संस्कृत सूची|संस्कृत साहित्य|पुराण|हरिवंशपुराणम्|हरिवंश पर्व| प्रथमोऽध्यायः हरिवंश पर्व प्रथमोऽध्यायः द्वितीयोऽध्यायः तृतीयोऽध्यायः चतुर्थोऽध्यायः पञ्चमोऽध्यायः षष्ठोऽध्यायः सप्तमोऽध्यायः अष्टमोऽध्यायः नवमोऽध्यायः दशमोऽध्यायः एकादशोऽध्यायः द्वादशोऽध्यायः त्रयोदशोऽध्यायः चतुर्दशोऽध्यायः पञ्चदशोऽध्यायः षोडशोऽध्यायः सप्तदशोऽध्यायः अष्टादशोऽध्यायः एकोनविंशोऽध्यायः विंशोऽध्यायः एकविंशोऽध्यायः त्रयोविंशतितमोऽध्यायः चतुर्विशतितमोऽध्यायः पञ्चविंशतितमोऽध्यायः षडविंशोऽध्यायः सप्तविंशोऽध्यायः अष्टाविंशोऽध्यायः एकोनत्रिंशोऽध्यायः त्रिंशोऽध्यायः एकत्रिंशोऽध्यायः द्वात्रिंशोऽध्यायः त्रयस्त्रिंशोऽध्यायः चतुस्त्रिंशोऽध्यायः पञ्चत्रिंशोऽध्यायः षट्त्रिंशोऽध्यायः सप्तत्रिंशोऽध्यायः अष्टत्रिंशोऽध्यायः एकोनचत्वारिंशोऽध्यायः चत्वारिंशोऽध्यायः एकचत्वारिंशोऽध्यायः द्विचत्वारिंशोऽध्यायः त्रिचत्वारिंशोऽध्यायः चतुश्चत्वारिंशोऽध्यायः पञ्चचत्वारिंशोऽध्यायः षट्चत्वारिंशोऽध्यायः सप्तचत्वारिंशोऽध्यायः अष्टचत्वारिंशोऽध्यायः एकोनपञ्चाशत्तमोऽध्यायः पञ्चाशत्तमोऽध्यायः एकपञ्चाशत्तमोऽध्यायः द्विपञ्चाशत्तमोऽध्यायः त्रिपञ्चाशत्तमोऽध्यायः चतुष्पञ्चाशत्तमोऽध्यायः पञ्चपञ्चाशत्तमोऽध्याय हरिवंश पर्व - प्रथमोऽध्यायः महर्षी व्यासांनी रचलेला हा महाभारताचा पुरवणी ग्रंथ आहे. Tags : harivansha puranpuransanskritपुराणसंस्कृतहरिवंश पुराण प्रथमोऽध्यायः Translation - भाषांतर नारायणं नमस्कृत्य नरं चैव नरोत्तमम् ।देवीं सरस्वतीं व्यासं ततो जयमुदीरयेत् ॥१॥द्वैपायनोष्ठपुटनिःसृतमप्रमेयंपुण्यंपवित्रमथ पापहरं शिवं च ।यो भारतं समधिगच्छति वाच्यमानंकिं तस्य पुष्करजलैरभिषेचनेन ॥२॥जयति पराशरसूनुःसत्यवतीहदयनन्दनो व्यासः ।यस्यास्यकमलगलितंवाङ्मयममृतं जगत् पिबति ॥३॥यो गोशतं कनकशृङ्गमयं ददातिविप्राय वेदविदुषे बहुविश्रुताय ।पुण्यां च भारतकथां शृणुयाच्च तद्वत्तुल्यं फलं भवति तस्य च तस्य चैव ॥४॥शताश्वमेधस्य यदत्र पुण्यंचतुःसहस्रस्य शतक्रतोश्च ।भवेदनन्तं हरिवंशदानात्प्रकीर्तितं व्यासमहर्षिणा च ॥५॥यद् वाजपेयेन तु राजसूयाद्दृष्टं फलं हस्तिरथेन चान्यत् ।तल्लभ्यते व्यासवचः प्रमाणंगीतं च वाल्मीकिमहर्षिणा च ॥६॥यो हरिवंशं लेखयतियथाविधिना महातपाः सपदि ।च जयति हरिपदकमलंमधुपो हि यथा रसेन लुब्धः ॥७॥पितामहाद्यं प्रवदन्ति षष्ठंमहर्षिमक्षय्यविभूतियुक्तम् ।नारायणस्यांशजमेकपुत्रंद्वैपायनं वेद महानिधानम् ॥८॥आद्यं पुरुषमीशानं पुरुहूतं पुरुष्टुतम् ॥पुरुहवं उक्तम् ।ऋतमेकाक्षरं ब्रह्म व्यक्ताव्यक्तं सनातनम् ॥९॥असच्च सदसच्चैव यद्विश्वं सदसत्परम् ।परावराणां स्रष्टारं पुराणं परमव्ययम् ॥१०॥मङ्गल्यं मङ्गलं विष्णुं वरेण्यमनघं शुचिम् ।नमस्कृत्य हृषीकेशं चराचरगुरुं हरिम् ॥११॥नैमिषारण्ये कुलपतिः शौनकस्तु महामुनिः ।सौतिं पप्रच्छ धर्मात्मा सर्वशास्त्रविशारदः ॥१२॥शौनक उवाचसौते सुमहदख्यानं भवता परिकीर्तितम् ।भारतानां च सर्वेषां पार्थिवानां तथैव च ॥१३॥देवानां दानवानां च गन्धर्वोरगरक्षसाम् ।दैत्यानामथ सिद्धानां गुह्यकानां तथैव च ॥१४॥अत्यद्भुतानि कर्माणि विक्रमा धर्मनिश्चयाः ।विचित्राश्च कथायोगा जन्म चाग्र्यमनुत्तमम् ॥१५॥कथितं भवता पुण्यं पुराणं श्लक्ष्णया गिरा ।मनःकर्णसुखं सौते प्रीणात्यमृतसम्मितम् ॥१६॥तत्र जन्म कुरूणां वै त्वयोक्तं लौमहर्षणे ।न तु वृष्ण्यन्धकानां च तद् भवान् वक्तुमर्हति ॥१७॥सौतिरुवाचजनमेजयेन यत्प्रष्टः शिष्यो व्यासस्य धर्मवित् ।तत् तेऽहं सम्प्रवक्ष्यामि वृष्णीनां वंशमादितः ॥१८॥श्रुत्वेतिहासं कार्त्स्न्येन भारतानां स भारतः ।जनमेजयो महाप्राज्ञो वैशम्पायनमब्रवीत् ॥१९॥जनमेजय उवाचमहाभारतमाख्यानं बह्वर्थं श्रुतिविस्तरम् ।कथितं भवता पूर्वं विस्तरेण मया श्रुतम् ॥२०॥तत्र शूराः समाख्याता बहवः पुरुषर्षभाः ।नामभिः कर्मभिश्चैव वृष्ण्यन्धकमहारथाः ॥२१॥तेषां कर्मावदातानि त्वयोक्तानि द्विजोत्तम ।तत्र तत्र समासेन विस्तरेणैव मे प्रभो ॥२२॥न च मे तप्तिरस्तीह कथ्यमाने पुरातने ।एकश्चैव मतो राशिर्वृष्णयः पाण्डवास्तथा ॥२३॥भवांश्च वंशकुशलस्तेषां प्रत्यक्षदर्शिवान् ।कथयस्व कुलं तेषां विस्तरेण तपोधन ॥२४॥यस्य यस्यान्वये ये ये तांस्तानिच्छामि वेदितुम् ।स त्वं सर्वमशेषेण कथयस्व महामुने ।तेषां पूर्वविसृष्टिं च विचिन्त्येमां प्रजापतेः ॥२५॥सौतिरुवाचसत्कृत्य परिपृष्टस्तु स महात्मा महातपाः ॥।विस्तरेणानुपूर्व्या च कथयामास तां कथाम् ॥२६॥वैशम्पायन उवाचशृणु राजन् कथां दिव्यां पुण्यां पापप्रमोचनीम् ।कथ्यमानां मया चित्रां बह्वर्थां श्रुतिसम्मिताम् ॥२७॥यश्चेमां धारयेद् वापि शृणुयाद् वाऽप्यभीक्ष्णशः ।स्ववंशधारणं कृत्वा स्वर्गलोके महीयते ॥२८॥अव्यक्तं कारणं यत् तन्नित्यं सदसदात्मकम् ।प्रधानं पुरुषं तस्मान्निर्ममे विश्वमीश्वरम् ॥२९॥तं वै विद्धि महाराज ब्रह्माणममितौजसम् ।स्रष्टारं सर्वभूतानां नारायणपरायणम् ॥३०॥अहङ्कारस्तु महतस्तस्माद् भूतानि जज्ञिरे ।भूतभेदाश्च भूतेभ्य इति सर्गः सनातनः ॥३१॥विस्तरावयवं चैव यथाप्रज्ञं यथाश्रुति ।कीर्त्यमानं शृणु मया पूर्वेषां कीर्तिवर्धनम् ॥३२॥धन्यं यशस्यं शत्रुघ्नं स्वर्ग्यमायुःप्रवर्धनम् ।कीर्तनं स्थिरकीर्तीनां सर्वेषां पुण्यकर्मणाम् ॥३३॥तस्मात्कल्पाय ते कल्पः समग्रं शुचये शुचिः ।आ वृष्णिवंशाद् वक्ष्यामि भूतसर्गमनुत्तमम् ॥३४॥ततः स्वयम्भूर्भगवान् सिसृक्षुर्विविधाः प्रजाः ।अप एव ससर्जादौ तासु वीर्यमवासृजत् ॥३५॥आपो नारा इति प्रोक्ता आपो वै नरसूनवः ।अयनं तस्य ताः पूर्वं तेन नारायणः स्मृतः ॥३६॥हिरण्यवर्णमभवत् तदण्डमुदकेशयम् ।तत्र जज्ञे स्वयं ब्रह्मा स्वयम्भूरिति नः श्रुतम् ॥३७॥हिरण्यगर्भो भगवानुषित्वा परिवत्सरम् ।तदण्डमकरोद् द्वैधं दिवं भुवमथापि च ॥३८॥तयोः शकलयोर्मध्ये आकाशमसृजत् प्रभुः ।अप्सु पारिप्लवां पृथ्वीं दिशश्च दशधा दधे ॥३९॥तत्र कालं मनो वाचं कामं क्रोधमथो रतिम् ।ससर्ज सृष्टिं तद्रूपां स्रष्टुमिच्छन् प्रजापतीन् ॥४०॥मरीचिमत्र्यङ्गिरसं पुलस्त्यं पुलहं क्रतुम् ।वसिष्ठं च महातेजाः सोऽसृजत्सप्त मानसान् ॥४१॥सप्त ब्रह्माण इत्येते पुराणे निश्चयं गताः ।नारायणात्मकानां वै सप्तानां ब्रह्मजन्मनाम् ॥४२॥ततोऽसृजत्पुनर्ब्रह्मा रुद्रं रोषात्मसम्भवम् ।सनत्कुमारं च विभुं पूर्वेषामपि पूर्वजम् ॥४३॥सप्तैते जनयन्ति स्म प्रजा रुद्रश्च भारत ।स्कन्दः सनत्कुमारश्च तेजः संक्षिप्य तिष्ठतः ॥४४॥तेषां सप्त महावंशा दिव्या देवगणान्विताः ।क्रियावन्तः प्रजावन्तो महर्षिभिरलंकृताः ॥४५॥विद्युतोऽशनिमेघांश्च रोहितेन्द्रधनूंषि च ।वयांसि च ससर्जादौ पर्जन्यं च ससर्ज ह ॥४६॥ऋचो यजूंषि सामानि निर्ममे यज्ञसिद्धये ।मुखाद् देवानजनयत्पितॄंश्चेशोऽपि वक्षसः ॥४७॥प्रजनाच्च मनुष्यान् वै जघनान्निर्ममेऽसुरान् ।साध्यानजनयद् देवानित्येवमनुशुश्रुम ॥४८॥उच्चावचानि भूतानि गात्रेभ्यस्तस्य जज्ञिरे ।आपवस्य प्रजासर्गं सृजतो हि प्रजापतेः ॥४९॥सृज्यमानाः प्रजा नैव विवर्धन्ते यदा तदा ।द्विधा कृत्वाऽऽत्मनो देहमर्धेन पुरुषोऽभवत् ॥५०॥अर्धेन नारी तस्यां स ससृजे विविधाः प्रजाः ।दिवं च पृथिवीं चैव महिम्ना व्याप्य तिष्ठतः ॥५१॥विराजमसृजद्विष्णुः सोऽसृजत्पुरुषं विराट् ।पुरुषं तं मनुं विद्धि तद् वै मन्वन्तरं स्मृतम् ॥५२॥द्वितीयमापवस्यैतन्मनोरन्तरमुच्यते ।स वैराजः प्रजासर्गे ससर्ज पुरुषः प्रभुः ।नारायणविसर्गः स प्रजास्तस्याप्ययोनिजाः ॥५३॥आयुष्मान् कीर्तिमान् धन्यः प्रजावाञ्छ्रुतवांस्तथा ।आदिसर्गं विदित्वेमं यथेष्टां गतिमाप्नुयात् ॥५४॥इति श्रीमहाभारते खिलभागे हरिवंशे हरिवंशपर्वणि आदिसर्गकथने प्रथमोऽध्यायः ॥१॥ N/A References : N/A Last Updated : July 10, 2018 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP