संस्कृत सूची|संस्कृत साहित्य|पुराण|हरिवंशपुराणम्|हरिवंश पर्व| चतुष्पञ्चाशत्तमोऽध्यायः हरिवंश पर्व प्रथमोऽध्यायः द्वितीयोऽध्यायः तृतीयोऽध्यायः चतुर्थोऽध्यायः पञ्चमोऽध्यायः षष्ठोऽध्यायः सप्तमोऽध्यायः अष्टमोऽध्यायः नवमोऽध्यायः दशमोऽध्यायः एकादशोऽध्यायः द्वादशोऽध्यायः त्रयोदशोऽध्यायः चतुर्दशोऽध्यायः पञ्चदशोऽध्यायः षोडशोऽध्यायः सप्तदशोऽध्यायः अष्टादशोऽध्यायः एकोनविंशोऽध्यायः विंशोऽध्यायः एकविंशोऽध्यायः त्रयोविंशतितमोऽध्यायः चतुर्विशतितमोऽध्यायः पञ्चविंशतितमोऽध्यायः षडविंशोऽध्यायः सप्तविंशोऽध्यायः अष्टाविंशोऽध्यायः एकोनत्रिंशोऽध्यायः त्रिंशोऽध्यायः एकत्रिंशोऽध्यायः द्वात्रिंशोऽध्यायः त्रयस्त्रिंशोऽध्यायः चतुस्त्रिंशोऽध्यायः पञ्चत्रिंशोऽध्यायः षट्त्रिंशोऽध्यायः सप्तत्रिंशोऽध्यायः अष्टत्रिंशोऽध्यायः एकोनचत्वारिंशोऽध्यायः चत्वारिंशोऽध्यायः एकचत्वारिंशोऽध्यायः द्विचत्वारिंशोऽध्यायः त्रिचत्वारिंशोऽध्यायः चतुश्चत्वारिंशोऽध्यायः पञ्चचत्वारिंशोऽध्यायः षट्चत्वारिंशोऽध्यायः सप्तचत्वारिंशोऽध्यायः अष्टचत्वारिंशोऽध्यायः एकोनपञ्चाशत्तमोऽध्यायः पञ्चाशत्तमोऽध्यायः एकपञ्चाशत्तमोऽध्यायः द्विपञ्चाशत्तमोऽध्यायः त्रिपञ्चाशत्तमोऽध्यायः चतुष्पञ्चाशत्तमोऽध्यायः पञ्चपञ्चाशत्तमोऽध्याय हरिवंश पर्व - चतुष्पञ्चाशत्तमोऽध्यायः महर्षी व्यासांनी रचलेला हा महाभारताचा पुरवणी ग्रंथ आहे. Tags : harivansha puranpuransanskritपुराणसंस्कृतहरिवंश पुराण चतुष्पञ्चाशत्तमोऽध्यायः Translation - भाषांतर भगवतः विष्णोः प्रति देवर्षेः नारदस्य वचनम् - भूर्लोकस्य वर्तमानावस्थायाः परिचयं दत्त्वा भगवन्तं अवतारग्रहणाय प्रेरणम्वैशम्पायन उवाचकृतकार्ये गते काले जगत्यां च यथानयम् ।अंशावतरणे वृत्ते सुराणां भारते कुले ॥१॥भागेऽवतीर्णे धर्मस्य शक्रस्य पवनस्य च ।अश्विनोर्देवभिषजोर्भागे वै भास्करस्य च ॥२॥पूर्वमेवावनिगते भागे देवपुरोधसः ।वसूनामष्टमे भागे प्रागेव धरणीं गते ॥३॥मृत्योर्भागे क्षितिगते कलेर्भागे तथैव च ।भागे शुक्रस्य सोमस्य वरुणस्य च गां गते ॥४॥शङ्करस्य गते भागे मित्रस्य धनदस्य च ।गन्धर्वोरगयक्षाणां भागांशेषु गतेषु च ॥५॥भागेष्वेतेषु गगनादवतीर्णेषु मेदिनीम् ।तिष्ठन्नारायणस्यांशे नारदः समदृश्यत ॥६॥ज्वलिताग्निप्रतीकाशो बालार्कसदृशेक्षणः ।सव्यापवृत्तं विपुलं जटामण्डलमुद्वहन् ॥७॥चन्द्रांशुशुक्ले वसने वसानो रुक्मभूषितः ।वीणां गृहीत्वा महतीं कक्षासक्तां सखीमिव ॥८॥कृष्णाजिनोत्तरासङ्गो हेमयज्ञोपवीतवान् ।दण्डी कमण्डलुधरः साक्षाच्छक्र इवापरः ॥९॥भेत्ता जगति गुह्यानां विग्रहाणां ग्रहोपमः ।गाता चतुर्णां वेदानामुद्गाता प्रथमर्त्विजाम् ।महर्षिर्विग्रहरुचिर्विद्वान् गान्धर्वकोविदः ॥१०॥वैरिकेलिकिलो विप्रो ब्राह्मः कलिरिवापरः ।देवगन्धर्वलोकानामादिवक्ता महामुनिः ॥११॥स नारदोऽथ ब्रह्मर्षिर्ब्रह्मलोकचरोऽव्ययः ।स्थितो देवसभामध्ये संरब्धो विष्णुमब्रवीत् ॥१२॥अंशावतरणं विष्णो यदिदं त्रिदशैः कृतम् ।क्षयार्थे पृथिवीन्द्राणां सर्वमेतदकारणम् ॥१३॥यदेतत् पार्थिवं क्षत्रं स्थितं त्वयि यदीश्वर ।नृनारायणयुक्तोऽयं कार्यार्थः प्रतिभाति मे ॥१४॥न युक्तं जानता देव त्वया तत्त्वार्थदर्शिना ।देवदेव पृथिव्यर्थे प्रयोक्तुं कार्यमीदृशम् ॥१५॥त्वं हि चक्षुष्मतां चक्षुः श्लाघ्यः प्रभवतां प्रभुः ।श्रेष्ठो योगवतां योगी गतिर्गतिमतामपि ॥१६॥देवभागान् गतान्दृष्ट्वा किं त्वं सर्वाश्रयो विभुः ।वसुन्धरायाः साह्यार्थमंशं स्वं नानुयुञ्जसे ॥१७॥त्वया सनाथा देवांशास्त्वन्मयास्त्वत्परायणाः ।जगत्यां संचरिष्यन्ति कार्यात् कार्यान्तरं गताः ॥१८॥तदहं त्वरया विष्णो प्राप्तः सुरसभामिमाम् ।तव संचोदनार्थं वै शृणु चाप्यत्र कारणम् ॥१९॥ये त्वया निहता दैत्याः संग्रामे तारकामये ।तेषां शृणु गतिं विष्णो ये गताः पृथिवीतलम् ॥२०॥पुरी पृथिव्यां मुदिता मथुरानामतः श्रुता ।निविष्टा यमुनातीरे स्फीता जनपदायुता ॥२१॥मधुर्नाम महानासीद् दानवो युधि दुर्जयः ।त्रासनः सर्वभूतानां बलेन महतान्वितः ॥२२॥तस्य तत्र महच्चासीन्महापादपसंकुलम् ।घोरं मधुवनं नाम यत्रासौ न्यवसत् पुरा ॥२३॥तस्य पुत्रो महानासील्लवणो नाम दानवः ।त्रासनः सर्वभूतानां महाबलपराक्रमः ॥२४॥स तत्र दानवः क्रीडन् वर्षपूगाननेकशः ।स दैवतगणाँल्लोकानुद्वासयति दर्पितः ॥२५॥अयोध्यायामयोध्यायां रामे दाशरथौ स्थिते ।राज्यं शासति धर्मज्ञे राक्षसानां भयावहे ॥२६॥स दानवो बलश्लाघी घोरं वनमुपाश्रितः ।प्रेषयामास रामाय दूतं प्ररुषवादिनम् ॥२७॥विषयासन्नभूतोऽस्मि तव राम रिपुश्च ह ।न च सामन्तमिच्छन्ति राजानो बलदर्पितम् ॥२८॥राज्ञा राज्यव्रतस्थेन प्रजानां हितकाम्यया ।जेतव्या रिपवः सर्वे स्फीतं विषयमिच्छता ॥२९॥अभिषेकार्द्रकेशेन राज्ञा रञ्जनकाम्यया ।जेतव्यानीन्द्रियाण्यादौ तज्जये हि ध्रुवो जयः ॥३०॥सम्यग् वर्तितुकामस्य विशेषेण महीपतेः ।नयानामुपदेशेन नास्ति लोकसमो गुरुः ॥३१॥व्यसनेषु जघन्यस्य धर्ममध्यस्य धीमतः ।बलज्येष्ठस्य नृपतेर्नास्ति सामन्तजं भयम् ॥३२॥सहजैर्बाध्यते सर्वः प्रवृद्धैरिन्द्रियादिभिः ।अमित्राणां प्रियकरैर्मोहैरधृतिरीश्वरः ॥३३॥यत् त्वया स्त्रीकृते मोहात्सगणो रावणो हतः ।नैतदौपयिकं मन्ये महद् वै कर्म कुत्सिनम् ॥३४॥वनवासप्रवृत्तेन यत् त्वया व्रतशालिना ।प्रहृतं राक्षसानीके नैव दृष्टः सतां विधिः ॥३५॥सतामक्रोधजो धर्मः शुभां नयति सद्गतिम् ।यत् त्वया निहता मोहाद् दूषिताश्चाश्रमौकसः ॥३६॥स एष रावणो धन्यो यस्त्वया व्रतचारिणा ।स्त्रीनिमित्ते हतो युद्धे ग्राम्यान् धर्मानवेक्षता ॥३७॥यदि ते निहतः संख्ये दुर्बुद्धिरजितेन्द्रियः ।युध्यस्वाद्य मया सार्धं मृधे यद्यसि वीर्यवान् ॥३८॥तस्य दूतस्य तच्छ्रुत्वा भाषितं रूक्षवादिनः ।धैर्यादसम्भ्रान्तवपुः सस्मितं राघवोऽब्रवीत् ॥३९॥असदेतत् त्वया दूत भाषितं तस्य गौरवात् ।यन्मां क्षिपसि दोषेण वेदात्मानं च सुस्थिरम् ॥४०॥यद्यहं सत्पथे मूढो यदि वा रावणो हतः ।यदि वा मे हृता भार्या का तत्र परिदेवना ॥४१॥न वाङ्मात्रेण दुष्यन्ति साधवः सत्पथे स्थिताः ।जागर्ति च यथा देवः सदा सत्स्वितरेषु च ॥४२॥कृतं दूतेन यत्कार्यं गच्छ त्वं दूत मा चिरम् ।नात्मश्लाघिषु नीचेषु दृढे प्रहरन्तीह मद्विधाः ॥४३॥अयं ममानुजो भ्राता शत्रुघ्नः शत्रुतापनः ।तस्य दैत्यस्य दुर्बुद्धेर्मृधे प्रतिकरिष्यति ॥४४॥एवमुक्तः स दूतस्तु ययौ सौमित्रिणा सह ।अनुज्ञातो नरेन्द्रेण राघवेण महात्मना ॥४५॥स शीघ्रयानः सम्प्राप्तस्तद् दानवपुरं महत् ।चक्रे निवेशं सौमित्रिर्वनान्ते युद्धलालसः ॥४६॥ततो दूतस्य वचनात् स दैत्यः क्रोधमूर्च्छितः ।पृष्ठतस्तद्वनं कृत्वा युद्धायाभिमुखः स्थितः ॥४७॥तद् युद्धमभवद् घोरं सौमित्रेर्दानवस्य च ।उभयोरेव बलिनोः शूरयो रणमूर्धनि ॥४८॥तौ शरैः साधु निशितैरन्योन्यमभिजघ्नतुः ।न च तौ युद्धवैमुख्यं श्रमं वाप्युपजग्मतुः ॥४९॥अथ सौमित्रिणा बाणैः पीडितो दानवो युधि ।ततः स शूलरहितः पर्यहीयत दानवः ॥५०॥स गृहीत्वाङ्कुशं चैव दैवैर्दत्तवरं रणे ।कर्षणं सर्वभूतानां लवणो विररास ह ॥५१॥शिरोधरायां जग्राह सोऽङ्कुशेन चकर्ष ह ।प्रवेशयितुमारब्धो लवणो राघवानुजम् ॥५२॥स रुक्मत्सरुमुद्यम्य शत्रुघ्नः खड्गमुत्तमम् ।शिरश्चिच्छेद खङ्गेन लवणस्य महामृधे ॥५३॥स हत्वा दानवं संख्ये सौमित्रिर्मित्रवत्सलः ।तद् वनं तस्य दैत्यस्य चिच्छेदास्त्रेण बुद्धिमान् ॥५४॥छित्त्वा वनं तत् सौमित्रिर्निवेशं सोऽभ्यरोचयत् ।भवाय तस्य देशस्य पुर्याः प्ररूमधर्मवित् ॥५५॥तस्मिन् मधुवनस्थाने मथुरा नाम सा पुरी ।शत्रुघ्नेन पुरा सृष्टा हत्वा तं दानवं रणे ॥५६॥सा पुरी परमोदारा साट्टप्राकारतोरणा ।स्फीता राष्ट्रसमाकीर्णा समृद्धबलवाहना ॥५७॥उद्यानवनसम्पन्ना सुसीमा सुप्रतिष्ठिता ।प्रांशुप्राकारवसना परिखाकुलमेखला ॥५८॥चयाट्टालककेयूरा प्रासादवरकुण्डला ।सुसंवृतद्वारमुखा चत्वरोद्गारहासिनी ॥५९॥अरोगवीरपुरुषा हस्त्यश्वरथसंकुला ।अर्धचन्द्रप्रतीकाशा यमुनातीरशोभिता ॥६०॥पुण्यापणवती दुर्गा रत्नसंचयगर्विता ।क्षेत्राणि सस्यवन्त्यस्याः काले देवश्च वर्षति ॥६१॥नरनारीप्रमुदिता सा पुरी स्म प्रकाशते ।निविष्टविषयश्चैव शूरसेनस्ततोऽभवत् ॥६२॥तस्य पुर्यां महावीर्यो राजा भोजकुलोद्वहः ।उग्रसेन इति ख्यातो महासेनपराक्रमः ॥६३॥तस्य पुत्रत्वमापन्नो योऽसौ विष्णो त्वया हतः ।कालनेमिर्महादैत्यः संग्रामे तारकामये ॥६४॥कंसो नाम विशालाक्षो भोजवंशविवर्धनः ।राजा पृथिव्यां विख्यातः सिंहविस्पष्टविक्रमः ॥६५॥राज्ञां भयकरो घोरः शङ्कनीयो महीक्षिताम् ।भयदः सर्वभूतानां सत्पथाद् बाह्यतां गतः ॥६६॥दारुणाभिनिवेशेन दारुणेनान्तरात्मना ।युक्तस्तेनैव दर्पेण प्रजानां रोमहर्षणः ॥६७॥न राजधर्माभिरतो नात्मपक्षसुखावहः ।नात्मराज्ये प्रियकरश्चण्डः कररुचिः सदा ॥६८॥स कंसस्तत्र सम्भूतस्त्वया युद्धे पराजितः ।क्रव्यादो बाधते लोकानासुरेणान्तरात्मना ॥६९॥योऽप्यसौ हयविक्रान्तो हयग्रीव इति स्मृतः ।केशी नाम हयो जातः स तस्यैव जघन्यजः ॥७०॥स दुष्टो ह्रेषितपटुः केसरी निरवग्रहः ।वृन्दावने वसत्येको नृणां मांसानि भक्षयन् ॥७१॥अरिष्टो बलिपुत्रश्च ककुद्मी वृषरूपधृक् ।गवामरित्वमापन्नः कामरूपी महासुरः ॥७२॥रिष्टो नाम दितेः पुत्रो वरिष्ठो दानवेषु यः ।स कुञ्जरत्वमापन्नो दैत्यः कंसस्य वाहनः ॥७३॥लम्बो नामेति विख्यातो योऽसौ दैत्येषु दर्पितः ।प्रलम्बो नाम दैत्योऽसौ वटं भाण्डीरमाश्रितः ॥७४॥खर इत्युच्यते दैत्यो धेनुकः सोऽसुरोत्तमः ।घोरं तालवनं दैत्यश्चरत्युद्वासयन् प्रजाः ॥७५॥वाराहश्च किशोरश्च दानवौ यो महाबलौ ।मल्लौ रङ्गगतौ तौ तु जातौ चाणूरमुष्टिकौ ॥७६॥यौ तौ मयश्च तारश्च दानवौ दानवान्तक ।प्राग्ज्योतिषे तौ भौमस्य नरकस्य पुरे रतौ ॥७७॥एते दैत्या विनिहतास्त्वया विष्णो निराकृताः ।मानुषं वपुरास्थाय बाधन्ते भुवि मानुषान् ॥७८॥त्वत्कथाद्वेषिणः सर्वे त्वद्भक्तान् घ्नन्ति मानुषान् ।तव प्रसादात् तेषां वै दानवानां क्षयो भवेत् ॥७९॥त्वत्तस्ते बिभ्यति दिवि त्वत्तो बिभ्यति सागरे ।पृथिव्यां तव बिभ्यन्ति नान्यतस्तु कदाचन ॥८०॥दुर्वृत्तस्य हतस्यापि त्वया नान्येन श्रीधर ।दिवश्च्युतस्य दैत्यस्य गतिर्भवति मेदिनी ॥८१॥व्युत्थितस्य च मेदिन्यां हतस्य नृशरीरिणः ।दुर्लभं स्वर्गगमनं त्वयि जाग्रति केशव ॥८२॥तदागच्छ स्वयं विष्णो गच्छामः पृथिवीतलम् ।दानवानां विनाशाय विसृजात्मानमात्मना ॥८३॥मूर्तयो हि तवाव्यक्ता दृश्यादृश्याः सुरोत्तमैः ।तासु सृष्टास्त्वया देवाः सम्भविष्यन्ति भूतले ॥८४॥तवावतरणे विष्णो कंसः स विनशिष्यति ।सेत्स्यते च स कार्यार्थो यस्यार्थे भूमिरागता ॥८५॥त्वं भारते कार्यगुरुस्त्वं चक्षुस्त्वं परायणम् ।तदागच्छ हृषीकेश क्षितौ ताञ्जहि दानवान् ॥८६॥इति श्रीमहाभारते खिलभागे हरिवंशे हरिवंशपर्वणि नारदवाक्ये चतुष्पञ्चाशत्तमोऽऽध्यायः ॥५४॥ N/A References : N/A Last Updated : July 12, 2018 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP