TransLiteral Foundation
संस्कृत सूची|संस्कृत साहित्य|पुराण|हरिवंशपुराणम्|हरिवंश पर्व|
पञ्चदशोऽध्यायः

हरिवंश पर्व - पञ्चदशोऽध्यायः

महर्षी व्यासांनी रचलेला हा महाभारताचा पुरवणी ग्रंथ आहे.


पञ्चदशोऽध्यायः
सूर्यवंशवर्णनम्

जनमेजय उवाच
सगरस्यात्मजा वीराः कथं जाता महात्मनः ।
विक्रान्ताः षष्टिसाहस्रा विधिना केन वा द्विज ॥१॥
वैशम्पायायन उवाच
द्वे भार्ये सगरस्यास्तां तपसा दग्धकिल्बिषे ।
ज्येष्ठा विदर्भदुहिता केशिनी नाम विश्रुता ॥२॥
कनीयसी तु या तस्य पत्नी परमधर्मिणी ।
अरिष्टनेमिदुहिता रूपेणाप्रतिमा भुवि ॥३॥
और्वस्ताभ्यां वरं प्रादात् तं निबोध जनाधिप ।
षष्टिं पुत्रसहस्राणि गृह्णात्वेका तपस्विनी ॥४॥
एकं वंशधरं त्वेका यथेष्ठं वरयत्विति ।
तत्रैका जगृहे पुत्राँल्लुब्धा शूरान् बहूंस्तथा ॥५॥
एकं वंशधरं त्वेका तथेत्याह च तां मुनिः ।
केशिन्यसूत सगरादसमञ्जसमात्मजम् ॥६॥
राजा पञ्चजनो नाम बभूव सुमहाबलः ।
इतरा सुषुवे तुम्बीं बीजपूर्णामिति श्रुतिः ॥७॥
तत्र षष्टिसहस्राणि गर्भास्ते तिलसम्मिताः ।
सम्बभूवुर्यथाकालं ववृधुश्च यथाक्रमम् ॥८॥
घृतपूर्णेषु कुम्भेषु तान्गर्भान् निदधे पिता ।
धात्रीश्चैकैकशः प्रादात् तावतीरेव पोषणे ॥९॥
ततो दशसु मासेषु समुत्तस्थुर्यथासुखम् ।
कुमारास्ते यथाकालं सगरप्रीतिवर्धनाः ॥१०॥
षष्टिः पुत्रसहस्राणि तस्यैवमभवन् नृप ।
गर्भादलाबुमध्याद् वै जातानि पृथिवीपते ॥११॥
तेषां नारायणं तेजः प्रविष्टानां महात्मनाम् ।
एकः पञ्चजनो नाम पुत्रो राजा बभूव ह ॥१२॥
सुतः पञ्चजनस्यासीदंशुमान्नाम वीर्यवान् ।
दिलीपस्तनयस्त्वस्य खट्वाङ्ग इति विश्रुतः ॥१३॥
येन स्वर्गादिहागत्य मुहूर्तं प्राप्य जीवितम् ।
त्रयोऽनुसंधिता लोका बुद्ध्या सत्येन चानघ ॥१४॥
दिलीपस्य तु दायादो महाराजो भगीरथः ।
यः स गङ्गां सरिच्छ्रेष्ठामवातारयत प्रभुः ॥१५॥
कीर्तिमान् स महाभागः शक्रतुल्यपराक्रमः ।
समुद्रमानयच्चैनां दुहितृत्वेन कल्पयत् ।
तस्माद् भागीरथी गङ्गा कथ्यते वंशचिन्तकैः ॥१६॥
भगीरथसुतो राजा श्रुत इत्यभिविश्रुतः ।
नाभागस्तु श्रुतस्यासीत्पुत्रः परमधार्मिकः ॥१७॥
अम्बरीषस्तु नाभागिः सिन्धुद्वीपपिताभवत,
अयुताजित्तु दायादःसिन्धुद्वीपस्य वीर्यवान् ॥१८॥
अयुताजित्सुतस्त्वासीदृतुपर्णो महायशाः ।
दिव्याक्षहृदयज्ञो वै राजा नलसखो बली ॥१९॥
ऋतुपर्णसुतस्त्वासीदार्तुपर्णिर्महीपतिः ।
सुदासस्तस्य तनयो राजात्विन्द्रसखोऽभवत् ॥२०॥
सुदासस्य सुतस्त्वासीत्सौदासो नाम पार्थिवः ।
ख्यातः कल्माषपादो वै नाम्ना मित्रसहस्तथा ॥२१॥
कल्माषपादस्य सुतः सर्वकर्मेति विश्रुतः ।
अनरण्यस्तु पुत्रोऽभूद् विश्रुतः सर्वकर्मणः ॥२२॥
अनरण्यसुतो निघ्नो निघ्नपुत्रौ बभूवतुः ।
अनमित्रो रघुश्चैव पार्थिवर्षभ सत्तमौ ॥२३॥
अनमित्रस्य धर्मात्मा विद्वान् दुलिदुहोऽभवत् ।
दिलीपस्तनयस्तस्य रामप्रप्रपितामहः ॥२४॥
दीर्घबाहुर्दिलीपस्य रघुर्नाम्नाभवत् सुतः ।
अयोध्यायां महाराजो रघुश्चासीन्महाबलः ॥२५॥
अजस्तु रघुतो जज्ञे अजाद् दशरथोऽभवत् ।
रामो दशरथाज्जज्ञे धर्मात्मा सुमहायशाः ॥२६॥
रामस्य तनयो जज्ञे कुश इत्यभिविश्रुतः ।
अतिथिस्तु कुशाज्जज्ञे निषधस्तस्य चात्मजः ॥२७॥
निषधस्य नलः पुत्रो नभः पुत्रो नलस्य तु ।
नभस्य पुण्डरीकस्तु क्षेमधन्वा ततः स्मृतः ॥२८॥
क्षेमधन्वसुतस्त्वासीद् देवानीकः प्रतापवान् ।
आसीदहीनगुर्नाम देवानीकसुतः प्रभुः ॥२९॥
अहीनगोस्तु दायादः सुधन्वा नाम पार्थिवः ।
सुधन्वनः सुतश्चैव ततो जज्ञेऽनलो नृपः ॥३०॥
उक्थो नाम स धर्मात्मानलपुत्रो बभूव ह ।
वज्रनाभः सुतस्तस्य उक्थस्य च महात्मनः ॥३१॥
शङ्खस्तस्य सुतो विद्वान् व्युषिताश्व इति श्रुतः ।
पुष्पस्तस्य सुतो विद्वानर्थसिद्धिस्तु तत्सुतः ॥३२॥
सुदर्शनः सुतस्तस्य अग्निवर्णः सुदर्शनात् ।
अग्निवर्णस्य शीघ्रस्तु शीघ्रस्य तु मरुः सुतः ॥३३॥
मरुस्तु योगमास्थाय कलापद्वीपमास्थितः ।
तस्यासीद् विश्रुतवतः पुत्रो राजा बृहद्बलः ॥३४॥
नलौ द्वावेव विख्यातौ पुराणे भरतर्षभ ।
वीरसेनात्मजश्चैव यश्चेक्ष्वाकुकुलोद्वहः ॥३५॥
इक्ष्वाकुवंशप्रभवाः प्राधान्येनेह कीर्तिताः ।
एते विवस्वतो वंशे राजानो भूरितेजसः ॥३६॥
पठन् सम्यगिमां सृष्टिमादित्यस्य विवस्वतः ।
श्राद्धदेवस्य देवस्य प्रजानां पुष्टिदस्य च ॥३७॥
प्रजावानेति सायुज्यमादित्यस्य विवस्वतः ।
विपाप्मा विरजाश्चैव आयुष्मांश्च भवत्युत ॥३८॥
इति श्रीमहाभारते खिलभागे हरिवंशे हरिवंशपर्वणि आदित्यस्य वंशानुकीर्तनं नाम पञ्चदशोऽध्यायः ॥१५॥

Translation - भाषांतर
N/A

References : N/A
Last Updated : 2018-07-11T13:48:23.9700000

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.

सांतरस्पर्श

  • m  Mediate contact. 
  • sāntarasparśa m S Mediate contact. 
RANDOM WORD

Did you know?

गणेश गीतेचा मराठी अनुवाद कुठे आणि कसा मिळेल या बद्दल सांगावे
Category : Puranic Literature
RANDOM QUESTION
Don't follow traditions blindly or ignore them. Don't assume a superstition either. Don't be intentionally ignorant. Ask us!!
Hindu customs are all about Symbolism. Let us tell you the thought behind those traditions.
Make Informed Religious decisions.