संस्कृत सूची|संस्कृत साहित्य|पुराण|हरिवंशपुराणम्|हरिवंश पर्व| अष्टत्रिंशोऽध्यायः हरिवंश पर्व प्रथमोऽध्यायः द्वितीयोऽध्यायः तृतीयोऽध्यायः चतुर्थोऽध्यायः पञ्चमोऽध्यायः षष्ठोऽध्यायः सप्तमोऽध्यायः अष्टमोऽध्यायः नवमोऽध्यायः दशमोऽध्यायः एकादशोऽध्यायः द्वादशोऽध्यायः त्रयोदशोऽध्यायः चतुर्दशोऽध्यायः पञ्चदशोऽध्यायः षोडशोऽध्यायः सप्तदशोऽध्यायः अष्टादशोऽध्यायः एकोनविंशोऽध्यायः विंशोऽध्यायः एकविंशोऽध्यायः त्रयोविंशतितमोऽध्यायः चतुर्विशतितमोऽध्यायः पञ्चविंशतितमोऽध्यायः षडविंशोऽध्यायः सप्तविंशोऽध्यायः अष्टाविंशोऽध्यायः एकोनत्रिंशोऽध्यायः त्रिंशोऽध्यायः एकत्रिंशोऽध्यायः द्वात्रिंशोऽध्यायः त्रयस्त्रिंशोऽध्यायः चतुस्त्रिंशोऽध्यायः पञ्चत्रिंशोऽध्यायः षट्त्रिंशोऽध्यायः सप्तत्रिंशोऽध्यायः अष्टत्रिंशोऽध्यायः एकोनचत्वारिंशोऽध्यायः चत्वारिंशोऽध्यायः एकचत्वारिंशोऽध्यायः द्विचत्वारिंशोऽध्यायः त्रिचत्वारिंशोऽध्यायः चतुश्चत्वारिंशोऽध्यायः पञ्चचत्वारिंशोऽध्यायः षट्चत्वारिंशोऽध्यायः सप्तचत्वारिंशोऽध्यायः अष्टचत्वारिंशोऽध्यायः एकोनपञ्चाशत्तमोऽध्यायः पञ्चाशत्तमोऽध्यायः एकपञ्चाशत्तमोऽध्यायः द्विपञ्चाशत्तमोऽध्यायः त्रिपञ्चाशत्तमोऽध्यायः चतुष्पञ्चाशत्तमोऽध्यायः पञ्चपञ्चाशत्तमोऽध्याय हरिवंश पर्व - अष्टत्रिंशोऽध्यायः महर्षी व्यासांनी रचलेला हा महाभारताचा पुरवणी ग्रंथ आहे. Tags : harivansha puranpuransanskritपुराणसंस्कृतहरिवंश पुराण अष्टत्रिंशोऽध्यायः Translation - भाषांतर भजमानवंशस्य वर्णनम्, स्यमन्तकमणेः कथावैशम्पायन उवाचभजमानस्य पुत्रोऽथ रथमुख्यो विदूरथः ।राजाधिदेवः शूरस्तु विदूरथसुतोऽभवत् ॥१॥राजाधिदेवस्य सुता जज्ञिरे वीर्यवत्तराः ।दत्तातिदत्तबलिनौ शोणाश्वः श्वेतवाहनः ॥२॥शमी च दण्डशर्मा च दण्डशत्रुश्च शत्रुजित् ।श्रवणा च श्रविष्ठा च स्वसारौ सम्बभूवतुः ॥३॥शमीपुत्रः प्रतिक्षत्रः प्रतिक्षत्रस्य चात्मजः ।स्वयंभोजः स्वयंभोजाद्धृदीकः सम्बभूव ह ॥४॥तस्य पुत्रा बभूवुर्हि सर्वे भीमपराक्रमाः ।कृतवर्माग्रजस्तेषां शतधन्वाथ मध्यमः ॥५॥देवर्षेर्वचनात् तस्य भिषग् वैतरणश्च यः ।सुदान्तश्च विदान्तश्च कामदा कामदन्तिका ॥६॥देववांश्चाभवत् पुत्रो विद्वान् कम्बलबर्हिषः ।असमौजास्तथा वीरो नासमौजाश्च तावुभौ ॥७॥अजातपुत्राय सुतान् प्रददावसमौजसे ।सुदंष्ट्रं चारुरूपं च कृष्णमित्यन्धकास्त्रयः ॥८॥एते चान्ये च बहवो अन्धकाः कथितास्तव ।अन्धकानामिमं वंशं धारयेद् यस्तु नित्यशः ॥९॥आत्मनो विपुलं वंशं लभते नात्र सशयः ।गान्धारी चैव माद्री च क्रोष्टुर्भार्ये बभूवतुः ॥१०॥गान्धारी जनयामास अनमित्रं महाबलम् ।माद्री युधाजितं पुत्रं ततो वै देवमीढुषम् ॥११॥अनमित्रममित्राणां जेतारमपराजितम् ।अनमित्रसुतो निघ्नो निघ्नतो द्वौ बभूवतुः ॥१२॥प्रसेनश्चाथ सत्राजिच्छत्रुसेनाजितावुभौ ।प्रसेनो द्वारवत्यां तु निवसन्त्यां महामणिम् ॥१३॥दिव्यं स्यमन्तकं नाम समुद्रादुपलब्धवान् ।तस्य सत्राजितः सूर्यः सखा प्राणसमोऽभवत् ॥१४॥स कदाचिन्निशापाये रथेन रथिनां वरः ।अब्धिकूलमुपस्प्रष्टुमुपस्थातुं ययौ रविम् ॥१५॥तस्योपतिष्ठतः सूर्यं विवस्वानग्रतः स्थितः ।अस्पष्टमूर्तिर्भगवांस्तेजोमण्डलवान् प्रभूः ॥१६॥अथ राजा विवस्वन्तमुवाच स्थितमग्रतः ।यथैवं व्योम्नि पश्यामि सदा त्वां ज्योतिषाम्पते ॥१७॥तेजोमण्डलिनं देवं तथैव पुरतः स्थितम् ।को विशेषोऽस्ति मे त्वत्तः सख्येनोपागतस्य वै ॥१८॥एतच्छ्रुत्वा तु भगवान् मणिरत्नं स्यमन्तकम् ।स्वकण्ठादवमुच्यैव एकान्ते न्यस्तवान् विभुः ॥१९॥ततो विग्रहवन्तं तं ददर्श नृपतिस्तदा ।प्रीतिमानथ तं दृष्ट्वा मुहूर्तं कृतवान् कथाम् ॥२०॥तमपि प्रस्थितं भूयो विवस्वन्तं स सत्रजित् ।लोकानुद्भासयस्येतान् येन त्वं सततं प्रभो ।तदेतन्मणिरत्नं मे भगवन् दातुमर्हसि ॥२१॥ततः स्यमन्तकमणिं दत्तवांस्तस्य भास्करः ।स तमाबद्ध्य नगरीं प्रविवेश महीपतिः ॥२२॥तं जनाः पर्यधावन्त सूर्योऽयं गच्छतीति ह ।पुरीं विस्मापयित्वा च राजा त्वन्तःपुरं ययौ ॥२३॥तत् प्रसेनजितं दिव्यं मणिरत्नं स्यमन्तकम् ।ददौ भ्रात्रे नरपतिः प्रेम्णा सत्राजिदुत्तमम् ॥२४॥स मणिः स्यन्दते रुक्मं वृष्ण्यन्धकनिवेशने ।कालवर्षी च पर्जन्यो न च व्याधिभयं ह्यभूत् ॥२५॥लिप्सां चक्रे प्रसेनात्तु मणिरत्ने स्यमन्तके ।गोविन्दो न च तल्लेभे शक्तोऽपि न जहार सः ॥२६॥कदाचिन्मृगयां यातः प्रसेनस्तेन भूषितः ।स्यमन्तककृते सिंहाद् वधं प्राप वनेचरात ॥२७॥अथ सिंहं प्रधावन्तमृक्षराजो महाबलः ।निहत्य मणिरत्नं तदादाय बिलमाविशत् ॥२८॥ततो वृष्ण्यन्धकाः कृष्णं प्रसेनवधकारणात् ।प्रार्थनां तां मणेर्बुद्ध्या सर्व एव शशङ्किरे ॥२९॥स शङ्क्यमानो धर्मात्मा नकारी तस्य कर्मणः ।आहरिष्ये मणिमिति प्रतिज्ञाय वनं ययौ ॥३०॥यत्र प्रसेनो मृगयामाचरत् तत्र चाप्यथ ।प्रसेनस्य पदं गृह्य पुरुषैराप्तकारिभिः ॥३१॥ऋक्षवन्तं गिरिवरं विन्ध्यं च गिरिमुत्तमम् ।अन्वेषयन् परिश्रान्तः स ददर्श महामनाः॥३२॥साश्वं हतं प्रसेनं वै नाविन्दच्चेच्छितं मणिम् ।अथ सिंहः प्रसेनस्य शरीरस्याविदूरतः ॥३३॥ऋक्षेण निहतो दृष्टः पादैर्ऋक्षश्च सूचितः ।पादैरन्वेषयामास गुहामृक्षस्य माधवः ॥३४॥महत्यृक्षबिले वाणीं शुश्राव प्रमदेरिताम् ।धात्र्या कुमारमादाय सुतं जाम्बवतो नृप ।क्रीडापयन्त्या मणिना मा रोदीरित्यथेररिताम् ॥३५॥धात्र्युवाचसिंहः प्रसेनमवधीत् सिंहो जाम्बवता हतः ।सुकुमारक मा रोदीस्तव ह्येष स्यमन्तकः ॥३६॥सुव्यक्तीकृतशब्दस्तु तूष्णीं बिलमथाविशत् ।प्रविश्य चापि भगवांस्तमृक्षबिलमञ्जसा ॥३७॥स्थापयित्वा बिलद्वारि यदूंल्लाँङ्गलिना सह ।शार्ङ्गधन्वा बिलस्थं तु जाम्बवन्तं ददर्श ह ॥३८॥युयुधे वासुदेवस्तु बिले जाम्बवता सह ।बाहुभ्यामेव गोविन्दो दिवसानेकविंशतिम् ॥३९॥प्रविष्टे तु बिलं कृष्णे बलदेवपुरःसराः ।पुरीं द्वारवतीमेत्य हतं कृष्णं न्यवेदयन् ॥४०॥वासुदेवस्तु निर्जित्य जाम्बवन्तं महाबलम् ।भेजे जाम्बवतीं कन्यामृक्षराजस्य सम्मताम् ।मणिं स्यमन्तकं चैव जग्राहात्मविशुद्धये ॥४१॥अनुनीयर्क्षराजानं निर्ययौ च तदा बिलात् ।द्वारकामगमत् कृष्णः श्रिया परमया युतः ॥४२॥एवं स मणिमाहृत्य विशोध्यात्मानमच्युतः ।ददौ सत्राजिते तं वै सर्वसात्त्वतसंसदि ॥४३॥एवं मिथ्याभिशप्तेन कृष्णेनामित्रघातिना ।आत्मा विशोधितः पापाद् विनिर्जित्य स्यमन्तकम् ॥४४॥सत्राजितो दश त्वात्सन्भार्यास्तासां शतं सुताः ।ख्यातिमन्तस्त्रयस्तेषां भङ्गकारस्तु पूर्वजः॥४५॥वीरो वातपतिश्चैव उपस्वावांश्च ते त्रयः ।कुमार्यश्चापि तिस्रो वै दिक्षु ख्याता नराधिप ॥४६॥सत्यभामोत्तमा स्त्रीणां व्रतिनी च दृढव्रता ।तथा प्रस्वापिनी चैव भार्यां कृष्णाय तां ददौ ॥४७॥समाक्षो भङ्गकारस्य नारेयश्च नरोत्तमौ ।जज्ञाते गुणसम्पन्नौ विश्रुतौ रूपसम्पदा ॥४८॥माद्रीपुत्रस्य जज्ञेऽथ पृश्निः पुत्रो युधाजितः ।जज्ञाते तनयौ पृश्नेः श्वफल्कश्चित्रकस्तथा ॥४९॥श्वफल्कः काशिराजस्य सुतां भार्यामविन्दत ।गान्दिनीं नाम तस्याश्च सदा गाः प्रददौ पिता ॥५०॥तस्यां जज्ञे महाबाहुः श्रुतवानिति विश्रुतः ।अक्रूरोऽथ महाभागो यज्वा विपुलदक्षिणः ॥५१॥उपासङ्गस्तथा मद्गुर्मृदुरश्चारिमेजयः ।अविक्षिपस्तथोपेक्षः शत्रुहा चारिमर्दनः ॥५२॥धर्मधृग् यतिधर्मा च गृध्रो भोजोऽन्धकस्तथा ।आवाहप्रतिवाहौ च सुन्दरी च वराङ्गना ॥५३॥विश्रुता साम्बमहिषी कन्या चास्य वसुंधरा ।रूपयौवनसम्पन्ना सर्वसत्त्वमनोहरा ॥५४॥अक्रूरेणोग्रसेन्यां तु सुतौ द्वौ कुरुनन्दन ।प्रसेनश्चोपदेवश्च जज्ञाते देववर्चसौ ॥५५॥चित्रकस्याभवन् पुत्राः पृथुर्विपृथुरेव च ।अश्वग्रीवोऽश्वबाहुश्च सुपार्श्वकगवेषणौ ॥५६॥अरिष्टनेमिरश्वश्च सुधर्मा धर्मभृत् तथा ।सुबाहुर्बहुबाहुश्च श्रविष्ठाश्रवणे स्त्रियौ ॥५७॥इमां मिथ्याभिशस्तिं यः कृष्णस्य समुदाहृताम् ।वेद मिथ्याभिशापास्तं न स्पृशन्ति कदाचन ॥५८॥इति श्रीमहाभारते खिलभागे हरिवंशे हरिवंशपर्वण्यष्टत्रिंशोऽध्याथः ॥३८॥ N/A References : N/A Last Updated : July 12, 2018 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP