TransLiteral Foundation
संस्कृत सूची|संस्कृत साहित्य|पुराण|हरिवंशपुराणम्|हरिवंश पर्व|
त्रिंशोऽध्यायः

हरिवंश पर्व - त्रिंशोऽध्यायः

महर्षी व्यासांनी रचलेला हा महाभारताचा पुरवणी ग्रंथ आहे.


त्रिंशोऽध्यायः
नहुष एवं ययातेः वंशस्य वर्णनम्, ययातेः चरित्रम्

वैशम्पायन उवाच
उत्पन्नाः पितृकन्यायां विरजायां महौजसः ।
नहुषस्य तु दायादाः षडिन्द्रोपमतेजसः ॥१॥
यतिर्ययातिः संयातिरायातिः पाञ्चिको भवः ।
सुयातिः षष्ठस्तेषां वै ययातिः पार्थिवोऽभवत् ।
यतिर्ज्येष्ठस्तु तेषां वै ययातिस्तु ततः परम् ॥२॥
ककुत्स्थकन्यां गां नाम लेभे परमधार्मिकः ।
यतिस्तु मोक्षमास्थाय ब्रह्मभूतोऽभवन्मुनिः ॥३॥
तेषां ययातिः पञ्चानां विजित्य वसुधामिमाम् ।
देवयानीमुशनसः सुतां भार्यामवाप सः ।
शर्मिष्ठामासुरीं चैव तनयां वृषपर्वणः ॥४॥
यदुं च तुर्वसुं चैव देवयानी व्यजायत ।
द्रुह्युं चानुं च पूरुं च शर्मिष्ठा वार्षपर्वणी ॥५॥
तस्मै शक्रो ददौ प्रीतो रथं परमभास्वरम् ।
असङ्गं काञ्चनं दिव्यं दिव्यैः परमवाजिभिः ॥६॥
युक्तं मनोजवैः शुभ्रैर्येन भार्यामुवाह सः ।
स तेन रथमुख्येन षड्रात्रेनाजयन्महीम् ।
ययातिर्युधि दुर्धर्षस्तथा देवान् सदानवान् ॥७॥
स रथः पौरवाणां तु सर्वेषामभवत् तदा ।
यावत्तु वसुनाम्नो वै कौरवाज्जनमेजय ॥८॥
कुरोः पुत्रस्य राजेन्द्र राज्ञः पारीक्षितस्य ह ।
जगाम स रथो नाशं शापाद् गार्ग्यस्य धीमतः ॥९॥
गार्ग्यस्य हि सुतं बालं स राजा जनमेजयः ।
वाक्छूरं हिंसयामास ब्रह्महत्यामवाप सः ॥१०॥
स लोहगन्धी राजर्षिः परिधावन्नितस्ततः ।
पौरजानपदैस्त्यक्तो न लेभे शर्म कर्हिचित् ॥११॥
ततः स दुःखसंतप्तो नालभत्संविदं क्वचित् ।
इन्द्रोतः शौनकं राजा शरणं प्रत्यपद्यत ॥१२॥
याजयामास चेन्द्रोतं शौनको जनमेजयम् ।
अश्वमेधेन राजानं पावनार्थं द्विजोत्तमः ॥१३॥
स लोहगन्धो व्यनशत् तस्यावभृथमेत्य ह ।
स च दिव्यो रथो राजन् वसोश्चेदिपतेस्तदा ।
दत्तः शक्रेण तुष्टेन लेभे तस्माद् बृहद्रथः ॥१४॥
बृहद्रथात्क्रमेणैव गतो बार्हद्रथं नृपम् ।
ततो हत्वा जरासंधं भीमस्तं रथमुत्तमम् ॥१५॥
प्रददौ वासुदेवाय प्रीत्या कौरवनन्दनः ।
सप्तद्वीपां ययातिस्तु जित्वा पृध्वी ससागराम् ॥१६॥
व्यभजत् पञ्चधा राजन् पुत्राणां नाहुषस्तदा ।
दिशि दक्षिणपूर्वस्यां तुर्वसुं मतिमान् नृपः ॥१७॥
प्रतीच्यामुत्तरस्यां च द्रुह्युं चानुं च नाहुषः ।
दिशि पूर्वोत्तरस्यां वै यदुं ज्येष्ठं न्ययोजयत् ॥१८॥
मध्ये पूरुं च राजानमभ्यषिञ्चत नाहुषः ।
तैरियं पृथिवी सर्वा सप्तद्वीपा सपत्तना ॥१९॥
यथाप्रदेशमद्यापि धर्मेण प्रतिपाल्यते ।
प्रणास्तेषां पुरस्तात्तु वक्ष्यामि नृपसत्तम ॥२०॥
धनुर्न्यस्य पृषत्कांश्च पञ्चभिः पुरुषर्षभैः ।
जरावानभवद् राजा भारमावेश्य बन्धुषु ॥२१॥
निःक्षिप्तशस्त्रः पृथिवीं निरीक्ष्य पृथिवीपतिः ।
प्रीतिमानभवद् राजा ययातिरपराजितः ।
एवं विभज्य पृथिवीं ययातिर्यदुमब्रवीत् ॥२२॥
जरां मे प्रतिगृह्णीष्व पुत्र कृत्यान्तरेण वै ।
तरुणस्तव रूपेण चरेयं पृथिवीमिमाम् ।
जरां त्वयि समाधाय तं यदुः प्रत्युवाच ह ॥२३॥
अनिर्दिष्टा मया भिक्षा ब्राह्मणस्य प्रतिश्रुता ।
अनपाकृत्य तां राजन् न ग्रहीष्यामि ते जराम् ॥२४॥
जरायां बहवो दोषाः पानभोजनकारिताः ।
तस्माज्जरां न ते राजन् ग्रहीतुमहमुत्सहे ॥२५॥
सन्ति ते बहवः पुत्रा मत्तः प्रियतरा नृप ।
प्रतिग्रहीतुं धर्मज्ञ पुत्रमन्यं वृणीष्व वै ॥२६॥
स एवमुक्तो यदुना राजा कोपसमन्वितः ।
उवाच वदतां श्रेष्ठो ययातिर्गर्हयन् सुतम् ॥२७॥
क आश्रयस्तवान्योऽस्ति को वा धर्मो विधीयते ।
मामनादृत्य दुर्बुद्धे यदहं तव देशिकः ॥२८॥
एवमुक्त्वा यदुं तात शशापैनं स मन्युमान् ।
अराज्ञ्या ते प्रजा मूढ भवित्रीति नराधम ॥२९॥
स तुर्वसुं च द्रुह्युं चाप्यनुं च भरतर्षभ ।
एवमेवाब्रवीद् राजा प्रत्याख्यातश्च तैरपि ॥३०॥
शशाप तानतिक्रुद्धो ययातिरपराजितः ।
यथा ते कथितं पूर्वं मया राजर्षिसत्तमः ॥३१॥
एवं शप्त्वा सुतान् सर्वांश्चतुरः पूरुपूर्वजान् ।
तदेव वचनं राजा पूरुमप्याह भारत ॥३२॥
तरुणस्तव रूपेण चरेयं पृथिवीमिमाम् ।
जरां त्वयि समाधाय त्वं पूरो यदि मन्यसे ॥३३॥
स जरां प्रतिजग्राह पितुः पूरुः प्रतापवान् ।
ययातिरपि रूपेण पूरोः पर्यचरन्महीम् ॥३४॥
स मार्गमाणः कामानामन्तं भरतसत्तम ।
विश्वाच्या सहितो रेमे वने चैत्ररथे प्रभुः ॥३५॥
यदावितृष्णः कामानां भोगेषु स नराधिपः ।
तदा पूरोः सकाशाद्वै स्वां जरां प्रत्यपद्यत ॥३६॥
तत्र गाथा महाराज शृणु गीता ययातिना ।
याभिः प्रत्याहरेत्कामान् सर्वतोऽङ्गानि कूर्मवत् ॥३७॥
न जातु कामः कामानामुपभोगेन शाम्यति ।
हविषा कृष्णवर्त्मेव भूय एवाभिवर्धते ॥३८॥
यत् पृथिव्यां व्रीहियवं हिरण्यं पशवः स्त्रियः ।
नालमेकस्य तत् सर्वमिति पश्यन्न मुह्यति ॥३९॥
यदा भावं न कुरुते सर्वभूतेषु पापकम् ।
कर्मणा मनसा वाचा ब्रह्म सम्पद्यते तदा ॥४०॥
यदानेभ्यो न बिभ्येत यदाचास्मान्न बिभ्यति ।
यदा नेच्छति न द्वेष्टि ब्रह्म सम्पद्यते तदा ॥४१॥
या दुस्त्यजा दुर्मतिभिर्या न जीर्यति जीर्यतः ।
योऽसौ प्राणान्तिको रोगस्तां तृष्णां त्यजतः सुखम् ॥४२॥
जीर्यन्ति जीर्यतः केशा दन्ता जीर्यन्ति जीर्यतः ।
जीविताशा धनाशा च जीर्यतोऽपि न जीर्यति ॥४३॥
यच्च कामसुखं लोके यच्च दिव्यं महत्सुखम् ।
तृष्णाक्षयसुखस्यैते नार्हतः षोडशीं कलाम् ॥४४॥
एवमुक्त्वा स राजर्षिः सदारः प्राविशद्वनम् ।
कालेन महता वापि चचार विपुलं तपः ॥४५॥
भृगुतुङ्गे तपस्तप्त्वा तपसोऽन्ते महातपाः ।
अनश्नन् देहमुत्सृज्य सदारः स्वर्गमाप्तवान् ॥४६॥
तस्य वंशे महाराज पञ्च राजर्षिसत्तमाः ।
यैर्व्याप्ता पृथिवी सर्वा सूर्यस्येव गभस्तिभिः ॥४७॥
यदोस्तु शृणु राजर्षेर्वंशं राजर्षिसत्कृतम् ।
यत्र नारायणो जज्ञे हरिर्वृष्णिकुलोद्वहः ॥४८॥
धन्यः प्रजावानायुष्मान् कीर्तिमांश्च भवेन्नरः ।
ययातेश्चरितं पुण्यं पठञ्छृण्वन् नराधिप ॥४९॥
इति श्रीमहाभारते खिलभागे हरिवंशे हरिवंशपर्वणि ययातिचरिते त्रिंशोऽध्यायः ॥३०॥

Translation - भाषांतर
N/A

References : N/A
Last Updated : 2018-07-12T12:12:18.9800000

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.

लतकुटार

  • Shameless, callous, persisting in bad ways, heedless of kicks and blows, of prohibitions and rebukes. 
RANDOM WORD

Did you know?

सोळा मासिक श्राद्धें कोणती ?
Category : Hindu - Traditions
RANDOM QUESTION
Don't follow traditions blindly or ignore them. Don't assume a superstition either. Don't be intentionally ignorant. Ask us!!
Hindu customs are all about Symbolism. Let us tell you the thought behind those traditions.
Make Informed Religious decisions.