संस्कृत सूची|संस्कृत साहित्य|पुस्तकं|धर्मसिंधु|तृतीयः परिच्छेदः : पूर्वार्ध १|
अथबालस्यदृष्टिदोषादौरक्षाविधिः

धर्मसिंधु - अथबालस्यदृष्टिदोषादौरक्षाविधिः

This 'Dharmasindhu' grantha was written by Pt. Kashinathashastree Upadhyay, in the year 1790-91.


वासुदेवोजगन्नाथःपूतनातर्जनोहरिः । रक्शतुत्वरितोबालंमुंचमुंचकुमारकम् १

कृष्णरक्षशिशुंशङ्खमधुकैटभमर्दन प्रातःसङ्गवमध्याह्नसायाह्नेषुचसंध्ययोः २

महानिशिसदारक्षकंसारिष्तनिषूदन । यद्गोरजःपिशाचांश्चग्रहान्मा तृग्रहानपि ३

बालग्रहान्‌विशेषेणछिन्धिछिन्धिमहाभयान्‍ । त्राहित्राहिहरेनित्यंत्वद्रक्षाभूशितंशिशुम् ४

इतिभस्माभिमन्त्र्यैवभूषयेतेनभस्मना । शिरोललाटाद्यङ्गेसुरक्षांकुर्याद्यथाविधि ५ इति ।

प्रयोग सागरे रक्शह्रक्षमहादेवनीलग्रीवजटाधर । ग्रहैस्तुसंहितोरक्षमुञ्चमुञ्चकुमारकम् १

अमुंमन्त्रंभुर्जपत्रेविलिख्यतत्पत्रंभुजेबन्धीयात् बालरोदनपरिहारार्थंयन्त्रमुक्तंमयूखे

षडस्त्रमध्येर्‍हींकारस्तन्मध्येशिशोर्नामबिलिख्यषट्‌कोणेषु

ॐलुलुवस्वाहेतिमन्त्रषडक्षराणिविलिख्यतद्वहिर्नेमिवद्‌वृत्तद्वयंविलिख्यतद्वहिरधोमुखैरर्धचन्द्रैरावेष्ट्यपञ्चोपचारैः

संपूज्यबालहस्ते बध्नीयादिति बालग्रहशान्त्यादिकं बालग्रहस्तवश्चशान्तिकमलाकरशान्तिमयूखयोर्द्रष्टव्यम् ॥

N/A

References : N/A
Last Updated : May 13, 2008

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP