संस्कृत सूची|संस्कृत साहित्य|पुस्तकं|धर्मसिंधु|तृतीयः परिच्छेदः : पूर्वार्ध १|
अथदिनक्षयादिशान्तिः

धर्मसिंधु - अथदिनक्षयादिशान्तिः

This 'Dharmasindhu' grantha was written by Pt. Kashinathashastree Upadhyay, in the year 1790-91.


दिनक्षयेचभद्रायांप्रसूतिर्यदिजायते । यमघण्टे दग्धयोगेमृत्युयोगेचदारुणे १ दुष्टयोगतिथीनांचनिषिद्धांशेषुचेत्तदा ।

अतिदोषकरीप्रोक्तातस्मिन्पापयुतेसति २ यमघण्टादयोज्योतिर्ग्रन्थेप्रसिद्धाः दुर्योगतिथीनांनिषिद्धभागास्तु

विष्कंभवज्रयोस्तिस्त्रःषट्‌चगण्डातिगण्डयोः । परिघार्धंपञ्चशूलेव्याघातेऽङ्कघटीस्त्यजेत् १ चतुःषडष्टनिध्यर्कभूततिथ्याद्यनाडिकाः ।

अष्टा ८ ङ्क ९ मनु १४ तत्त्वा २५ शा १० बाण ५ संख्या विवर्जयेत् १ इत्युक्ताज्ञेयाः

दिनक्षयादिदोषेष्वेकैकदोषदूषितकालेजननेशिवेरुद्रैकादशिन्यभिषेकःकार्यः

द्वित्रादिदोषसमुच्चयेग्रहयज्ञाश्वत्थप्रदक्षिणादिसमुच्चयःदीपंशिवालयेभक्त्याघृतेनपरिदापयेत् ।

गाणपत्यंपुरुषसूक्तंसौरंमृत्युंजयंशुभम् १ शान्तिजाप्यंरुद्रजाप्यंकृत्वा मृत्युंजयीभवेत् ।

इतिवाक्याद्बहुदोषे उक्तजपादिसमुच्चयोऽपि ॥

N/A

References : N/A
Last Updated : May 13, 2008

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP