TransLiteral Foundation
संस्कृत सूची|संस्कृत साहित्य|पुराण|हरिवंशपुराणम्|हरिवंश पर्व|
एकोनचत्वारिंशोऽध्यायः

हरिवंश पर्व - एकोनचत्वारिंशोऽध्यायः

महर्षी व्यासांनी रचलेला हा महाभारताचा पुरवणी ग्रंथ आहे.


एकोनचत्वारिंशोऽध्यायः
स्यमन्तकमणिकारणेन प्रसेन, सत्राजित् एवं शतधन्वनोः मृत्युः, बलदेवस्य दुर्योधनाय गदाविद्यायाः शिक्षा, अकूरस्य श्रीकृष्णाय मणिप्रदानम्, श्रीकृष्णस्य पुनः अक्रूराय मणिप्रदानम्

वैशम्पायन उवाच
यत्तत् सत्राजिते कृष्णो मणिरत्नं स्यमन्तकम् ।
अदात् तद्धारयामास बभ्रुर्वै शतधन्वना ॥१॥
सदा हि प्रार्थयामास सत्यभामामनिन्दिताम् ।
अक्रूरोऽन्तरमन्विच्छन् मणिं चैव स्यमन्तकम् ॥२॥
सत्राजितं ततो हत्वा शतधन्वा महाबलः ।
रात्रौ तं मणिमादाय ततोऽक्रूराय दत्तवान् ॥३॥
अक्रूरस्तु ततो रत्नमादाय भरतर्षभ ।
समयं कारयांचक्रे नावेद्योऽहं त्वयेत्युत ॥४॥
वयमभ्युपयास्यामः कृष्णेन त्वामभिद्रुतम् ।
ममाद्य द्वारका सर्वा वशे तिष्ठत्यसंशयम् ॥५॥
हते पितरि दुःखार्ता सत्यभामा यशस्विनी ।
प्रययौ रथमारुह्य नगरं वारणावतम् ॥६॥
सत्यभामा तु तद्वृत्तं भोजस्य शतधन्वनः ।
भर्तुर्निवेद्य दुःखार्ता पार्श्वस्थाश्रूण्यवर्तयत् ॥७॥
पाण्डवानां तु दग्धानां हरिः कृत्वोदकक्रियाम् ।
कुल्यार्थे चापि पाण्डूनां न्ययोजयत सात्यकिम् ॥८॥
ततस्त्वरितमागत्य द्वारकां मधुसूदनः ।
पूर्वजं हलिनं श्रीमानिदं वचनमब्रवीत् ॥९॥
हतः प्रसेनः सिंहेन सत्राजिच्छतधन्वना ।
स्यमन्तकः स मद्गामी तस्य प्रभुरहं विभो ॥१०॥
तदारोह रथं शीघ्रं भोजं हत्वा महाबलम् ।
स्यमन्तको महाबाहो ह्यस्माकं स भविष्यति ॥११॥
ततः प्रववृते युद्धं तुमुलं भोजकृष्णयोः ।
शतधन्वा ततोऽक्रूरमवैक्षत् सर्वतो दिशम् ॥१२॥
संरब्धौ तावुभौ दृष्ट्वा तत्र भोजजनार्दनौ ।
शक्तोऽपि शाठ्याद्धार्दिक्यमक्रूरो नाभ्यपद्यत ॥१३॥
अपयाने ततो बुद्धिं भोजश्चक्रे भयार्दितः ।
योजनानां शतं साग्रं हयया प्रत्यपद्यत ॥१४॥
विख्याता हृदया 'नाम शतयोजनगामिनी ।
भोजस्य वडवा राजन् यया कृष्णमयोधयत् ॥१५॥
क्षीणां जवन च हयामध्वनः शतयोजने ।
दृष्ट्वा रथस्य ता वृद्धिं शतधन्वा समत्यजत् ॥१६॥
ततस्तस्या हयायास्तु श्रमात् खेदाच्च भारत ।
खमुत्पेतुरथ प्राणाः कृष्णो राममथाब्रवीत् ॥१७॥
तिष्ठस्वेह महाबाहो दृष्टदोषा हया मया ।
पद्भ्यां गत्वा हरिष्यामि मणिरत्नं स्यमन्तकम् ॥१८॥
पद्भ्यामेव ततो गत्वा शतधन्वानमच्युतः ।
मिथिलामभितो राजन् जघान परमास्त्रवित् ॥१९॥
स्यमन्तकं च नापश्यद्धत्वा भोजं महाबलम् ।
निवृत्तं चाब्रवीत् कृष्णं रत्नं देहीति लाङ्गली ॥२०॥
नास्तीति कृष्णश्चोवाच ततो रामो रुषान्वितः ।
धिक्छब्दमसकृत्कृत्वा प्रत्युवाच जनार्दनम् ॥२१॥
भ्रातृत्वान्मर्षयाम्येष स्वस्ति तेऽस्तु व्रजाम्यहम् ।
कृत्यं न मे द्वारकया न त्वया न च वृष्णिभिः ॥२२॥
प्रविवेश ततो रामो मिथिलामरिमर्दनः ।
सर्वकामैरुपहृतैमैथिलेनाभिपूजितः ॥२३॥
एतस्मिन्नेव काले तु बभ्रुर्मतिमतां वरः ।
नानारूपान् क्रतून् सर्वानाजहार निरर्गलान् ॥२४॥
दीक्षामयं स कवचं रक्षार्थं प्रविवेश ह ।
स्यमन्तककृते प्राज्ञो गान्दीपुत्रो महायशाः ॥२५॥
अथ रत्नानि चाग्र्याणि द्रव्याणि विविधानि च ।
षष्टिं वर्षाणि धर्मात्मा यज्ञेषु विनियोजयत् ॥२६॥
अक्रूरयज्ञा इति ते ख्यातास्तस्य महात्मनः ।
बह्वन्नदक्षिणाः सर्वे सर्वकामप्रदायिनः ॥२७॥
अथ दुर्योधनो राजा गत्वा तु मिथिलां प्रभुः ।
गदाशिक्षां ततो दिव्यां बलभद्रादवाप्तवान् ॥२८॥
प्रसाद्य तु ततो रामो वृष्ण्यन्धकमहारथैः ।
आनीतो द्वारकामेव कृष्णेन च महात्मना ॥२९॥
अक्रूरस्त्वन्धकैः सार्धमपायाद् भरतर्षभ ।
हत्वा सत्राजितं सुप्तं सहबन्धुं महाबलम् ॥३०॥
ज्ञातिभेदभयात् कृष्णस्तमुपेक्षितवानथ ।
अपयाते तथाक्रूरे नावर्षत् पाकशासनः ॥३१॥
अनावृष्ट्या यदा राज्यमभवद् बहुधा कृशम् ।
ततः प्रसादयामासुरक्रूरं कुकुरान्धकाः ॥३२॥
पुनर्द्वारवतीं प्राप्ते तस्मिन् दानपतौ ततः ।
प्रववर्ष सहस्राक्षः कच्छे जलनिधेस्तदा ॥३३॥
कन्यां च वासुदेवाय स्वसारं शीलसम्मताम् ।
अक्रूरः प्रददौ धीमान् प्रीत्यर्थं कुरुनन्दन ॥३४॥
अथ विज्ञाय योगेन कृष्णो बभ्रूगतं मणिम् ।
सभामध्ये गतं प्राह तमक्रूरं जनार्दनः ॥३५॥
यत् तद् रत्नं मणिवरं तव हस्तगतं विभो ।
तत् प्रयच्छस्व मानार्ह मयि मानार्यकं कृथाः ॥३६॥
षष्टिवर्षे गते काले यद्रोषोऽभून्ममानघ ।
स संरूढोऽसकृत्प्राप्तस्ततः कालात्ययो महान् ॥३७॥
ततः कृष्णस्य वचनात् सर्वसात्त्वतसंसदि ।
प्रददौ तं मणिं बभ्रुरक्लेशेन महामतिः ॥३८॥
ततस्तमार्जवप्राप्तं बभ्रोर्हस्तादरिंदमः ।
ददौ हृष्टमनाः कृष्णस्तं मणिं बभ्रवे पुनः ॥३९॥
स कृष्णहस्तात्सम्प्राप्तं मणिरन्तं स्यमन्तकम् ।
आबद्ध्य गान्दिनीपुत्रो विरराजांशुमानिव ॥४०॥
यस्त्वेवं शृणुयान्नित्यं शुचिर्भूत्वा समाहितः ।
सुखानां सकलानां च फलभागीह जायते ॥४१॥
आ ब्रह्मभुवनाश्चापि यशःख्यातिर्न संशयः ।
भविष्यति नृपश्रेष्ठ सत्यमेतद् ब्रवीमि ते ॥४२॥
इति श्रीमहाभारते खिलभागे हरिवंशे हरिवंशपर्वण्येकोनचत्वारिंशोऽध्यायः ॥। ३९ ॥।

Translation - भाषांतर
N/A

References : N/A
Last Updated : 2018-07-12T13:18:00.7070000

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.

principle of maximum social advantage

  • महत्तम सामाजिक लाभाचे तत्त्व, कमाल सामाजिक लाभाचे तत्त्व 
  • महत्तम सामाजिक लाभाचे तत्त्व 
  • कमाल सामाजिक लाभाचे तत्त्व 
RANDOM WORD

Did you know?

जुळी मुले झाली असतां शांति करावी काय?
Category : Hindu - Beliefs
RANDOM QUESTION
Don't follow traditions blindly or ignore them. Don't assume a superstition either. Don't be intentionally ignorant. Ask us!!
Hindu customs are all about Symbolism. Let us tell you the thought behind those traditions.
Make Informed Religious decisions.