेथाः किं पुनः सुतम् ।शमात्मकमृजुं त्वं मे पुत्रं दातुमिहार्हसि ॥३२॥काममेवंविधः पौत्रो मम स्यात्तव च प्रभो ।यद्यन्यथा न शक्यं वै कर्तुमेतद् द्विजोत्तम ॥३३॥ततः प्रसादमकरोत्स तस्यास्तपसो बलात् ।भद्रे नास्ति विशेषो मे पौत्रे च वरवर्णिनि ।त्वया यथोक्तं वचनं तथा भद्रं भविष्यति ॥३४॥ततः सत्यवती पुत्रं जनयामास भार्गवम् ।तपस्यभिरतं दान्तं जमदग्निं शमात्मकम् ॥३५॥भृगोश्चरुविपर्यासे रौद्रवैष्णवयोः पुरा ।यजनाद् वैष्णवेऽथांशे जमदग्निरजायत ॥३६॥सा हि सत्यवती पुण्या सत्यधर्मपरायणा ।कौशिकीति समाख्याता प्रवृत्तेयं महानदी ॥३७॥इक्ष्वाकुवंशप्रभवो रेणुर्नाम नराधिपः ।तस्य कन्या महाभागा कामली नाम रेणुका ॥३८॥रेणुकायां तु कामल्यां तपोविद्यासमन्वितः ।आर्चीको जनयामास जामदग्न्यं सुदारुणम् ॥३९॥सर्वविद्यानुगं श्रेष्ठं धनुर्वेदस्य पारगम् ।रामं क्षत्रियहन्तारं प्रदीप्तमिव पावकम् ॥४०॥और्वस्यैवमृचीकस्य सत्यवत्यां महायशाः ।जमदग्निस्तपोवीर्याज्जज्ञे ब्रह्मविदां वरः ॥४१॥मध्यमश्च शुनःशेपः शुनःपुच्छः कनिष्ठकः ।विश्वामित्रं तु दायादं गाधिः कुशिकनन्दनः ॥४२॥जनयामास पुत्रं तु तपोविद्याशमात्मकम् ।प्राप्य ब्रह्मर्षिसमतां योऽयं सप्तर्षितां गतः ॥४३॥विश्वामित्रस्तु धर्मात्मा नाम्ना विश्वरथः स्मृतः ।जज्ञे भृगुप्रसादेन कौशिकाद् वंशवर्धनः ॥४४॥विश्वामित्रस्य च सुता देवरातादयः स्मृताः ।प्रख्यातास्त्रिषु लोकेषु तेषां नामानि मे शृणु ॥४५॥देवश्रवाः कतिश्चैव यस्मात्कात्यायनाः स्मृताः ।शालावत्यां हिरण्याक्षो रेणोर्जज्ञेऽथ रेणुमान् ॥४६॥सांकृतिर्गालवश्चैव मुद्गलश्चेति विश्रुताः ।मधुच्छन्दो जयश्चैव देवलश्च तथाष्टकः ॥४७॥कच्छपो हारितश्चैव विश्वामित्रस्य वै सुताः ।तेषां ख्यातानि गोत्राणि कौशिकानां महात्मनाम् ॥४८॥पाणिनो बभ्रवश्चैव ध्यानजप्यास्तथैव च ।पार्थिवा देवराताश्च शालङ्कायनबाष्कलाः ॥४९॥लोहिता यामदूताश्च तथा कारीषवः स्मृताः ।सौश्रुताः कौशिका राजंस्तथान्ये सैन्धवायनाः ॥५०॥देवला रेणवश्चैव याज्ञवल्क्याघमर्षणाः ।औदुम्बरा ह्यभिष्णातास्तारकायनचुञ्चुलाः ॥५१॥शालावत्या हिरण्याक्षाः सांकृत्या गालवास्तथा ।बादरायणिनश्चान्ये विश्वामित्रस्य धीमतः ॥५२॥ऋष्यन्तरविवाह्याश्च कौशिका बहवः स्मृताः ।पौरवस्य महाराज ब्रह्मर्षेः कौशिकस्य च ।सम्बन्धोऽन्यस्य वंशेऽस्मिन्ब्रह्मक्षत्रस्य विश्रुतः ॥५३॥विश्वामित्रात्मजानां तु शुनःशेपोऽग्रजः स्मृतः ।भार्गवः कौशिकत्वं हि प्राप्तः स मुनिसत्तमः ॥५४॥विश्वामित्रस्य पुत्रस्तु शुनःशेपोऽभवत्किल ।हरिदश्वस्य यज्ञे तु पशुत्वे विनियोजितः ॥५५॥देवैर्दत्तः शुनःशेपो विश्वामित्राय वै पुनः ।देवैर्दत्तः स वै यस्माद् देवरातस्ततोऽभवत् ॥५६॥देवरातादयः सप्त विश्वामित्रस्य वै सुताः ।दृषद्वतीसुतश्चापि विश्वामित्रात् तथाष्टकः ॥५७॥अष्टकस्य सुतो लौहिः प्रोक्तो जह्नुगणो मया ।अत ऊर्ध्वं प्रवक्ष्यामि वंशमायोर्महात्मनः ॥५८॥इति श्रीमहाभारते खिलभागे हरिवंशे हरिवंशपर्वण्यमावसुवंशकीर्तनं नाम सप्तविंशोऽध्यायः ॥२७॥ N/A References : N/A Last Updated : July 12, 2018 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP